Book Title: Vairagya Path Sangraha Author(s): Kundkund Digambar Jain Mumukshu Mandal Trust Tikamgadh Publisher: Kundkund Digambar Jain Mumukshu Mandal Trust Tikamgadh View full book textPage 9
________________ वैराग्य पाठ संग्रह आनन्दरूपं परमात्मतत्त्वं, समस्त-संकल्प विकल्पमुक्तम्। स्वभावलीना निवसंति नित्यं, जानातियोगीस्वयमेव तत्त्वम्॥१२।। (अनुष्टुप) चिदानन्दमयं शुद्धं, निराकारं निरामयम्। __ अनन्तसुखसम्पन्नं, सर्वसङ्ग विवर्जितम्॥१३।। लोकमात्र-प्रमाणोऽयं, निश्चयेन न हि संशयः। व्यवहारे तनूमात्रः, कथितः परमेश्वरैः ॥१४॥ यत्क्षणं दृश्यते शुद्धं, तत्क्षणं गत-विभ्रमः। स्वस्थचित्त: स्थिरीभूत्वा, निर्विकल्पसमाधिना ॥१५।। स एव परमं ब्रह्म, स एव जिनपुंगवः। स एव परमं तत्त्वं, स एव परमो गुरुः ॥१६|| स एव परमं ज्योतिः स एव परमं तपः। स एव परमं ध्यानं, स एव परमात्मनः ॥१७॥ स एव सर्वकल्याणं, स एव सुखभाजनम्। स एव शुद्धचिद्रूपं, स एव परमः शिवः॥१८॥ स एव परमानन्दः, स एव सुखदायकः। स एव परमचैतन्यं, स एव गुणसागरः॥१९|| परमालाद-सपन्नं, राग-द्वेष-विवर्जितम्। अर्हन्तं देहमध्ये तु, यो जानाति स पण्डितः ॥२०॥ आकार-रहितं शुद्धं स्व स्वरूप-व्यवस्थितम्। सिद्धमष्टगुणोपेतं निर्विकारं निरंजनम् ॥२१॥ तत्सदृशं निजात्मानं, प्रकाशाय महीयसे। सहजानन्दचैतन्यं, यो जानाति स पण्डितः ।।२२।। पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम्। तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः ॥२३॥ काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति। अयमात्मा शरीरेषु, यो जानाति स पण्डितः ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 124