Book Title: Vyavahar Sutram Part 01 pithika
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका १०२ (A/M आपन्नं तदेव दीयते इति यावत्, कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्नं तस्याक्तिनमनन्तरं दीयते, कदाचित्प्रभूतायामसमर्थतायां बवन्तरितं बहुभिः प्रायश्चित्तैरन्तरितमर्वाक्तनं दीयते इति यावत्, अत्यन्ताऽसमर्थतायां झोसो वा सर्वस्य प्रायश्चित्तस्य परित्यागः, आलोचनामात्रेणैव तस्यामवस्थायां तस्य शुद्धिभावात् । यथा कृतकरणस्योपाध्यायस्य मूलमापन्नस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदः, तथाप्यसमर्थतायां षड्गुरु, तत्राप्यशक्तौ षड्लघु , एवं तावन्नेयं यावन्निर्विकृतिकं, तत्राप्यशक्तौ पौरुषी, तत्राप्यसमर्थतायां नमस्कारसहितं, तस्यापि गाढग्लानत्वभावतोऽसम्भवे एवमेवालोचनामात्रतः शुद्धिरिति ॥ १६८॥ तदेवं 'कयकरणा इयरे वा'। इत्यादिगाथाद्वयं [गा. १५९-१६०] सकलमपि भावितम्। अधुना 'सावेक्खा आयरीयमादी' [गा. १५९] इति यदुक्तं तत्र परस्याऽऽक्षेपमाह आयरियादी तिविहो, सावेक्खाणं तु किं कतो भेदो? । एएसिं पच्छित्तं, दाणं चऽण्णं अतो तिविहो ॥ १६९ ॥ १. सर्वप्राय० वा. पु० । सर्वथा पायश्चित्तेभ्यः परिः खं० ॥ गाथा १६९-१७२ प्रायश्चित्तदानभेदे कारणानि १०२ (A) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280