________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ६४ (A)
हित्थो व ण हित्थो मे, सत्तो? भणियं व न भणियं मोसं? । उग्गहऽणुण्णम( ?ऽन )णुन्ना, तइए? फासे चउत्थम्मि? ॥ १०० ॥ इंदियरागद्दोसा उ पंचमे किं गंतोमि न गतो?त्ति, छटे लेवाडादी धोयमधोयं न वा मे?त्ति ॥ १०१ ॥
सत्त्वः प्राणी हित्थोत्ति देशीपदमेतत् हिंसितो मे मया न वा हिंसितः? इति तथा | मृषा भणितं यदि वा न भणितम् ? तथा तृतीये अदत्तादानविरतिलक्षणे अवग्रहाऽनुज्ञा | मया कारिता यदि वा अननुज्ञा अवग्रहाऽनुज्ञा न कारिता? तथा चतुर्थे मैथुनविरतिलक्षणे जिनभवनादिषु स्नानादिदर्शनप्रयोजनतो गतः सन् फासे इति स्त्रीस्पर्शे रागं गतो न वा? ॥१००॥ तथा पञ्चमे परिग्रहविरमणलक्षणे इन्द्रियेषु विषयिणा विषयोपलक्षणात् इन्द्रियविषयेषु इष्टाऽनिष्टेषु शब्दादिषु रागद्वेषौ गतोऽस्मि किं वा न गत? इति। तथा षष्ठे रात्रिभोजनविरमणे लेपकृदादि तक्राद्यवयवरूपं कथमपि पात्रादिगतं पर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवा न धौतं मया? इति ॥१०१॥ यद्येवं ततः किम्? इत्याह
गाथा १००-१०५ तदुभयाहप्रायश्चित्तम्
६४ (A)
१. गओ ? व न - खं । गतो ? ति ण गतो मि? जे भा० खंभा० ॥
For Private And Personal Use Only