________________
वैराग्य पाठ संग्रह परमानन्द स्तोत्र
(अनुष्टुप) परमानन्द-संयुक्तं, निर्विकारं निरामयम् । ध्यान-हीना न पश्यन्ति, निजदेहे व्यवस्थितम् ॥१॥ अनन्तसुख-सम्पन्नं, ज्ञानामृत-पयोधरम्। अनन्तवीर्य-सम्पन्नं, दर्शनं परमात्मनः ।।२।। निर्विकारं निराबाधं, सर्वसंग-विवर्जितम्। परमानन्द-सम्पन्नं, शुद्धचैतन्यलक्षणम् ।।३।। उत्तमा स्वात्मचिन्ता स्यान्मोहचिन्ता च मध्यमा। अधमा कामचिन्ता स्यात् परचिन्ताऽधमाधमा॥४॥ निर्विकल्प-समुत्पन्नं ज्ञानमेव सुधारसम्। विवेकमञ्जुलिं कृत्वा तत्पिबंति तपस्विनः ॥५॥ सदानन्दमयं जीवं यो जानाति स पण्डितः। स सेवते निजात्मानं परमानन्द-कारणम् ।।६।। नलिन्यां च यथा नीरं, भिन्नं तिष्ठति सर्वदा। अयमात्मा स्वभावेन, देहे तिष्ठति निर्मलः॥७॥ द्रव्यकर्ममलैर्मुक्तं भावकर्म विवर्जितम् । नोकर्म-रहितं विद्धि, निश्चयेन चिदात्मनः॥८॥ आनन्दं ब्रह्मणो रूपं, निजदेहे व्यवस्थितम्। ध्यानहीना न पश्यन्ति, जात्यन्धा इव भास्करम्।।९॥ तद्ध्यानं क्रियते भव्यैर्मनो येन विलीयते। तत्क्षणं दृश्यते शुद्धं चिच्चमत्कार-लक्षणम्॥१०॥
(उपजाति) ये ध्यानशीला मुनयः प्रधानास्ते दुःखहीना नियमाद्भवन्ति । सम्प्राप्य शीघ्रं परमात्मतत्त्वं, व्रजन्ति मोक्षं क्षणमेकमेव ।।११।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org