________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ४१ (B)
X
गुप्तयस्तिस्रः, तद्यथा-मनोगुप्तिः वचनगुप्तिः कायगुप्तिश्च, तासु। समितयः पञ्च तद्यथाईर्यासमितिः भाषासमितिः एषणासमितिः आदानभाण्डमात्र-निक्षेपणासमितिः उच्चारप्रश्रवण-खेल-सिवाण-जल्ल-परिस्थापनिकासमितिश्च। एतासु च सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सतीति वाक्यशेषः, प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणम्। इयमत्र भावना-सहसाकारतोऽनाभोगतो वा यदि मनसा दुश्चिन्तितं, वचसा दुर्भाषितं, कायेन दुश्चेष्टितं, तथा ईर्यायां यदि कथां कथयन् व्रजेत्, भाषायामपि यदि गृहस्थभाषया | ढड्डरस्वरेण वा भाषेत, एषणायां भक्त-पान-गवेषणवेलायामनुपयुक्तः, भाण्डोपकरणस्याऽऽदाने निक्षेपे चाऽप्रमार्जयिता, अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता, न च हिंसादोषमापन्नः, उपलक्षणमेतत्, तेन यदि कन्दर्पो वा हासो वा, स्त्री-भक्त-चौर-जनपदकथा वा तथा क्रोध-मान-माया-लोभेषु गमनं, विषयेषु वा शब्दरूप-रस-गन्ध-स्पर्शलक्षणेष्वनुष्वङ्गः, सहसा-ऽनाभोगतो वा कृतः स्यात्, तत एतेषु सर्वेषु स्थानेषु मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तमिति। तथा 'प्रतिरूपयोगे' प्रतिरूपविनयात्मके व्यापारे, तथा प्रशस्तो यो यत्र करणीयो व्यापारः स तत्र प्रशस्त:-- इच्छा-मिच्छा
गाथा ५८-६० प्रायश्चित्तस्वरुपम्
४१ (B)
For Private And Personal Use Only