________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननु एष व्यवहर्त्तव्यः? किं वा न? इति अत आह
श्री व्यवहार
सूत्रम् पीठिका
܀܀܀܀܀܀܀܀
२२ (A)
सो वि हु ववहरियव्वो, अणवत्थावारणं तदन्ने य । घडगारतुल्लसीलो, अणुर्वरओसन्नमज्झम्मि ॥ २५ ॥ 'सोऽपि'अन्तरोक्तस्वरूपो द्रव्यव्यवहर्त्तव्यो व्यवहर्त्तव्य एव, किं कारणम् ? अत आह- 'अणवत्थावारणं तदन्ने य' इति, तस्मिन् व्यवहियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायन्ते। किमुक्तं भवति? सोप्यनवस्थया मा पुनः पुनरकृत्यं कार्षीत्, तदन्ये च तं तथाप्रवर्त्तमानं दृष्ट्वा मा तथाप्रवृत्तिं कार्युरिति। स च व्यवहर्तुमिष्यमाण: पूर्वमेव वक्तव्यः, यथा 'आलोचय महाभाग! स्वकृतमपराधम्,अनालोचिता-ऽप्रतिक्रान्तो हि दीर्घसंसारभाग्भवतीति।' एवं च स भण्यते यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं, प्रतिपद्य चाकृत्यकरणाद् विरन्ता, विरम्य च न भूयः प्रतिसेवीति। यस्तु तथा भण्यमानोपि न सम्यगकृत्यकरणादुपरमते, सोऽनुपरतः घटकारतुल्यशीलः कुम्भकारसदृशस्वभावोऽ१. वरतुस्सण्ण• जेभा० खंभा० ॥ २. °म् ? इति अ० वा. पु० ॥
गाथा २५-२८ व्यवहर्त्तव्य स्वरुपम्
२२ (A)
For Private And Personal Use Only