Book Title: Vikram Pushpanjali
Author(s): Kalidas Mahakavi
Publisher: ZZZ Unknown
View full book text
________________
अपायनपर्व का एक अध्ययन
१८९
कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलि प्रदायाथ प्रवेशं लेभिरे ततः ॥६॥ शतं दासीसहस्राणां कासिकनिवासिनाम् ॥ श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः। शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ ७ ॥ बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः । उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥८॥ इन्द्रकृष्टवर्तयन्ति धान्यैर्नदीमुखैश्च ये। समुद्रनिष्कुटे जाता: परिसिन्धु च मानवाः ॥६॥ ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह । विविधं बलिमादाय रत्नानि विविधानि च ॥ १० ॥ अजाविक गोहिरण्य खरोष्ट्र फल मधु । कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥ . प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली। .. यवनैः सहितो राजा भगदत्तो महारथः ॥ १२ ॥ आजानेयान्हयान्शीघ्रानादायानिलरंहसः। बलि च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥ १३ ॥ . अश्मसारमय भाण्डं शुद्धदन्तत्सरूनसीन् । प्राग्ज्योतिषोऽथ तद्दत्वा भगदत्तोऽव्रजत्तदा ॥ १४ ॥ द्वयक्षांस्त्र्यक्षाल्ललाटाक्षानानादिग्भ्यः समागतान् । औष्णीषाननिवासांश्च बाहुकान्। पुरुषादकान् ॥ १५ ॥ एकपादांश्च तत्रामपश्य द्वारि वारितान् । बल्यर्थ ददतुस्तस्मै हिरण्य रजतं बहु ॥ १६ ॥ इन्दुगोपकवर्णाभाशुकवर्णान्मनोजवान् । तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ।। १७ ।।
* पाठांतर आभीराः; तुगाश्च । f, रोमकान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250