________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री
व्यवहार
सूत्रम् पीठिका १५ (B)
विशेषणान्तरमाह- संविग्गा संविग्ना नाम-उत्त्रस्ताः, ते च द्विधा- द्रव्यतो भावतश्च । द्रव्यतः संविग्ना मृगाः, तेषां यतस्ततो वा बिभ्यतां प्रायः सदैवोत्रस्तमानसत्वात्। भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेतच्चिन्तयन्ति।
किं मे कडं? किं च मे किच्च सेसं? किं सक्कणिज्जं न समायरामि?' [तुलादसवै. चूलिका २ गा. १२] इत्यादि। अत्र भावसंविग्नैरधिकारः। भावसंविग्नप्रतिपत्त्यर्थमेव विशेषणान्तरमाह- 'ऽवज्जभीरू' अवयं-पापं, तस्य भीरवः, अवद्यभीरवः, ये चाऽवद्यभीरवस्ते भावसंविग्ना एवेति, भवति अवद्यभीरुग्रहणाद् भावसंविग्नप्रतिपत्तिः । एते च यथोक्तविशेषणविशिष्टा अपि गीतार्थत्वमृते भावव्यवहारकारिणो न भवन्तीति गीतार्थत्वप्रतिपत्त्यर्थमाह- 'सुत्तऽत्थ-तदुभयविऊ' सूत्रं च अर्थश्च तदुभयं चेति-तच्च तत् | सूत्रार्थलक्षणम्, उभयं च तदुभयं, तच्च सूत्रार्थतदुभयानि, तानि विदन्तीति। सूत्राऽर्थतदुभयविदः। किमुक्तं भवति ?- सूत्रचिन्तायां सूत्रम्, अर्थचिन्तायामर्थं, तदुभय चिन्तायां च तदुभयं ये विदन्ति, ते सूत्राऽर्थतदुभयविदः। इह सूत्रार्थवेदने चतुर्भङ्गिका१.रू वजं-पापं तस्य भीखो वजभीरवः, ये च वज्जभी वा० मो० पु० ॥२.न्ति । वजभीरुग्रहणेन भा० वा. मो० पु०॥ ३. व्हारिणो-वा० ॥४. सूत्रचिन्तायामर्थचिन्तायां तदुभयचिन्तायां च सूत्रान्ताऽर्थतदुभयं ये - खं॥
गाथा १३-१४ व्यवहारिस्वरूपम्
१५ (B)
For Private And Personal Use Only