SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ अपायनपर्व का एक अध्ययन १८९ कमण्डलूनुपादाय जातरूपमयाञ्शुभान् । एवं बलि प्रदायाथ प्रवेशं लेभिरे ततः ॥६॥ शतं दासीसहस्राणां कासिकनिवासिनाम् ॥ श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः। शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥ ७ ॥ बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः । उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥८॥ इन्द्रकृष्टवर्तयन्ति धान्यैर्नदीमुखैश्च ये। समुद्रनिष्कुटे जाता: परिसिन्धु च मानवाः ॥६॥ ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह । विविधं बलिमादाय रत्नानि विविधानि च ॥ १० ॥ अजाविक गोहिरण्य खरोष्ट्र फल मधु । कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥ ११ ॥ . प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली। .. यवनैः सहितो राजा भगदत्तो महारथः ॥ १२ ॥ आजानेयान्हयान्शीघ्रानादायानिलरंहसः। बलि च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥ १३ ॥ . अश्मसारमय भाण्डं शुद्धदन्तत्सरूनसीन् । प्राग्ज्योतिषोऽथ तद्दत्वा भगदत्तोऽव्रजत्तदा ॥ १४ ॥ द्वयक्षांस्त्र्यक्षाल्ललाटाक्षानानादिग्भ्यः समागतान् । औष्णीषाननिवासांश्च बाहुकान्। पुरुषादकान् ॥ १५ ॥ एकपादांश्च तत्रामपश्य द्वारि वारितान् । बल्यर्थ ददतुस्तस्मै हिरण्य रजतं बहु ॥ १६ ॥ इन्दुगोपकवर्णाभाशुकवर्णान्मनोजवान् । तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ।। १७ ।। * पाठांतर आभीराः; तुगाश्च । f, रोमकान् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035307
Book TitleVikram Pushpanjali
Original Sutra AuthorN/A
AuthorKalidas Mahakavi
PublisherZZZ Unknown
Publication Year1944
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy