________________
Shri Mahavir Jain Aradhana Kendra
1
श्री
व्यवहार
सूत्रम्
पीठिका
७८ (A)
www.kobatirth.org
चतुर्विधो मुखपोतिकादिरूपः प्रागुक्तः । मध्यमस्त्रयोदशविधः, तद्यथा - पात्रबन्धो १, रजोहरणं २, पटलानि ३, रजस्त्राणं ४, मात्रकं ५, कमढकः ६, अवग्रहानन्तकं ७, पट्टः ८, अर्द्धारुकः ९, चलनिका १९, कञ्चुकः ११, अवकक्षी १२, वैकक्षी १३ । उक्तं च
'पत्ताबंधाइया४ चउरो, ते चेव पुव्वनिद्दिट्ठा ।
मत्तो५ य कमढकं६ वा, तह ओग्गहणंतगं७ चेव ॥ १ ॥
पट्टो८ अद्धोरू९ चिय चलणिय१० तह कंचुगे११ य उगच्छी१२ । वेगच्छी१३ तेरसमा अज्जाणं होइ नायव्वा ॥ २ ॥ ( )
Acharya Shri Kailassagarsuri Gyanmandir
उत्कृष्टोऽष्टविधस्तद्यथा- पतद्ग्रहः १, त्रयः कल्पाः ४, अभ्यन्तरनिवसनी५, बहिर्निवसनी६, सङ्घाटी७, स्कन्धकरणी८ च उक्तं च- 'उक्कोसो अट्ठविहो- चउरो ते चेव पुव्वनिदिट्ठा । जे साहूणं अण्णे य इमे चउरो - अब्धिंतरबाहिनियंसणी५-६ संघाडी७ खंधकरणी८ य' () इति । औपग्रहिकोऽपि साधूनामार्यिकाणां च त्रिविधः । तद्यथा - जघन्यो मध्यम उत्कृष्टश्च; तत्र पीठ-निषद्या-दण्डकप्रमार्जनी- डगलक-पिप्पलक-सूची -नखरदनिका - दिर्जघन्यः, मध्यमो
For Private And Personal Use Only
गाथा
१३०-१३१ मासिकादीनि प्रायश्चित्तानि
७८ (A)