Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 7
________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः अजितस्वामि-सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्व प्रथमः सर्गः मिथ्यात्वविषनिःसारकारकारुवचोऽमृतम् । यस्याऽसौ सर्वदा भूयात्, श्रेयसे वोऽजितो जिनः ॥ १॥ अथाऽस्ति जम्बूद्वीपे दुःषमसुषमप्राये विदेहक्षेत्रे सीताख्यमहानद्या दक्षिणे तटे भुवि स्वर्गप्रदेशखण्ड इव रमणीयो वत्साख्यो नगर-ग्राम-तडागोद्यान-लतावृक्षादिसनाथो विजयः । तत्र सर्वर्द्धिसम्पन्नायां परिखा-प्राकारपरिवेष्टितायां चैत्य-क्रीडोद्यानादिमनोहरायां भोगावत्यमरावतीतुल्यायां विख्यातायां सुसीमानाम्न्यां नगर्या विमलगुणो विमलवाहनो नाम राजाऽभवत्। स च प्रजावत्सलो न्यायपरायणो जगद्भूपतिप्रणतोऽकुण्ठितशासनो जितेन्द्रियो दानी प्रजानां धर्मपथप्रवर्तकश्चारित्रपवित्रश्च चिरं वसुधां शशास । तस्यैकदा जगतः सारासारतां विवेचयतो भववैराग्यवासना प्रबुद्धा। तथाहि-"अहो? अयमपारः संसारो योनिलक्षाव-भीषणः, धिगेनम्। अत्र हि क्षणादिन्द्रजालवद् दृष्टनष्टैरथैर्जन्तवो मुह्यन्ति । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः यौवनमायुश्चाऽत्राऽत्यन्तमस्थिरम् । अस्याऽप्यायुषो गर्भवासे नरकवासवद् मासा अतिकष्टेन गच्छन्ति । ततो निर्गतस्य बालत्वे पराधीनतया कियानपि भागो गच्छति । यौवने चेन्द्रियार्थोपसेवनेन मत्तस्येव वृथाऽऽयर्भागो गच्छति । वार्धके च प्रसप्तस्येव देहिनस्त्रिवर्गसाधनाशक्तवपुषः शेषमायुर्वथैव व्यत्येति। तदेतज्जानन्नपि जनो विषयलोलुपो भवायैव यतते । यौवने विषयेभ्य इव मुक्त्यै चेद् यतेत, न तेन किमपि न्यूनं भवेद् भविनः । तथाऽपि स्वयं कृतैरेव कर्मपाशैः प्राणी स्वमेव वेष्टयति । भवे च भवी पुण्ययोगतो मानुषं जन्म लभते। तत्र यो मुक्तये न यतते, स जातेऽपि पाके बुभुक्षित इव तिष्ठति। ऊर्ध्वमधश्च गतिः स्वाधीना । तत्र मन्दबुद्धिर्जनो जलवदधोगतिर्धावति। अवसरे स्वार्थ साधयिष्यामीति चिन्तयन् मध्य एव यमैगृह्यते । ततश्च नरके नीतोऽनन्तवेदनां लभते । कर्माणि हि ऋणवज्जन्मान्तरमनुधावन्ति। पिता-पुत्रादिबुद्धिर्मिथ्यैव । देहमपि न निजम् । वृक्षे पक्षिणामिवैते पृथक् पृथक् स्थानादेत्याऽत्रैकत्राऽवस्थिताः। ततोऽप्यन्यत्र ते पृथक् पृथगेव गच्छन्ति । अतोऽत्र न कस्याऽपि कोऽपि निजः परो वा । तस्मात् कुटुम्बादि त्यक्तव्यम्, आत्मकल्याणायैव यतितव्यम् । यतः स्वार्थभ्रंशो मूर्खतैव। शाश्वता-ऽनन्तसुखमयो मुक्तिलक्षण: स्वार्थश्च मूलोत्तरगुणैर्भवति" । एवं चिन्तयति राज्ञि श्रीमानरिन्दमो नाम सूरिरुद्याने समाययौ । तदागमनवार्ता समाकर्ण्य च महीपतिहष्टस्तं वन्दितुं छत्र-चामरादिशोभितस्तुरङ्ग-कुञ्जरादिवाहनसमन्वितः, सामन्तादिपरिवारितो, मङ्गलतूर्यनादपुरस्सरं सहस्रशोऽन्तःपुरस्त्रीसहितः प्रस्थाय तदुद्यानं प्राप। तत्र च गजस्कन्धादुत्तीर्योद्यानं प्रविश्य महामुनिमरिन्दमाचार्यमद्राक्षीत् । तथा विविधासनस्थितान्, शरीरेऽपि निरपेक्षान्, कठिनोपसर्गसहान्, निष्कषायान्, तपोध्याननिष्ठान्, परीषहान् सहिष्णून् बहुशः

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67