________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पीठिका २१ (B)
निक्कारणं पडिसेवी, कज्जे निद्धंधसो ये अणवेक्खो । देसं वा सव्वं वा गूहिस्सं दव्वओ एसो ॥ २४ ॥
यो ‘निष्कारणे' कारणमन्तरेण 'प्रतिसेवी' अकृत्यप्रतिसेवनशीलः। 'कज्जे निद्धंधसो'त्ति अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात्, ततोऽयमर्थः-कार्येऽपि * तथाविधे समुत्पन्ने 'निद्धंधसो' देशीवचनमेतत्, अकृत्यं प्रतिसेवमानो नाधिकृतारम्भविराध्यमानप्राण्यनुकम्पापर इत्यर्थः, 'चः' समुच्चये स च भिन्नक्रमे, अनपेक्षश्चेत्येवं योजनीयः। न विद्यतेऽपेक्षा- 'वैरानुबन्धो मे विराध्यमानजन्तुभिः सह भविष्यति, संसारो वा दीर्घतरः' इत्येवंरूपा यस्याऽसावनपेक्षः, 'हा दुष्ठु कृतं मया इति पश्चादनुतापरहित इति भावः। तथा यः प्रतिसेवित्वा (सेव्य) देशं गृहयिष्यामि, किंचिन्मात्रमालोचयिष्यामि, न सर्वमिति भावः। 'सव्वं वत्ति सर्वं वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थः, इति चिन्तयति, चिन्तयित्वा च तथैव करोति, एष द्रव्यतो व्यवहर्त्तव्यो वेदितव्यः ॥ २४ ॥
गाथा २१-२४ लोकोत्तर व्यवहर्तव्य स्वरुपम्
२१ (B)
१. व्व -वाल्मो पु० जेभा० खंभा० चूर्णौ च ॥
For Private And Personal Use Only