________________
१९०
नागरीप्रचारिणी पत्रिका - अनेकवर्णानारण्यानगृहीत्वाश्वान्मनोजवान् । जातरूपमनर्थ्य च ददुस्तस्यैकपादकाः ॥ १८ ॥ चीनान्हूणाशकानोड्रान्पार्वतान्तरवासिनः । वाष्णे यान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥ १९ ॥ न पारयाम्यभिगतान्विविधान्द्वारि वारितान् । कल्यथै ददतस्तस्य नानारूपाननेकशः ॥ २० ॥ कृष्णग्रीवान्महाकायान्रासभाशतपातिनः । श्राहाः दशसाहस्रान्विनीतान्दिनु विश्र तान् ॥ २१॥ प्रमाणरागस्पर्शादयः बालोचीनसमुद्भवम् । और्ण च राङ्कवं चैव कीटजं पट्टजं तथा ॥ २२ ॥ कुट्टीकृतं* तथैवान्यत्कमलाभं सहस्रशः। श्लक्ष्णं वस्त्रमकार्पासमाविक मृदु चाजिनम् ॥ २३॥ . निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान । अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥ २४ ॥ रसानगन्धांश्च विविधान रत्नानि च सहस्रशः । बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥ २५ ॥ शकास्तुखाराः कङ्काश्ची रोमशाः शृङ्गिणो नराः ।। महागमान्दूरगमान्गणितानबुद हयान् ।। १६ ॥ कोटिशश्चैव बहुशः सुवर्णे पद्मसंमितम् । बलिमादाय विविध द्वारि तिष्ठन्ति वारिताः ॥ २७ ॥ श्रासनानि महार्हाणि यानानि शयनानि च । मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥ २८॥ रथांश्च विविधाकाराजातरूपपरिष्कृतान् । यविनीतैः संपन्नान्वैयाघ्रपरिवारणान् ॥ २९ ॥
* कुटीकृतं । 1 तुषाराः; तुखाटाः; तुकाराः। + कौरव्य; कङ्काश्च के लिये कौमाराः पाठ भी है।
..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com