________________
वैराग्य पाठ संग्रह
आनन्दरूपं परमात्मतत्त्वं, समस्त-संकल्प विकल्पमुक्तम्। स्वभावलीना निवसंति नित्यं, जानातियोगीस्वयमेव तत्त्वम्॥१२।।
(अनुष्टुप) चिदानन्दमयं शुद्धं, निराकारं निरामयम्।
__ अनन्तसुखसम्पन्नं, सर्वसङ्ग विवर्जितम्॥१३।। लोकमात्र-प्रमाणोऽयं, निश्चयेन न हि संशयः।
व्यवहारे तनूमात्रः, कथितः परमेश्वरैः ॥१४॥ यत्क्षणं दृश्यते शुद्धं, तत्क्षणं गत-विभ्रमः।
स्वस्थचित्त: स्थिरीभूत्वा, निर्विकल्पसमाधिना ॥१५।। स एव परमं ब्रह्म, स एव जिनपुंगवः।
स एव परमं तत्त्वं, स एव परमो गुरुः ॥१६|| स एव परमं ज्योतिः स एव परमं तपः।
स एव परमं ध्यानं, स एव परमात्मनः ॥१७॥ स एव सर्वकल्याणं, स एव सुखभाजनम्।
स एव शुद्धचिद्रूपं, स एव परमः शिवः॥१८॥ स एव परमानन्दः, स एव सुखदायकः।
स एव परमचैतन्यं, स एव गुणसागरः॥१९|| परमालाद-सपन्नं, राग-द्वेष-विवर्जितम्।
अर्हन्तं देहमध्ये तु, यो जानाति स पण्डितः ॥२०॥ आकार-रहितं शुद्धं स्व स्वरूप-व्यवस्थितम्।
सिद्धमष्टगुणोपेतं निर्विकारं निरंजनम् ॥२१॥ तत्सदृशं निजात्मानं, प्रकाशाय महीयसे।
सहजानन्दचैतन्यं, यो जानाति स पण्डितः ।।२२।। पाषाणेषु यथा हेम, दुग्धमध्ये यथा घृतम्।
तिलमध्ये यथा तैलं, देहमध्ये तथा शिवः ॥२३॥ काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति।
अयमात्मा शरीरेषु, यो जानाति स पण्डितः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org