Page #1
--------------------------------------------------------------------------
________________
अहम् ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ।।
कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य
गद्यात्मकसारोद्धारः
द्वितीयं तृतीयं च पर्व कर्ता - आ. श्रीविजयशुभङ्करसूरिः सम्पादकः - मुनिधर्मकीर्तिविजयः
: प्रकाशक : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति-शिक्षणसंस्कारनिधिः
अमदावाद
Page #2
--------------------------------------------------------------------------
________________
कलिकालसर्वज्ञ- श्रीहेमचन्द्राचार्यविरचितस्य
त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः २
(द्वितीयं तृतीयं च पर्व) Trishashti-Shalakaa-Purusha-Charitam
© सर्वेऽधिकाराः स्वायत्ता: कर्ता
सम्पादक
प्रकाशकम्
2
मूल्यम्
पृष्ठानि
प्राप्तिस्थानम्
द्वितीय संस्करणम् : वि.सं. २०६८ ई०सं० २०१२
प्रतयः
: ५००
मुद्रणम्
: आ. श्रीविजयशुभङ्करसूरिः
: मुनिधर्मकीर्तिविजयः
: कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति - शिक्षणसंस्कारनिधि अमदावाद
रु.१००-००
: १०+१२२ = १३२
: १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर
१२, भगतबाग,
आणन्दजी कल्याणजीनी पेढी समीपे,
नवा शारदामन्दिर रोड, पालडी, अमदावाद ३८०००७.
फोन : २६६२२४६५
दूरभाष : ०९८०८६३७७१४
२ सरस्वती पुस्तक भण्डार
११२, हाथीखाना, रतनपोल, अमदावाद- ३८०००१.
फोन : २५३५६६९२
: किरीट ग्राफीक्स
४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१
3
समर्पणम्
बालानामिव माता च सरितामिव सागरः | दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमन्त्र-तन्त्रज्ञ ! ज्योतिर्विज्ञानकोविद । मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशी ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रह्मपालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्मपि सत्ये हि सदा नियग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः । सूरीशा गुरवो यस्य प्रबलमहिमान्चिताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् !। औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्व पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥
-
धर्मकीर्तिविजयः
Page #3
--------------------------------------------------------------------------
________________
प्रकाशकीय निवेदन
किञ्चित् प्रास्ताविकम्
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे.
ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ.श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए.
आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्य श्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए.
सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गूर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गूर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः; सोमनाथमहादेवाभिधशिवतीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुनःस्थापनावसरे स्वयमुपस्थितं च । युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मुक-पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि, तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव ।
तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं, काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतव्याश्रयमहाकाव्यं प्राकृतद्याश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्र-इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे ।
तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति-त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६००० श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर-चक्रवर्ति-वासुदेवबलदेव-नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति ।
संस्कृताध्ययनकर्तृणां विद्यार्थिनां बोधवेशद्यार्थमेतस्य काव्यग्रन्थस्याऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्याऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्यपादश्रीविजयशुभरसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चाऽस्य
वि. सं. २०६७
लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य
नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधिः
अमदावाद.
Page #4
--------------------------------------------------------------------------
________________
पद्यात्मकं महाकाव्यप्रौढिसमलकृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण ।
ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सूरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानी फलान्यावहतीति महानानन्दविषयः ।
ग्रन्थोऽयं संस्कृताभ्यासिनां यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् ।
ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्रार्थिनो वयमिति शम्।
विषयानुक्रमः द्वितीयं पर्व
प्रथमः सर्गः विषयः विमलवाहनस्य वैराग्यम् अरिन्दमाचार्यचरितम् विमलवाहनस्य मन्त्रिकुमारादिबोधनम् विमलवाहनस्य व्रतग्रहणादिवृत्तान्तः
द्वितीयः सर्गः जितशत्रुनृपकथा अजितजिनस्य गर्भावतारादिवृत्तान्तः सगरजन्मवृत्तान्त:
तृतीयः सर्गः अजितजिन-सगरयोर्खाल्यादिवर्णनम् जितशत्रुनृपस्य दीक्षादिवृत्तान्तः अजितजिनस्य वैराग्यम् सगरराज्याभिषेक: अजितजिनदीक्षादिवृत्तान्तः समवसरणवर्णनम् अजितजिनदेशनायां ध्यानादिविवरणम् कर्मप्रकृतिविवरणम् नरकनिरूपणम् भवनपत्यादिवर्णनम् जम्बूद्वीपादिवर्णनम् कल्पादिवर्णनम्
सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे
- शीलचन्द्रविजयः
Page #5
--------------------------------------------------------------------------
________________
विषयः गणधरादिवृत्तान्तः द्विजदम्पतिवृत्तान्तः
चतुर्थः सर्गः सगरस्य चक्रित्ववृत्तान्तः सुकेशापरिणयः
पञ्चमः सर्गः पूर्णमेघ-सुलोचनकथा मेघवाहन-सहस्रनयन-सगरपूर्वभवादिकथा सगरपुत्राणां महीभ्रमणादिवृत्तान्तः गङ्गाकर्षण-सगरपुत्रविनाशादिवृत्तान्तः
षष्ठः सर्गः सगरसैन्यागमनम् विप्रेण सगरस्य बोधनम् (विप्रपुत्रमरणकथा) मन्त्रिभिः सगरस्य बोधनम् (ऐन्द्रजालिकदृष्टान्तः) ऐन्द्रजालिकदृष्टान्तः भगीरथवृत्तान्तः सगरस्य व्रतग्रहणवृत्तान्तः अजितजिनादिनिर्वाणादिवृत्तान्तः
तृतीयं पर्व प्रथमः सर्गः (श्रीसम्भवजिनचरितम्) विपुलवाहननृपकथा सम्भवजिनजन्मादिवृत्तान्तः सम्भवजिनदेशना सम्भवजिननिर्वाणादिवृत्तान्तः
विषयः
द्वितीयः सर्गः (श्रीअभिनन्दनजिनचरितम्) महाबलनृपकथा अभिनन्दनजिनजन्मादिवृत्तान्तः अभिनन्दनजिनदेशना अभिनन्दनजिननिर्वाणादिवृत्तान्तः
तृतीयः सर्गः (श्रीसुमतिस्वामिचरितम्) सुदर्शना-विजयसेनवृत्तान्तः पुरुषसिंहजन्मादिकथा विनयनन्दनसूरिदेशना सुमतिजिनजन्मादिवर्णनम् वणिक्पन्योर्विवादनिर्णयः सुमतिजिनदेशना सुमतिजिननिर्वाणादिवृत्तान्तः
चतुर्थः सर्गः (श्रीपद्मप्रभजिनचरितम्) अपराजितनृपकथा पद्मप्रभजिनजन्मादिवृत्तान्तः पद्मप्रभजिनदेशना पद्मप्रभजिननिर्वाणादिवृत्तान्तः
पञ्चमः सर्गः (श्रीसुपार्श्वनाथचरितम्) नन्दिषेणनृपकथा सुपार्श्वजिनजन्मादिवृत्तान्तः सुपार्श्वजिनदेशना सुपार्श्वजिननिर्वाणादिवृत्तान्तः
Page #6
--------------------------------------------------------------------------
________________
विषयः
षष्ठः सर्गः (श्रीचन्द्रप्रभजिनचरितम्) पद्मनृपकथा चन्द्रप्रभजिनजन्मादिवृत्तान्तः चन्द्रप्रभजिनदेशना चन्द्रप्रभजिननिर्वाणादिवृत्तान्तः
सप्तमः सर्गः (श्रीसुविधिनाथचरितम्) महापद्मनृपकथा सुविधिजिनजन्मादिवृत्तान्तः सुविधिजिनदेशना सुविधिजिननिर्वाणादिवर्णनम्
अष्टमः सर्गः ( श्रीशीतलनाथचरितम्) पद्योत्तरनृपकथा शीतलजिनजन्मादिवृत्तान्तः शीतलजिनदेशना शीतलजिननिर्वाणादिवृत्तान्तः कठिनशब्दार्थः
११६ ११६
Page #7
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः अजितस्वामि-सगरचक्रवर्तिप्रतिबद्धं
द्वितीयं पर्व
प्रथमः सर्गः मिथ्यात्वविषनिःसारकारकारुवचोऽमृतम् । यस्याऽसौ सर्वदा भूयात्, श्रेयसे वोऽजितो जिनः ॥ १॥
अथाऽस्ति जम्बूद्वीपे दुःषमसुषमप्राये विदेहक्षेत्रे सीताख्यमहानद्या दक्षिणे तटे भुवि स्वर्गप्रदेशखण्ड इव रमणीयो वत्साख्यो नगर-ग्राम-तडागोद्यान-लतावृक्षादिसनाथो विजयः । तत्र सर्वर्द्धिसम्पन्नायां परिखा-प्राकारपरिवेष्टितायां चैत्य-क्रीडोद्यानादिमनोहरायां भोगावत्यमरावतीतुल्यायां विख्यातायां सुसीमानाम्न्यां नगर्या विमलगुणो विमलवाहनो नाम राजाऽभवत्। स च प्रजावत्सलो न्यायपरायणो जगद्भूपतिप्रणतोऽकुण्ठितशासनो जितेन्द्रियो दानी प्रजानां धर्मपथप्रवर्तकश्चारित्रपवित्रश्च चिरं वसुधां शशास ।
तस्यैकदा जगतः सारासारतां विवेचयतो भववैराग्यवासना प्रबुद्धा। तथाहि-"अहो? अयमपारः संसारो योनिलक्षाव-भीषणः, धिगेनम्। अत्र हि क्षणादिन्द्रजालवद् दृष्टनष्टैरथैर्जन्तवो मुह्यन्ति ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः यौवनमायुश्चाऽत्राऽत्यन्तमस्थिरम् । अस्याऽप्यायुषो गर्भवासे नरकवासवद् मासा अतिकष्टेन गच्छन्ति । ततो निर्गतस्य बालत्वे पराधीनतया कियानपि भागो गच्छति । यौवने चेन्द्रियार्थोपसेवनेन मत्तस्येव वृथाऽऽयर्भागो गच्छति । वार्धके च प्रसप्तस्येव देहिनस्त्रिवर्गसाधनाशक्तवपुषः शेषमायुर्वथैव व्यत्येति। तदेतज्जानन्नपि जनो विषयलोलुपो भवायैव यतते । यौवने विषयेभ्य इव मुक्त्यै चेद् यतेत, न तेन किमपि न्यूनं भवेद् भविनः । तथाऽपि स्वयं कृतैरेव कर्मपाशैः प्राणी स्वमेव वेष्टयति ।
भवे च भवी पुण्ययोगतो मानुषं जन्म लभते। तत्र यो मुक्तये न यतते, स जातेऽपि पाके बुभुक्षित इव तिष्ठति। ऊर्ध्वमधश्च गतिः स्वाधीना । तत्र मन्दबुद्धिर्जनो जलवदधोगतिर्धावति। अवसरे स्वार्थ साधयिष्यामीति चिन्तयन् मध्य एव यमैगृह्यते । ततश्च नरके नीतोऽनन्तवेदनां लभते । कर्माणि हि ऋणवज्जन्मान्तरमनुधावन्ति। पिता-पुत्रादिबुद्धिर्मिथ्यैव । देहमपि न निजम् । वृक्षे पक्षिणामिवैते पृथक् पृथक् स्थानादेत्याऽत्रैकत्राऽवस्थिताः। ततोऽप्यन्यत्र ते पृथक् पृथगेव गच्छन्ति । अतोऽत्र न कस्याऽपि कोऽपि निजः परो वा । तस्मात् कुटुम्बादि त्यक्तव्यम्, आत्मकल्याणायैव यतितव्यम् । यतः स्वार्थभ्रंशो मूर्खतैव। शाश्वता-ऽनन्तसुखमयो मुक्तिलक्षण: स्वार्थश्च मूलोत्तरगुणैर्भवति" ।
एवं चिन्तयति राज्ञि श्रीमानरिन्दमो नाम सूरिरुद्याने समाययौ । तदागमनवार्ता समाकर्ण्य च महीपतिहष्टस्तं वन्दितुं छत्र-चामरादिशोभितस्तुरङ्ग-कुञ्जरादिवाहनसमन्वितः, सामन्तादिपरिवारितो, मङ्गलतूर्यनादपुरस्सरं सहस्रशोऽन्तःपुरस्त्रीसहितः प्रस्थाय तदुद्यानं प्राप। तत्र च गजस्कन्धादुत्तीर्योद्यानं प्रविश्य महामुनिमरिन्दमाचार्यमद्राक्षीत् । तथा विविधासनस्थितान्, शरीरेऽपि निरपेक्षान्, कठिनोपसर्गसहान्, निष्कषायान्, तपोध्याननिष्ठान्, परीषहान् सहिष्णून् बहुशः
Page #8
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-प्रथमः सर्गः साधूंश्चाऽपि ददर्श । ततो भक्तिपुलकिताङ्गो नृप उपेत्याऽरिन्दमाचार्य ववन्दे । सूरिरपि मुखवस्त्रिकामुपमुखं विन्यस्य धर्मलाभाशिषं ददौ । ततो विनयसङ्कचितगात्रो नृपः कृताञ्जलिरुपविश्यैकाग्रचितः सूरेर्देशनां शुश्राव। तया च धर्मदेशनया राज्ञो वैराग्यमवर्धत । सूरिं वन्दित्वा च स कृताञ्जलिः सविनयमुवाच- "दुःखमनुभवन्नपि नरो न संसाराद् विरज्यते, ततो भगवतः संसारवैराग्यं कथं जातम् ? तत्राऽवश्यं केनाऽप्यालम्बनेन भवितव्यम्" ।
ततः सूरिरुवाच -"संसारे धीमतां सर्वमेव वैराग्यहेतुः, तथाऽपि कस्याऽपि कश्चन विशेषतो वैराग्यहेतुर्जायते । अहं गृहवासकाले पुरा दिग्विजयार्थं चतुरङ्गसेनासमेतश्चलन् मार्गे नानाविधद्रुमलतासनार्थ पल्लवकुसुमादिसमृद्धं मनोहरमुद्यानमद्राक्षम् । चिराद् दिग्विजयं कृत्वा निवर्तमानः पुनरपि सेनया सह तस्योद्यानस्य समीपं समागमम्। वाहनादुत्तीर्य च कौतुकात् तस्योद्यानस्याऽन्तः प्रविश्य पुरतोऽन्यादृशमेव दष्ट्वाऽचिन्तयम् -"किमहं भ्रान्त्याऽन्यत्राऽऽगमं, किं वा किमपीन्द्रजालमीदृशम् ? यतोऽत्र न तादृश्यः पत्रलताः, किन्तु प्रचण्ड आतपः । नाऽप्यत्र पुष्प-फलसमृद्धिः, किन्तु कण्टकादि-काकाद्यजगरादिबाहुल्यम् । तन्मन्ये, यथाऽयमारामोऽन्यादृशो जातस्तथैव संसारस्थितिः । संसारेऽपि हि योऽतिसुन्दरः, स एव रोगादिग्रस्त: कङ्काल इव भवति । य एव हि वाग्मी स एव कालवशाद् मूकायते। तथा वेगाद् गमनसमर्थो वातादिपरिगतः पङ्गर्जायते । बलवद्वाहुः कुण्ठितकरो भवति । दूरदर्शनसमर्थोऽन्धो जायते । तदेवमत्र भवे प्राणिनां शरीरं क्षणादेवाऽन्यथा जायते" । इत्येवं चिन्तयतो मम संसारवैराग्यं प्रबलं जातम् । ततोऽहं महामुनिसकाशाद् निर्वाणप्रदं व्रतमग्रहीषम्"।
ततो नृपः सूरि प्रणम्य भक्त्या पुनः पप्रच्छ-"निःस्पृहा भवन्तोऽस्मादृशां पुण्यैरेव पृथिवीं विहरन्ते । इह विषमे संसारेऽन्धकूपे
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गौरिव तृणलोभेन वैषयिकसुखलोभेन जनः पतति । तांत्रातुं च भगवान् धर्मदेशनां विधत्ते । अत्र पुत्रादि सर्वमेवाऽसारम् । केवलं गुरुवच एव सारम् । ततो मम सम्पदा पुत्रादिभिर्वा न प्रयोजनम् । प्रसद्य मे भवाब्धितरणनावं दीक्षां देहि । यावच्चाऽहं कुमारं राज्ये निवेश्याऽऽगच्छामि, तावद् भवद्भिः कृपयाऽत्र निवसनीयम्" । तत: सूरिरप्युवाच-"राजन् ! तवेयमुत्तमाऽभिलाषा, पूर्वजन्मसंस्कारात् पुराऽपि प्रबुद्ध एव भवान् । मम देशना तु तत्र निमित्तमात्रम् । त्वादृशैहि गृहीता दीक्षा तीर्थकृल्लक्ष्मीमपि फलति । वयं भव्योपकारायैव विहरामः । अतस्त्वदुपचिकीर्षयाऽत्रैव स्थास्यामः" ।
ततो नृपः सूरि प्रणम्योत्थाय गृहं गत्वा सिंहासन उपविश्य मन्त्रिण: समाहूयाऽब्रवीत्-"कुलपरम्परातोऽत्राऽहं राजा, भवन्तश्च मन्त्रिणः । भवन्मन्त्रबलेनैव मया पृथिवी साधिता, मम बाहुबलं तु तत्र निमित्तमात्रम्। पुराऽपि मम राज्यभारं भवन्त एव दधुः । अहं तु दिवानिशं भोगासक्त एवाऽभवम् । किन्त्वद्य मयाऽयं प्रमादोऽनन्तभवमूलं गुरुकृपया ज्ञातः । अस्माभिरज्ञानादात्मनैवाऽऽत्मा वञ्चितः । इयत्कालमदान्तैरिन्द्रियैर्वाजिभिरिवोत्पथं नीतः । दुर्बुद्ध्या च दुष्परिणामा विषयसेवा कृता । दिग्विजययात्रायां च बहुशो निरपराधा भूपतयोऽसहिष्णुना मया हताः । राजनीतौ च कियन्मिथ्या समाचरिता । आजन्म चाऽन्यराज्यमपहरताऽदत्तादानमेव कृतम् । अब्रह्म-परिग्रहाश्च मोहाद् भृशमनुष्ठिताः । ततोऽद्य गुरुसन्निधौ वैराग्यात् प्राणातिपातादिपञ्चकाद् विरतिं ग्रहीष्ये । कुमारे च वयस्थे राज्यभारमारोपयिष्यामि । भवद्भिश्च मयीव कुमारेऽपि भक्तिमद्भिर्भवितव्यम्" ।
तच्छ्रुत्वा मन्त्रिणोऽप्यूचुः- "स्वामिन् ! आसन्नमोक्षाणामेवैवंविधा बुद्धिर्जायते । युष्माकं पूर्वजा अपि पृथिवीं साधयित्वाऽन्ते
Page #9
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-प्रथमः सर्गः राज्यं त्यक्त्वा व्रतं जगृहुः । भवता च राज्यभारः स्वभुजबलेनैव धृतः । वयं तु तत्र शोभाभूता एव । कुलक्रमागतं भवतः साम्राज्यं पराक्रमार्जितम् । व्रतादानं च निदानरहितमेव। कुमारश्च राज्यभारं वोढुं भवानिव क्षमः । अतो भवान् मोक्षफलां दीक्षां गृह्णाति चेद् गृह्णातु । स्वामिन ऊर्ध्वगति त्यानामुत्सवायैव जायते । भवतेव नीतिमता वीर्यवता च कुमारेण पृथिवी नृपसनाथा भवतु"। ___तच्छ्रुत्वा मुदितो नृपः कुमारं द्वारपालेनाऽऽहूतवान् । कुमारोऽपि समुपेत्य नृपति भक्त्या प्रणम्य यथास्थानं रचिताञ्जलिरुपविष्टवान् । ततो नृपः कुमारं पश्यन् जगाद -"अस्मत्पूर्वजा अपि पृथिवीं पालयन्तो योग्येषु पुत्रेषु राज्यभारमारोप्यं व्रतं गृहीतवन्तः । इयत्कालं मदन्यः कोऽपि गृहवासे नाऽस्थात् । अतोऽधुना त्वमिमं राज्यभारं गृहाण । वयं व्रतं ग्रहीष्यामः'। तच्छ्रुत्वा म्लानवदनः साश्रुनेत्र: कुमारोऽब्रवीत् -"मय्याज्ञावशवर्त्तिनि कुतोऽयमनवसरेऽप्रसादः ? यदेवमादिशति भवान् । किं मम कोऽप्यपराधः? पृथिव्या वाऽपराधः कृतः, यच्चिरं रक्षिताऽप्यधुना त्यज्यते ? तातपादान् विना मम न राज्येन प्रयोजनम् । ममैषा मन्दभाग्यता, यद् मां त्यजन् तात एवमादिशति । नाऽहं राज्यं ग्रहीष्यामि, यद्येवं गुर्वादेशव्यतिक्रमस्तर्हि प्रायश्चित्तं चरिष्यामि"।
ततो नृपः पुनरुवाच-"विवेक्यपि त्वं मम स्नेहादविचार्यैवं वदसि । गुरोराज्ञा हि युक्तायुक्तविचारं नाऽर्हति । पुत्रे भारक्षमे जाते पिता निश्चिन्तो भवति । त्वामप्यपृष्ट्वैवाऽहं मुमुक्षुव॑तं ग्रहीष्यामि । नाऽहं परतन्त्रः । ततश्च त्वमनाथां भुवं पालयिष्यस्येव । किन्तु गुर्वाज्ञालङ्घनदोषोऽतिरिच्यते । तस्माद् भक्तिमता त्वया मद्वचोऽनुष्ठेयम् । एतदेवोचितम्" । मन्त्रिणोऽप्यूचुः- "यद्यपि कुमारस्य वचो नाऽसमीचीनं, तथाऽपि गुर्वाज्ञापालनमावश्यकमिति यथा देव आदिशति तथाऽऽचरणीयम् । देवेनाऽपि पितृवचो गुर्वाज्ञेति स्वीकृतम्" । ततः
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुमारोऽवनतमुखो देवादेशः प्रमाणमित्युवाच । तेन च नृपतिनितरां मुमुदे ।
ततश्च नृपः स्वयमेव पाणिना गृहीत्वाऽभिषेकासने कुमारमुपवेश्य वाद्यमानेषु मङ्गलवाद्येषु पवित्रैस्तीर्थाद्यानीतजलैरभिषिषिचे । तथाऽपरेऽपि राजानस्तमभिषिच्य नमश्चक्रुः । ततः स कुमारो नृपादेशेन शुभ्राण्यंशुकानि परिहितवान् । वारयोषितश्च तस्य गोशीर्षचन्दनैरङ्गरागं चक्रुः । ततश्च सर्वाङ्ग मुक्तामयभूषणभूषितस्य तस्य मूनि मुकुटं सितं छत्रं च नृपतिः स्वयं धारयामास । वारनारीभिश्चामरैर्वीजितस्य तस्य भाले च भूपतिः स्वयं तिलक चकार ।
एवं कुमारं राज्ये स्थापयित्वा प्रसन्नो नृपस्तमुपदिदेश-"त्वं क्षितेराधारः, त्वं च स्वयं निराधारः, तदात्मनैवाऽऽत्मानं धारयः, विषयातिप्रसङ्गेन निजात्मनः शैथिल्यं न कर्त्तव्यम् । यौवन-विभवरूप-स्वामित्वेषु प्रत्येकं प्रमादकारणं विद्धि । कुलक्रमागताऽपि लक्ष्मीनि:स्नेहा लब्धेऽवसरे निर्गच्छति । अतस्तस्या रक्षणे प्राहरिक इव नयेन विक्रमेण च सदा जागरूको भवेः । श्रियमिच्छताऽपि च त्वया निर्लोभेन पृथिवी पालनीया । दुःसहकरभाराक्रान्ताः प्रजा मा कृथाः । कृतान्यायं निजं जनमपि दण्डयेः । राज्ये च मृगया-द्यूतसुरापानादि वारयः । यत: प्रजानां पाप-धर्मयोपो भागी भवति । अन्तरङ्गशत्रुश्च सदा वशगान् कुर्याः । अन्यथा तदविजये बाह्या अपि शत्रवोऽविजिता एव स्युः । धर्मा-ऽर्थ-कामांश्च यथाकालं परस्परमबाधया सेवेथाः । समये च चतुर्थे पुरुषार्थेऽपि प्रयतेथाः"। एवमुपदिश्य विरते विमलवाहने कमारो बद्धाञ्जलिस्तथेति सर्वं प्रत्यपद्यत ।
ततो विनीत: स सिंहासनादुत्थाय व्रतार्थमुत्तिष्ठासोः पितुर्हस्तावलम्बं ददौ । ततो नृपः स्नानागारं गत्वा स्नात्वा दुकूलेनाऽङ्गं
Page #10
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-प्रथमः सर्गः प्रमृज्य गोशीर्षचन्दनमुपलिप्य केशपाशझै रचितपुष्पगर्भकेशपाशो दिव्यवाससी परिधाय माणिक्यस्वर्णमुकुटं मूर्धनि निवेशयामास । हार-केयूरादीनि भूषणान्यङ्गेषु निवेश्य रल-काञ्चन-वस्त्रादीन्यर्थिभ्यः प्रदाय नरशतोद्वाह्यां शिबिकामारुरोह नृपः । श्वेतच्छत्र-चामरविराजितो, बन्दितूर्यादितुमुलध्वनिपूर्वकं नृप-सामन्तादिपरिवृतः, पुरःस्थेन पुत्रेण शोभितः, सम्पूर्णपात्रकुम्भाभिः पुरस्त्रीभिर्यथाक्रमं पदे पदे क्रियमाणानि मङ्गलानि निरीक्षमाणो, मञ्च-पताका-मालादिशोभिते यक्षकर्दमपङ्किले राजमार्गे वारस्त्रीभिः कृतमारात्रिकमङ्गलं गृह्णन् पौरैरदृष्टपूर्ववद् दूरादुद्ग्रीवैरवलोक्यमानो लोकसमूहैरनुस्रियमाणोऽरिन्दमाचार्याधिष्ठितमुद्यानं प्राप ।
तत्र शिबिकातोऽवरुह्य पादाभ्यामुद्यानं प्रविश्याऽङ्गादाभरणानि माल्यादीनि च निरस्याऽऽचार्यवामपार्श्वस्थश्चैत्यवन्दनां विधायाऽऽचार्यदत्तं रजोहरणादि गृहीतवान् । ततो नृपः "सकलं सावद्ययोगं प्रत्याख्यामी"त्यदीरयन पञ्चभिर्मष्टिभिः केशानुत्पाट्य प्रदक्षिणात्रयपूर्वकं गुरुवन्दनां विधाय स्थितवान् ।
ततो गुरुर्धर्मदेशनां विदधे-"अस्मिन् संसारे मानुष्यं जन्म कथञ्चित् प्राप्यते । तत्राऽपि बोधिबीजं परिव्रज्या च पुण्यत एवोपलभ्यते। तावदेव भविनां भवभीर्यावद् व्रतं न गृह्यते । उदिते हि सूर्ये न तमोभयम् । व्रतेन ह्यारोग्य-रूप-लावण्य-दीर्घायुष्यराजत्व-चक्रवर्तित्व-देवत्व-देवेन्द्रत्व-सिद्धत्व-तीर्थकरत्वादि सर्वमेव प्राप्यते । एकाहमपि प्रव्रज्यापरिपालको मोक्षानवाप्तावपि स्वर्ग प्राप्नोत्येव । यश्च प्रव्रज्या चिरं पालयति, तस्य किमु वक्तव्यम् ?" एवं देशनां विधायाऽरिन्दमाचार्योऽन्यत्र विजहार ।
ततः स विमलवाहनोऽपि छायेव गुरुणा सह पुर-ग्रामादिषु विजहार। ईर्यापण्डित: स लोकाक्रान्ते सूर्यकरपवित्रे पथि जन्तुरक्षाकृते युगमात्रदत्तदृष्टिर्जगाम । तथा भाषासमितिज्ञ: स निरवद्यां मितां
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सार्वजनीनां वाचमुवाच । एषणानिपुणश्च स पारणेष द्विचत्वारिंशता भिक्षादोषैरदूषितं पिण्डमग्रहीत् । आदाननिक्षेपसमितिज्ञश्च स आसनादीनि संवीक्ष्य यत्नतः प्रतिलेख्य चाऽग्रहीन्यक्षिपच्च । तथा प्राणिदयालुः स निर्जन्तुभूमौ कफ-मूत्र-मलादीन्युत्ससर्ज । तथा गुणान्वितः स निर्विकल्पं समताप्रतिष्ठितं मन आत्मारामं व्यघात् । स संज्ञादिपरिहारेण प्रायो मौनेन तस्थौ । अविचलं च कायोत्सर्ग चकार । एवं शयनासनादिषु चेष्टानियममनुपालयन् स महासत्त्वश्चारित्रगात्रस्य जननरक्षणशोधनैः कृत्वा मातृभूताः पञ्चसमितीस्तिस्रो गुप्तीश्चाऽधारयत् ।
क्षुधार्तोऽप्येषणामविलङ्घयन् यात्रामात्रोद्यतोऽचरत् । पिपासितश्च पथिस्थोऽपि न शीतोदकं, किन्तु प्रासुकोदकमेव जग्राह । शीतार्तोऽपि च त्वग्वस्त्रत्राणवर्जितोऽकल्प्यं वासो न जग्राह । अग्नि च नाऽसेवत । धर्मात्तोऽपि चोष्णं नाऽनिन्दत्, छायां च नैच्छत् । वीजनं स्नानं गात्राद्यभिषेकाद्यपि च नाऽकरोत् । दंशाद्यैर्दष्टोऽपि चोपेक्षयाऽस्थात् । तेषां निरासादि नाऽकरोत् । स नाग्न्यबाधितो लाभा-ऽलाभविचित्रता जानन् वासो नेयेष । तथा स धर्ममतिः कदाऽप्यप्रीति न चक्रे । सदा स्वास्थ्यमेवाऽधिशिश्रिये । मोक्षद्वारार्गलाभूताः स्त्रियश्च कदाचिदपि नाऽचिन्तयत् ।
विविधाभिग्रहैर्युतः सोऽनियतस्थाय्येकोऽपि चाँ चक्रे । निःस्पृहोऽभयश्च स इष्टा-ऽनिष्टान् सर्वानेवोपसर्गान् सेहे । शुभाऽशुभायां शय्यायां प्रातस्त्याज्येति चिन्तयन्नरक्तद्विष्टः सुखा-ऽसुखे विषेहे। केनचिदाक्रुष्टोऽपि तं नाऽक्रोशत् । प्रत्युताऽऽक्रोष्टर्युपकारितामेव मेने । हन्यमानोऽपि न प्रतिजघान । याचनां न चकार, गृहवासं च नैच्छत् । परस्मात् परार्थं स्वार्थं वाऽन्नादिकं न लेभे । लाभे वा नाऽतुव्यत् । अलाभे च परं नाऽनिन्दत् । रोगेभ्यश्च नोद्विग्नोऽभूत्,
२ त्रिपभा-२
Page #11
--------------------------------------------------------------------------
________________
द्वितीयं पर्व प्रथमः सर्गः
९
चिकित्सां च नैच्छत् । संस्तृतेषु तृणादिषु च तत्स्पर्शजं दुःखं सेहे, मृदूनि तृणादीनि च नैच्छत् ।
अङ्गेषु क्लेदादिभिर्मले जातेऽपि स्नातुं नैच्छत् । नाऽप्युदवर्त्तयत्, न वोद्विविजे । अभ्युत्थानादिषु सस्पृहो नाऽभवत् असत्कारे न व्यषीदत्, सत्कारे वा न मुमोद । स्वस्मिन्नप्रज्ञतां प्रज्ञावतां प्रज्ञां च जानन्न व्यषीदन्न वा मुमोद । ज्ञानचारित्रयुक्तोऽपि छद्मस्थोऽहमित्यज्ञानं विषेहे । सम्यग्दर्शनवांश्च स जिनोक्तजीवादि न मृषेत्यमन्यत । वशी स उक्तप्रकारेण शारीरान् मानसांश्च स्वपरसम्भवान् परीषहान् विषेहे । स सततमर्हध्यानैकतानो बभूव । तथा स सिद्ध-गुरु- बहुश्रुतस्थविर तपस्वि - श्रुतज्ञान- सङ्घादिषु भक्तिमान् बभूव । एवं स दुर्लभानि तीर्थकर कर्मोपार्जनान्यपराण्यपि स्थानकानि निषेवितवान् । एकावल्यादि ज्येष्ठ कनिष्ठं च व्रतं चकार । मासोपवासादारभ्याऽष्टमासोपवासान्तं कर्मनिर्जरार्थमुपवासतपश्चकार ।
एवं समतापरायणः स तीव्रं तपस्तप्त्वा संलेखनाद्वयं कृत्वा प्रान्तसमयेऽनशनं प्रपद्य समाहितः पञ्चपरमेष्ठिनमस्कारं स्मरन् देहत्यागं कृत्वाऽनुत्तरविमानेषु विजयाख्ये विमाने त्रयस्त्रिंशत्सागरोपमायुरमरो जात: । तत्र च चारुभूषणभूषितो, निरहङ्कारश्चन्द्रकरोज्वलो, हस्तमात्रतनुः, सर्वदा निष्प्रतीकारः, सुखशय्यामधिष्ठितः, स्थानान्तरमगाम्यनिर्मितोत्तरवैक्रियोऽवधिज्ञानेन लोकनाडीं पश्यन्नहमिन्द्रो निर्वाणसुखतुल्यमुत्तमं सुखमन्वभूत् । तथा स तत्र त्रयस्त्रिंशता पक्षैर्निःश्वसितं त्रयस्त्रिंशद्वर्षसहस्त्रैश्च भक्ष्येच्छां व्यधात् । मासषट्कायुः शेषे चाऽपरदेववत् तस्य मोहो नाऽभूत्, प्रत्युताऽऽसन्नपुण्यत्वात् तेजो व्यवर्धत । एवमद्वैतसुखसागरमग्नो निजमायुरेकाहवद् निर्गमयाञ्चकार ॥ १ ॥ इति द्वितीयपर्वणि श्री अजितस्वामिपूर्वभववर्णनात्मकः प्रथमः सर्गः ॥ १ ॥
द्वितीयः सर्गः
अथाऽस्य जम्बूद्वीपस्य भरतक्षेत्रे पृथिव्याः शिरोमणिरिव विनीतानाम्नी नगर्यस्ति । तस्यामादीश्वरमोक्षकालानन्तरं सङ्ख्यातीतेष्विक्ष्वाकुवंश्येषु राजसु सिद्धिं सर्वार्थसिद्धं च निरन्तरं गतेषु विश्वसन्तापापहारको जितशत्रुनामा महीपतिर्बभूव । स यशस्वी समुत्साहादिगुणोपेतः श्रीमान् धीरो लोकाह्लादकः सर्वनरदेवमनोज्ञो दिगन्तशासनो जगदुत्तमो वदान्यो धर्ममतिश्चाऽऽसीत् । तस्याऽनुजश्च महापराक्रमः सुमित्रविजयो नाम युवराजोऽभूत्, जितशत्रोश्च भार्या सर्वाङ्गसुन्दरी शीलगुणभूषणा कलावती विजयानाम्नी लक्ष्मीसरस्वतीप्रतिनिधिभूतेवाऽऽसीत् ।
विमलवाहनजीवश्च विजयाच्च्युत्वा विजयागर्भे वैशाखशुक्लत्रयोदश्यां रोहिणीगतचन्द्रे ज्ञानत्रयधरः पुत्रत्वेनोत्पेदे । तस्मिन् समये च क्षणं तद्गर्भप्रभावाद् नारकाणामपि सुखमुत्पेदे । तस्या रात्रेश्चतुर्थे प्रहरे च विजयादेव्या स्वप्ने प्रसिद्धा गजादयश्चतुर्दशाऽम्भोजे भ्रमरा इव मुखे प्रविशन्तो ऽदृश्यन्त । तदानीं च सिंहासनप्रकम्पेन शक्रोऽवधिं प्रयुज्य तीर्थकृतो गर्भावतारं ज्ञात्वा पुलकिततनुर्दध्यौ "अनुत्तरविमानतो विजयाच्च्युत्वेदानीं जम्बूद्वीपे याम्यभरतार्धमध्यखण्डमध्ये विनीतापुर्यां जितशत्रुनृपस्य भार्याया विजयादेव्याः कुक्षाववतीर्णो भगवानेतस्यामवसर्पिण्यां दयालुर्द्वितीयस्तीर्थकरो भविष्यति । एवं ध्यात्वा ससम्भ्रमं सिंहासनादि त्यक्त्वा तीर्थवृद्दिक्सम्मुखं सप्ताष्टपदानि गत्वा कृतोत्तरासङ्गो भुवि दक्षिणं जानु निधाय वामं च किञ्चन विनम्य शिरसा पाणिभ्यां च संस्पृष्टभूमिः शक्रस्तवपूर्वकं जिनमवन्दिष्ट ।
Page #12
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-द्वितीयः सर्गः
ततश्च शक्रः विनीतायां जितशत्रुगृहं जगाम । तथाऽऽसनकम्पतोऽवधिज्ञानेन जिनस्य गर्भावतारं ज्ञात्वाऽन्येऽपि शक्रास्तत्र समाययुः। तत्र च मनोरमे हंसतूलगर्भशयने स्वामिनी विजयां दृष्ट्वा स्वं ज्ञापयित्वा नत्वा च तस्यै तीर्थकृज्जन्मरूपं स्वप्नफलं वर्णयामासुः। अनन्तरं शक्रः कुबेरमादिशत्-"ऋषभस्वामिराज्यादौ रत्नाद्यैस्त्वया पूरितेयं नगरी नूतनगृहादिभिर्नवीकृत्य रत्नादिभिः पुनः पूर्यताम्" । ततश्चेन्द्राः सम्पादिततदादेशः कुबेरश्च स्वं स्वं स्थानं ययुः । तदानीं च कुबेरकृतप्रतियत्ना सा नगरी द्वितीयाऽलकेव बभौ ।।
अथ तस्यां रात्रौ सुमित्रस्याऽपि भार्या यशोमत्यपराऽभिधा वैजयन्ती तानेव स्वप्नान् ददर्श । ततश्च ते विजया-वैजयन्त्यौ तद्रात्रिशेष जाग्रत्यावेव गमयामासतुः । प्रातश्च तान् स्वप्नान् विजया जितशत्रवे, वैजयन्ती च सुमित्रविजयाय कथयामासतुः । ततश्च विजयादेव्यै "एतत्स्वप्नानुसारेण भुवनत्रयोत्तमस्तव पुत्रो भविष्यती"ति कथयति नृपे द्वारपालनिवेदितः सुमित्रविजयस्तत्राऽऽ जगाम । प्रणम्य च यथास्थानमुपविश्य क्षणं स्थित्वा रचिताञ्जलिः पुनर्नत्वा राजे निवेदयामास-"अद्य रात्रेरन्तिमे प्रहरे वैजयन्त्या मुखकमलप्रवेशिनः ख्याता दिग्गजादयश्चतुर्दश महास्वप्ना अवलोकिताः । एषां फलं च देव एव जानाति । तत्फलभाक् च देव एव" ।
तच्छ्रुत्वा राजोवाच-"विजययाऽपीमे एव स्वप्ना दृष्टाः, यद्यप्येते महास्वप्ना महाफलाः, तथाऽपि विशेषतः फलं ज्ञातुं तज्ज्ञाः प्रष्टव्याः"। ततः कुमारेण तथेत्युक्ते राज्ञाऽऽदिष्टो द्वारपाल: सादरं स्वप्नशास्त्रज्ञानाजुहाव । ते च कृतस्नाना, अमला धौतश्वेतवासोवसानाः, शिरोन्यस्तदूर्वाङ्कुराः, सपुष्पकेशा, भालस्थले गोरोचनाकृततिलका, अनाल्पमण्डनमण्डिता नैमित्तिकाः साक्षाद् ज्ञानशास्त्ररहस्यानीव समाययुः । राज्ञः पुर आशीर्वादात्मकानार्यवेदोक्तान् मन्त्रान् प्रत्येक युगपच्च पठित्वा माङ्गलिकं दूर्वाक्षतादिकं राज्ञो मूनि प्रक्षिप्य
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः द्वारपालदर्शितेषु भद्रासनेषु समुपाविशन् ते । ततो राजा जायां वधू च यवनिकान्तरे समुपवेश्याऽञ्जलौ पुष्प-फले समादाय तेषां ताभ्यां दृष्टान् महास्वप्नानकथयत् ।
ततस्ते रहसि स्वप्नशास्त्रानुसारत: परस्परं पर्यालोच्य स्वप्नार्थं कथयामासुः-"देव ! स्वप्नशास्त्रे द्वासप्ततिः स्वप्ना उक्ताः, तेषु त्रिंशदुत्कृष्टाः, तेषु मध्ये तज्ज्ञैरेते चतुर्दश महास्वप्नाः कथ्यन्ते । तीर्थकरे चक्रिणि च गर्भस्थे सति तन्माता रात्रेश्चरमयामे क्रमश एतान् स्वप्नान् पश्यति। तथैषां स्वप्नानां मध्ये वासुदेवस्य माता सप्त, बलदेवस्य माता चतुरः, मण्डलेशस्य माता चैकं पश्यति" । तथा युगपद् द्वावर्हन्तौ न भवतः, द्वौ चक्रिणौ च युगपद् न भवतः । तथैकस्या एव तीर्थकृच्चक्री च द्वावपि न भवतः। ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते तीर्थकरे सति चक्रीत्यर्हदागमाद् विजयादेव्याः पुत्रस्तीर्थकरः, वैजयन्त्याश्च पुत्रश्चक्री भवितेति ज्ञातव्यः । तच्छ्रुत्वा परितुष्टेन नृपेण वितीर्णं दौस्थ्यापहारकं ग्राम-वस्त्रा-ऽलङ्कारादिकं पारितोषिकमादाय राजाज्ञया ते स्वं स्वं स्थानं जग्मुः । विजयावैजयन्त्यौ च मुदिते स्वं स्वं वासागारं जग्मतुः ।
ततः शक्राज्ञया देवा-ऽसुरस्त्रियो विजयादेवीं सेवितुं प्रवृत्ताः। तत्र वायुकुमारस्त्रियो नित्यं पांसु-तृण-काष्ठादि स्वामिनीगृहादपनिन्युः। मेघकुमारस्त्रियश्च गन्धोदकेन गृहाङ्गणभूमि सिषिचुः । ऋतुदेवताश्च नित्यं पञ्चवर्णानि पुष्पाणि समाजहुः । ज्योतिष्कदेव्यश्च यथाकालं यथासुखं प्रकाशं विदधुः । वनदेव्यश्च दास्य इव तोरणादिकं चक्रुः। ताश्च सर्वा मागधस्त्रिय इवाऽहरहस्तुष्टुवुः ।
विजया-वैजयन्त्यौ च निसर्गेणाऽपि राजन्त्यौ गर्भप्रभावेण विशेषतो रेजतुः । तयोः स्वर्णगौरं वदनं पाण्डिमानं दधौ । स्वभावादपि दीर्घ लोचने शरत्कमलवदधिकं सविकासे अजायेताम्।
Page #13
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-द्वितीयः सर्गः
१३ हेमशलाकावच्च तयोर्लावण्यमधिकाधिकमवर्धिष्ट । स्वभावतो मन्थरगती ते अतिमन्थरं जग्मतुः । तयोर्गी शुक्त्योमौक्तिकवदतिगूढं ववृधाते ।
ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च व्यतीतेषु माघमासस्य शुक्लाष्टम्यां शुभे क्षणे ग्रहेषूच्चस्थेषु रोहिणीनक्षत्रे विजया सत्या वाक् पुण्यमिव गजाईं सुतमसूत । तीर्थकरसहजप्रभावाच्च मातुः सुतस्य वा प्रसूतिदुःखं नाऽभवत्। तदानीं च भुवनत्रयेऽपि क्षणमुद्योतोऽजनि । नारका अपि क्षणं सुखिनो जाताः, दिशः प्रसेदुः, लोकानामत्युल्लासोऽभूत् । वायुश्चाऽनुकूलो मन्दं मन्दं ववौ । सर्वतश्च शुभसूचकाः शकुनाः सञ्जज्ञिरे ।
तदानीं च दिक्कुमारीणामासनानि चकम्पिरे । तेनाऽऽसनकम्पेन च किमेतदिति सम्भ्रान्ताश्चारुचूडामणिराजिता, मौक्तिककुण्डलशोभिता, मणिनिर्मितत्रैवेयकाः, स्तनतटस्पर्शिमुक्ताहारा, माणिक्यकङ्कणशोभितकरपल्लवा, रत्नखचितरसनासनाथनितम्बा, रत्ननूपुरमण्डितपादपद्माः, काश्चिन्नीलकान्तयः, काश्चिद् बालारुणरुचयः, काश्चिज्योत्स्नाकान्तयः, काश्चित् कनकरुचयः, काश्चिच्च वैडूर्यरत्नरुचयो, वृत्तपीनस्तनमनोहराः, सलीलगामिन्यः, कोमलपाणिपल्लवाः, पद्मलोचना, दिव्यलावण्यवत्यः, सौन्दर्यशालिवन्त्यस्ताः सर्वाः षट्पञ्चाशदपि सद्योऽवधि प्रायुञ्जत । विजयादेव्यास्तीर्थकृज्जन्म ज्ञात्वाऽऽसनेभ्यः समुत्थाय सप्रमोदास्तीर्थकृद्दिशः सम्मुखं सप्ताष्टपदानि ददुस्ताः । जिनेश्वरं नमस्कृत्य शक्रस्तवेन भक्त्या वन्दित्वा पुनर्वलित्वा रत्नसिंहासनान्यध्यास्य विस्तृतनानामणिमयविमानविकरणार्थं निजानाभियोगिकसुरानादिशन् । ते चाऽऽभियोगिकास्तासामादेशेन सद्य एव स्वर्णकुम्भ-केतु-शालभञ्जीसहितमणिस्तम्भ-किङ्किणीजाल-वज्रवेदी-रत्नमयेहामृगादिलतावृक्षाद्यङ्कितभित्त्यादिरम्याणि विमानानि विकृत्य दर्शयामासुः ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __ततोऽधोलोकवास्तव्या दिव्यवस्त्र-पुष्पाद्यलङ्कृता भोगङ्कराप्रभृतयोऽष्टौ दिक्कुमारिकाः प्रत्येकं चत्वारिंशच्छतसामानिकी-महत्तराचतुष्टय-महानीकसप्तक-प्रत्येकानीकपतिसप्तक-षोडशात्मरक्षीसहस्रव्यन्तरदेवदेव्यादिसहिता विमानानि समारुह्य गीतादिपूर्वकं सोत्कण्ठं पूर्वोत्तरदिशं प्रति समुपप्रक्रम्य वैक्रियसमुद्धातं कृत्वाऽसङ्ख्यातानि योजनानि दण्डं चक्रिरे । रत्नानां वैडूर्यादिमणीनां च स्थूलपुद्गलान् शातयित्वाऽणुपुद्गलान् गृहीत्वोत्तरवैक्रियं स्वस्वरूपं विकृत्य सर्वा सर्वबलेन च सह ता देवगत्याऽयोध्यायां जितशत्रुनृपसद्म ययुः । स्वैविमानस्तीर्थकृत्सूतिकागृहं त्रिः प्रदक्षिणीकृत्य पृथिवीतश्चतुरङ्गलमूवं पूर्वोदीच्यां विमानानि स्थापयित्वा सूतिकागृहं प्रविश्य जिनेन्द्र जिनमातरं च त्रिः प्रदक्षिणीकृत्य बद्धाञ्जलयस्ताः प्रोचिरे । "मातर्वयमधोलोकवास्तव्या दिक्कुमारिकास्तीर्थकृतो जन्ममहिमानं कर्तुमिहाऽऽगताः, तन्न भेतव्य"मित्युदीर्य प्रणम्य च पूर्वोत्तरस्यां दिशि व्यपक्रम्य वैक्रियेण समुद्घातेन संवर्तकं नाम वातं विचक्रिरे । शीतलमन्दसुगन्धिना शिवेन तेन वातेन सूतिकागारं परितो योजनावधि तृणाद्यपनीय पृथिवीं सिक्त्वा जिन-तन्मातृभ्यामारादेव मङ्गल्यगीतं गायन्त्यो मुदिता अवतस्थिरे ।
ऊर्ध्वरुचकसंस्था नन्दनोद्यानकूटगा अष्टौ मेघङ्कराप्रमुखा दिक्कुमारिकाः सामानिक्यादिभिः परिवृत्ताः पूर्ववत् सूतिकागृहमागत्य त्रि: प्रदक्षिणीकृत्य स्वं ज्ञापयित्वा प्रणम्य स्तुत्वा च मेघं विचक्रुः। गन्धोदकवृष्टिं विधाय योजनावधि रजांसि शमयित्वा पुष्पाणि विचित्राणि विकृत्य विकीर्य च धूपधूमेन तां भुवं वासयित्वाऽनतिदूर एव स्वामिगुणान् गायन्त्योऽवतस्थिरे । एवं पूर्वरुचकादिवास्तव्या नन्दाद्या अष्टावपाच्यरुचकवास्तव्याः समाहाराद्या अष्टौ, प्रत्यग्रुचकाद्रिवास्तव्या इलादेव्याद्या अष्टावुदग्रुचकादिवास्तव्या अलम्बुसाद्या अष्टौ, विदिग्रुचकादिवास्तव्याश्चित्राद्याश्चतस्रश्च पूर्ववदुपचारं विधाय यथाक्रम
Page #14
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-द्वितीयः सर्गः
रत्नदर्पण-भृङ्गार-व्यजन-चामर-दीपिकापाणयः सर्वास्तादिकुमारिका मङ्गलानि गायन्त्यो यथास्थानं समुपविविशुः ।
अथ रुचकद्वीपमध्यस्थाः प्रत्येकं पूर्ववत् स्वपरिवारसहिता रूपाद्या दिक्कुमारिका विमानवरमारुह्य जिनजन्मगृहमागत्य विमानस्था एव त्रिः प्रदक्षिणीचक्रुः । ततस्ताः समुचितदेशे विमानानि स्थापयित्वा पादचारिण्यो जिन तन्मातरौ भक्त्या प्रदक्षिणीकृत्य नत्वा स्तुत्वा स्वं ज्ञापयित्वा च "जिनजन्मकृत्यकरणार्थं वयमागताः, तन्न भेतव्यमित्युक्त्वा जिनस्य चतुरङ्गुलवर्गं नाभिनालमकल्पयन् । विवरं खनित्वा तत्र नालं निधाय रत्नादिभिस्तत्पूरयित्वा तत्र सद्यः समुद्भूतदूर्वासहितं पीठं बद्ध्वा सूतिकागृहस्य तिसृषु दिक्षु श्रीगृहाण कदलीगृहाणि च विचक्रुः। प्रत्येकं तन्मध्ये चतुःशालं तन्मध्ये चैकैकं रत्नसिंहासनं च विकृत्य करतलेन तीर्थकरं तन्मातरं च भुजे गृहीत्वाऽपाच्यकदलीगृह उपनीयाऽन्तश्चतुःशालं रत्नसिंहासने जिन तन्मातरं च न्यवेशयन् । स्वयं दासीभूय शतपाकादितैलैरभ्यङ्गं विधाय गन्धद्रव्यैरुद्वर्त्य तौ पुनः पूर्वकदलीगृहे नीत्वोपवेश्याऽन्तश्चतुःशालरत्नसिंहासने गन्धोदकादिभिः स्नपयित्वा विचित्ररत्नालङ्कारादि पर्यधापयन् । ततस्तावादायोदीच्यकदलीगृहे समुपनीय सिंहासने समुपवेश्याऽऽभियोगिकैः क्षणाद् गोशीर्षचन्दनेन्धनाद्यानाय्याऽरणिदारुणी मथित्वाऽग्नि समुत्पाद्य गोशीर्षचन्दनानि समिधीकृत्य होमेन भूतिकर्म विधाय जिनस्य रक्षाग्रन्थि बबन्धुः । " पर्वतायुर्भवेत वदन्त्यो जिनकर्णयो रत्नगोलकावास्फाल्य पुनस्तावादाय सूतिकागृहे समुपनीय शय्यायामध्यारोप्य तयोर्गुणान् मञ्जु गायन्त्योऽनतिदूर एव तस्थुः ।
१५
इतश्च सौधर्मे परिवारपरिवेष्टितः शक्र आसनकम्पेनाऽवधिमुपयुज्य जिनजन्म ज्ञात्वा कृतोचितोपचारो जिनजन्मोत्सवार्थं सुघोषाघण्टानादे सर्वान् देवानाह्वाय्य पालकाख्यं दिव्यविमानमुत्तरवैक्रियेण
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः रूपेणाऽध्यारुह्य सपरिवारो नन्दीश्वरद्वीपमासाद्य विमानं समक्षिपत् । सूतिकागृहमागत्य कृतसकलोचितोपचारो जिनमातुरवस्वापनिकां दत्त्वा तत्पार्श्वे तीर्थकृद्रूपं विकृत्य निधाय च जिनमादाय मेरुशैलं सपरिवार आगत्य चूलादक्षिणतः स्थितायामतिपाण्डुकम्बलाख्यायां शिलायां स्वोत्सङ्गस्थापितजिनः पूर्वाभिमुख उपाविशत् । तथाऽन्येऽपि त्रिषष्टिरि न्द्राः स्वस्वघण्टावादनेन स्वस्वपरिवारानाह्वाय्य तैः सहिता जिनजन्मोत्सवार्थं मेरौ जिनमुपाजग्मुः । तत आभियोगिकदेवैरानीतैः स्नात्रोपकरणैरारणा - ऽच्युतेन्द्रो जिनं देवैः सहितो यथाविधि समहोत्सवं स्नपयित्वा 'जय जयेत्युदीर्याऽङ्गप्रमार्जनादि विधाय पूजयित्वा - ऽष्टमङ्गलीं लिखित्वाऽऽरात्रिकादि विधाय प्रणम्य स्तुत्वा किञ्चिदपक्रम्य कृताञ्जलिः शुश्रूषातत्परस्तस्थौ । आरणा ऽच्युतेन्द्रवच्चाऽन्येऽपि द्वाषष्टिरिन्द्राः सपरिच्छदा जिनस्य यथाविधि स्नात्रं विधाय यथोचितं तस्थुः |
ततो द्वितीयस्वर्गाधिप आत्मानं पञ्चधा विकृत्य जिनं निजोत्सङ्ग आदायाऽऽदितीर्थ करतुल्योपचारेण सिंहासनमधिश्रितः । सौधर्मकल्पेन्द्रोऽपि प्रथमतीर्थकृत्तुल्योपचारेण स्नात्रादि विधाय शक्रस्तवेन वन्दित्वा प्रणम्याऽष्टोत्तरशतश्लोकैः स्तुत्वा पञ्चधाऽऽत्मानं विचकार । यथायथं जिनं छत्रादि च गृहीत्वा सपरिच्छदो विनीतायां सूतिकागृहमागत्य तीर्थकृत्प्रतिरूपं संवृत्य तत्र जिनं निधायाऽलङ्करणादि दत्त्वा जिनमातुरवस्वापनिकामपहृतवान् सः । शक्रादिष्टकुबेरप्रेषिताश्च जृम्भका देवास्तत्राऽऽगत्य रत्न-वस्त्रादिवृष्टि कल्पद्रुवज्जितशत्रुनृपगृहे वितेनुः । सौधर्मेन्द्राज्ञया चाऽऽभियोगिका देवाः प्रथमतीर्थकृद्वज्जिनरक्षां घोषयामासुः । ततो मेरुशिखरात् सर्वे देवा:, जितशत्रुगृहात् सौधर्मेन्द्रश्च जिनं प्रणम्य नन्दीश्वरद्वीपेऽञ्जनाद्रावागत्याऽष्टाह्निकां व्यधुः । तल्लोकपालादयश्चाऽपि प्रथमजिनेन्द्रवद् यथायथं तत्तत्पर्व
१६.
Page #15
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-द्वितीयः सर्गः तेष्वष्टाह्निकामहोत्सवं व्यधुः। ततस्तस्माद् द्वीपात् कृतकृत्याः सुराः स्वस्वस्थानं जग्मुः।
इतश्च तस्यामेव रात्रौ वैजयन्त्यपि सुखेन सूनुं सुषुवे । ततः परिच्छदो जायावध्वोविजया-वैजयन्त्योः पुत्रोत्पत्तिवार्त्तया जितशत्रुमवर्धयत् । तया वार्त्तया च परितुष्टो नृपो यथेष्टं पारितोषिकं प्रदाय प्रहृष्टतनुः परां तृप्ति भजमानः काराबन्धाद् द्विषोऽपि प्रमुक्तेनिर्देशं ददौ । चैत्येषु जिनबिम्बानामभृताः पूजाश्च विदधे । अर्थिनश्च धनैरतर्पयत् । तथा तत्र सशिष्याणामुपाध्यायानां सूतमातृकापाठैर्ब्राह्मणानां मन्त्रध्वनिभिमौहूर्तिकानां लग्नादिविचारवाग्भिः, कुलवधूनामुलूलध्वनिभिर्वारयोषितां मङ्गल्यगीतशब्दैर्बन्दिकोलाहलैश्चारणाशीभिश्चेटवर्गाणां हर्षोत्तालगीभिर्वेत्रिणां याचकाह्वानवचोभिश्च नृपगृहाङ्गणं शब्दाद्वैतमिव जातम् । ___ लोकाश्च क्वचित् कुङ्कुमादिभिविलेपनानि, क्वचित् क्षौमादिवस्त्रपरिधापनानि, क्वचिद् दिव्यमाल्यादिभिः सम्माननानि, क्वचित् कर्पूरमिश्रताम्बूलैः प्रीणनानि, कुङ्कुमेन गृहाङ्गणे सेचनानि, मौक्तिकैः स्वस्तिकादिविरचनानि, स्तम्भतोरणबन्धनानि, स्वर्णकुम्भस्थापनानि, रत्नमाल्यादिलम्बनानि, गीततालमनोहराणि सङ्गीतकानि च चक्रुः । तथा तत्र विचित्रवस्त्रा-ऽलङ्कार-नेपथ्यकलिता मङ्गलार्थं पुष्पादिसहितानि पूर्णपात्राणि बिभ्राणा: पौरेभ्यकुलवध्वः सामन्तादयश्च तत्र समाययुः । तथा केचिद् रत्नाभरणानि, केचिद् महार्घाणि दुकूलानि, केचित् स्वर्णराशीन्, केचिद् गजान्, केचिज्जात्यवाजिन उपायनानि ददुः । नृपश्च तानि सर्वाणि सपरितोष जग्राह । नगरे च नृपतेः समादेशात् स्थाने स्थाने महामञ्चास्तोरणाः प्रतिरथ्यं कुङ्कुमाम्बुसेकाः, पदे पदे च नाटक-सङ्गीतकमङ्गल्यतूर्यनादाश्च प्रवृत्ताः । एवं नृपो दशाहं यावद् महोत्सवमयीं पुरी विदधे ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __अथ नृपः शुभेऽहनि सुत-भ्रातृव्ययोर्नामकरणोत्सवाय राजपुरुषानादिशत् । ततश्च तैः पटमण्डपो निरमायि, तत्र च स्तम्भे स्तम्भे कदलीस्तम्भाः शुशुभिरे । तथा विचित्रैः पुष्पैः पुष्पगृहाणि चक्रुः, तत्र च हंसरोमगर्भ-तूलगर्भ-दारुमयाद्यासनानि बभूवुः । हर्षाद् नरा नार्यश्च मङ्गलद्रव्यहस्ताः समायातास्तत्र यथास्थानमुपावेश्यन्त । नियोगिनश्च तान् कुङ्कुमेन ताम्बूलैः पुष्पैश्च सच्चक्रुः । द्विजन्मान: पवित्रान् मन्त्रान् पेठुः । गन्धर्वैर्गीतानि प्रारेभिरे । वैतालिकैर्जयजयारावश्चक्रे । ततो महता महोत्सवेन नृपतिः स्वपुत्रस्य "गर्भस्थितस्याऽस्य माता मयाऽक्षयूते न जिते"त्यतोऽजित इति, स्वभ्रातृव्यस्य च सगर इत्यनुत्तमं नामाऽकरोत् । एवमुत्कृष्टलक्षणौ धरोद्धरणकर्मठौ कुमारौ पश्यन् नृपतिर्नितरां मुमुदे ॥ २ ॥ इति द्वितीयपर्वणि श्रीअजितस्वामि-सगरचक्रिजन्मवर्णनात्मको
द्वितीयः सर्गः ॥२॥
Page #16
--------------------------------------------------------------------------
________________
२०
तृतीयः सर्गः अथ सुरपतिनियुक्ताभिः पञ्चभिर्धात्रीभिरजितो महीपतिनियुक्ताभिस्ताभिस्तावतीभि: सगरश्च पाल्यमानौ ववृधाते । तयोश्चाऽजितः सुरेन्द्रसङ्क्रमितस्वाङ्गुष्ठसुधां सगरश्च धात्रीस्तन्यं यथाकालमपिबताम्। वर्धमानौ च तौ क्रमेण युगपच्च नृपतेरुत्सङ्गमारुरुहतुः । तौ च कदाचिद् नितान्तमुग्धं सिष्मियाते, धात्रीभिर्धार्यमाणावप्युत्सङ्गे न तस्थतुः । स्वच्छन्दं विचरन्तावनुधाविनीर्धात्री: खेदयामासतुः, वेगाच्च क्रीडाशुकादीनाददाते । तयोश्च पादपद्मेषु झणज्झणितिकुर्वाणा दिव्यघर्घरका रेजुः । स्वर्णमाल्य-कुण्डलादिशोभितौ च तौ नृपेणोत्सङ्गे बाह्रोः स्कन्धदेशे च प्रीत्या समारोपयामासाते ।।
एवं नृपेणाऽतिप्रीत्या लाल्यमानयोदिने दिने वर्धमानयोस्तयोरजितो जिनानां त्रिज्ञानत्वात् स्वयमेव सर्वकलाशास्त्रादि जज्ञे । सगरश्चोपाध्यायाच्छब्द-न्याय-साहित्यादिशास्त्राणि कतिपयैरेव दिवसैतिवान् । स च सगरः कर्णरसायनैः काव्यैर्वीतरागस्तवनैः स्वां वाचमकृतार्थयत् । स्याद्वादोपन्यासैश्च प्रतिवादिनो विजिग्ये । एवमर्थशास्त्रा-ऽऽयुर्वेद-वाद्यशास्त्र-गजाश्वादिलक्षण-धनुर्वेद-सङ्ग्रामकौशलाद्ययत्नसिद्धमाददे। तदेवं स भूषणाद्यैरिव गुणैर्विनयादिभिर्भूषितः सर्वकलापूर्णोऽभूत् । श्रीमानजितनाथोऽपि च शक्रः क्रीडादिभिरसेव्यत । शास्त्रं पठंश्च सगरः स्वसंशयानुपाध्यायेनाऽप्यच्छिन्नान् जिनं पृष्टवान् । जिनश्चाऽपि मति-श्रुता-ऽवधिज्ञानस्तान् संशयांश्चिच्छेद। शस्त्रप्रयोग-लक्ष्यवेधा-ऽश्वादिवाहनकौशल्यादि च सगरो जिनाय
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काले कालेऽदर्शयत । जिनश्च तं सम्भवन्तीं न्यूनतामशिषत् । एवमात्मानुरूपं चेष्टमानौ तौ प्रथमं वयो ललचाते ।
तथा समानचतुरस्रसंस्थानोपशोभितौ, वज्रर्षभनाराचसंहननौ, स्वर्णकान्ती, सार्धचतुर्धनु:शतसमुच्छ्यौ, श्रीवत्सलाञ्छितवक्षस्की, रुचिरोष्णीषशालिनौ शरीरलक्ष्मीविशेषकं यौवनमापतुः । तयोश्च कुटिलश्यामला: केशाः, उन्नते नासिके, शुभावतौ कर्णी, रेखात्रयाङ्कितौ कण्ठौ, गजकुम्भाविवोन्नतौ बाहुशिखरौ, पीनौ भुजौ, स्वर्णफलकतुल्ये उर:स्थले, गम्भीरौ नाभी, कृशौ मध्यदेशो, सरलकोमलौ करिकराकारावूरू, मृगीजङ्घातुल्ये जङ्घाकाण्डे, ऋजवोऽङ्गुलय: पादाश्चेत्येवं सर्वाणि सुलक्षणान्येवाऽऽसन् । तौ च निसर्गसुभगौ यौवनेन विशेषतो मधुनाऽऽरामाविव शुशुभाते । तदेवं सगरो रूपेण विक्रमादिगुणैश्च सर्वमर्येभ्य उत्कृष्टोऽभूत् । अजितस्वामी च देवेभ्यो मनुष्येभ्यश्च रूपादिभिरुत्कृष्टोऽभूत् ।
अथ जितशत्रुनृपेण विवाहार्थमुपरुद्धो नीरागोऽपि कर्मफलस्याऽवश्यमुपभोक्तव्यतयाऽजितस्वामी तद्वाचं तथेति प्रतिपद्य शतशः स्वयंवरा राजकन्याः परिणिन्ये । सगरोऽपि च देवकन्योपमा राजकन्या: परिणिन्ये । भोग्यं कर्म क्षपयितुं जितेन्द्रियोऽप्यजितप्रभुः सगरश्च ताभिः स्वभार्याभिर्नानाविधक्रीडाभिः करेणुभिः करीव रेमाते ।
अन्यदा भवोद्विग्नो भ्रात्रा समं जितशत्रुनृपः सम्पूर्णाष्टादशपूर्वलक्षावजित-सगराववदत्-"वत्सौ ! न: पूर्वेऽपि कतिपयपूर्व लक्षाणि पृथिवीं परिपाल्य पुत्रेषु राज्यमारोप्य निर्वाणसाधनं व्रतमाददिरे। तत्तथावंशक्रमादावामपि व्रतं ग्रहीष्यावः । ततोऽद्य प्रभृत्यावामिव वां राज-युवराजौ भवतम् । नौ प्रव्रज्यायै चाऽनुजानीतमद्य" । तच्छ्रुत्वाऽजितस्वाम्युवाच-"युक्तमिदं वः। ममाऽपि तदेव युज्यते ।
Page #17
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-तृतीयः सर्गः किन्तु कर्मभोगफलमत्र विघ्नः । विवेकिनः कस्याऽपि व्रतादाने न विघ्नाः, तातपादानां तु कथैव का ? यः पितुर्भक्त्याऽपि चतुर्थ पुरुषार्थं निषेधति, स पुत्रव्याजेन शत्रुरेव । किन्तु विनयी तव लघुभ्राता राज्यभृदस्तु" ।
तच्छ्रुत्वा सुमित्रविजयोऽभ्यधात्-"राज्यार्थं स्वामिपादान् त्यक्तुमहं न समर्थः, राज्यादिभ्यः सर्वेभ्योऽपि गुरुसेवा गरीयसी मता" । ततोऽजितनाथः पुनरुवाच-"यदि राज्यं नाऽऽदित्ससि, तर्हि भावयतिर्भूत्वाऽपि नः सुखायाऽऽस्व" | जितशत्रुश्चाऽप्युवाच"बन्धो ! आग्रहिणः सूनोर्वचनं मन्यस्व । यतो भावयतिरपि यतिरेव । अयं चाऽजितः साक्षात् तीर्थकर एव । अस्यैव तीर्थे तवेप्सितं सेत्स्यति, अत्युत्सुको मा भूः, प्रतीक्षस्व । त्वमेकस्य पुत्रस्य धर्मचक्रित्वमपरस्य च चक्रित्वं पश्यन् सर्वसुखाधिकं सुखं लप्स्यसे" । ततो गुर्वाज्ञाया अलझ्यत्वाद् व्रतोत्सुकोऽपि सुमित्रस्तद्वाचं प्रत्यपद्यत । ततः प्रीतो जितशत्रुर्महीयसोत्सवेनाऽजितस्वामिनो राज्याभिषेकमकरोत् । तेन च सर्वमेदिनी मुमुदे । तथा सगरमपि स्वयं यौवराज्ये निधायाऽजितस्वाम्यपि जितशत्रोस्तदैव महा विधिवद् निष्क्रमणोत्सवं चक्रे । ततो जितशत्रुरादीश्वरतीर्थस्थस्थविरान्तिके प्रव्रज्यां प्रपद्य बहिरङ्गानिवाऽन्तरङ्गानरीनपि जयन्नखण्डितं व्रतं परिपाल्योत्पन्नकेवलज्ञान: शैलेशीध्यानमास्थितः क्षीणाष्टकर्मा क्रमेण परमं पदं प्राप ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाऽकरोत् । प्रत्युत स सर्वाण्येव मदस्थानान्यनित्यानि जानंस्तृणायाऽमस्त । एवं राज्यं शासत् प्रभुः कौमारात् प्रभृति त्रिपञ्चाशत्पूर्वलक्षी सुखेनाऽत्यवाहयत् ।
अथाऽन्यदा सभां विसृज्य रहसि त्रिज्ञानोऽजितस्वाम्यचिन्तयत्"भुक्तप्रायभोगफलैरस्माभिरद्याऽपि कियद् गृहवासिभिः स्थेयम् ? प्राणी हि 'मयाऽयं देशस्त्रातव्यः, इदं पुरं रक्षणीयम्, अमी ग्रामा वासनीयाः, इमे जनाः पालनीयाः, इमे हस्त्यश्व-भृत्यादयः पोषणीयाः, इमे पण्डित-मित्र-मन्त्र्यादय उपचरणीयाः, दाराः सुतादयश्च रञ्जनीयाश्चे'त्येवं परकार्यैः समाकुलः प्रतिक्षणमप्यखिलं जन्म निष्फलं क्षपयति। तेषु कार्येषु च युक्ता-ऽयुक्तमविचारयन् नाना पापानि विदधाति । येषामर्थे च तानि विधत्ते ते. स्वशरीरमपि च वा, किमपि मृत्युपथे नाऽनुयान्ति । ततः शरीरार्थमपि पापकर्म मुधैव प्राणिभिर्विधीयते । जन्तुषेक एवोत्पद्यते, एक एव च पुराकृतकर्मफलान्यनुभवति, तेनाऽजितं वित्तं चाऽन्योऽनुभवति, स चैको नरकं प्राप्तः क्लिश्यते। कर्मवशगश्च जीवो दुःखदावानलभयङ्करे भवकानने एक एव बम्भ्रम्यते। भवदुःखं मोक्षसुखं वैको निःसहाय एवाऽनुभवति । यथा हि लोक: पाणि-पादादिव्यापारेण तरन् सिन्धुपारं याति, तथा धनादिपरिग्रहपराङ्मुखः स्वस्थो जीवो भवसिन्धुपारमासादयति" ।
एवं चिन्तयति प्रभौ भवनिविण्णमानसे सारस्वतादयो लोकान्तिकाः सुरास्तमुपेत्याऽब्रुवन्-"भगवन् ! स्वयं बुद्धोऽसि, अस्माभिहिं न बोध्यसे, किन्तु स्मार्यसे 'यत् तीर्थं प्रवर्त्तये'ति" । एवमुक्त्वा स्वामिनं नत्वा ते ब्रह्मलोकं ययुः । तत आत्मचिन्तानुकूलेन तद्वचसा प्रवृद्धभववैराग्यः प्रभुः सगरमाहूय जगाद-"संसाराब्धि तितीर्षतां नः साम्राज्यभारं गृह्यताम्" । तच्छ्रुत्वा बाष्पसम्भृतनयनः सगरोऽब्रवीत्-"किं मया काऽप्यभक्तिविदधे ? येनाऽऽत्मनः पृथक् कर्तुमेवमादिशः ? छायाहीनेन महता शाखिनेव त्वद्विहीनेनाऽनेन
इतश्चाऽजितनाथोऽपि सकलद्धिसनाथः स्वापत्यमिव प्रजाः पालयामास । तस्मिन्नवनीं पालयति दण्डादिभिविनैव प्रजा न्यायवर्त्मना ययुः । मानवन्तोऽपि भूभुजस्तस्य पत्तितां भेजिरे । तस्य सैन्ये च पत्तीनां रथानां च वारिधेस्तरङ्गाणामिव सङ्ख्यां कर्तुं कोऽपि नाऽलम् । अद्वितीये ऐश्वर्ये सत्यपि च स एकदाऽप्यभिमानं
Page #18
--------------------------------------------------------------------------
________________
२३
द्वितीयं पर्व-तृतीयः सर्गः राज्येन मम न प्रयोजनम् । मुमुक्षोरपि ते पादौ न मोक्ष्यामि । मम राज्यादि सर्वं सुत्यजं न तु त्वत्पादौ । यद् वा त्वयि व्रतधरेऽहं शिष्यीभविष्यामि । गोपुच्छलग्नो गोपालबालको नदीमिव भवत्पादावलम्ब्यहमपि भवं तरिष्यामि । त्वया सहाऽहमपि दीक्षामादास्ये, विहरिष्ये, परीषहानुपसर्गाश्च सहिष्ये, त्वया विनाऽत्राऽहं कथञ्चिदपि न स्थास्यामि, मयि प्रसीद" ।
ततः सुधोपमगिरा स्वामी सगरं निजगाद-"संयमग्रहणं प्रति तवाऽऽग्रहो युक्त एव । किन्तु भोगफलं कर्माऽद्याऽपि न क्षीयते तव। तस्मात् कर्मफलं भुक्त्वा स्वयं त्वं समये व्रतं गृह्णीयाः । अत इदं क्रमागतं राज्यं गृहाण । वयं पुनः संयमसाम्राज्यं ग्रहीष्यामः" । ततः सगरो मनस्यचिन्तयत्-"प्रभुविरहभीराज्ञाभङ्गभीश्च द्वयमपि मां दुनोति । तत्र गुर्वाज्ञापालनमेव वरम्" । इत्थं निश्चित्य गद्गदस्वरस्तथेति स्वामिनो वाचं प्रतिपेदे । ततोऽजितनाथो नियोगिभिः कृत्वा राज्याभिषेकार्थं तीर्थसलिलाधुपकरणान्यानाय्य राजसु मन्त्रिषु चमूपालेषु चाऽऽगतेषु सत्सु, बन्धुषु प्रमुदितेषु, हस्त्यादिसाधनाध्यक्षादिषूपस्थितेषु, शङ्ख-मृदङ्गादिवाद्येषु वाद्यमानेषु, गन्धर्वेषु शुद्धगीतानि गायत्सु, वैतालिकादिष्वाशीर्वचनानि भाषमाणेषु पुरोहितश्रेष्ठैः कृत्वा विधिवत् सगरस्य राज्याभिषेकं चकार । तदानीं च सर्वे नृपसामन्त-मन्त्रिणाः सगरं प्रणमुः । वरोपहारहस्ताः पौरा उपेत्य तं भक्त्या नवेन्दुमिवाऽनमन् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः णाऽशीतिलक्षाधिकाष्टाशीतिकोट्युत्तरशतत्रयं हेमकोटिं ददौ । वार्षिकदानान्ते चाऽऽसनकम्पतोऽवधि प्रयुज्य प्रभोर्शातदीक्षाक्षणाः शक्राः सामानिकादिभिः सह निष्क्रमणोत्सवं कर्तुं विमानैः प्रस्थाय नरेन्द्राश्च सर्वे विनीतामाययुः । तत्र चाऽच्युताद्या देवेन्द्राः सगरादयो नरेन्द्राश्च क्रमेण प्रभोर्दीक्षाभिषेकं व्यधुः । ___ततश्च शक्रो देवदूष्येण वस्त्रेण प्रभोरङ्गानि प्रमााऽङ्गरागैश्चर्चयित्वा, दिव्यान्यदूष्याणि वासांसि परिधाप्य, मुकुट-हारादिभिभूषणैदिव्यपुष्पमाल्यैश्च विभूष्य, ललाटे तिलकं विधाय, देव्यादीनां मङ्गलगीतपूर्वकं, श्वेतच्छत्रविराजितं, देवैश्चामरैर्वीज्यमानं, स्वयं दत्तहस्तावलम्बं हर्ष-शोकविमूढेनाऽश्रुवर्षिणा सगरेणाऽन्वीयमानं सहस्रवाह्यां सुप्रभां नाम शिबिकां प्रभुमारोहयत्। तां च शिबिकां प्रथमं नरास्ततो विद्याधरास्तदनु देवाश्चोढवन्तः । तत्र च सिंहासनासीनं प्रभुं सौधर्मेशानेन्द्रौ चामरैर्वीजयामासतुः । ततः प्रभुर्दीक्षामादातुमुत्सुको विनीतामध्यमार्गेण चचाल । ___ तदानीं च प्रभुं द्रष्टुं पौरा नरा नार्यश्च ससम्भ्रममुपाययुः । तदानीं च काश्चिदञ्चलान् चालयामासुः , लाजानवाकिरन्, सप्तशिखमारात्रिकं व्यधुः, प्रभोः पुरः पूर्णपात्राणि न्यधुः, मङ्गल्यान् पूर्णकुम्भान् दधुः, मङ्गलानि जगुः, नृत्यानि चाऽतिप्रमुदिताश्चक्रुः । गगनमपि भक्तैविद्याधर-सुरासुरैरितस्ततो धावमानाप्तम् । इन्द्राणां च नाट्यकारिभिः प्रभोरग्रे नाटकान्यक्रियन्त । तथा सगरानजीविभिनर्त्तकैः पौरगन्धर्वनारीभिश्च विचित्राणि प्रेक्षणकानि चक्रिरे । तदेवं तदानीं दिव्यैीमैश्च नाट्य-सङ्गीतकस्वरादिभिस्तुमुलध्वनिर्जातः । निरीहोऽपि प्रभुरत्यन्तदक्षिणतया पदे पदे मङ्गलानि स्वीचकार । तथा सम्भूय गच्छतः सुर-नरादीन् समप्रसादया दृष्ट्याऽनुजग्राह ।
एवं सुरादिभिः क्रियमाणनिष्क्रमणोत्सवः प्रभुः सहस्राम्रवणं नामोद्यानं प्राप । नानातरु-लतादिमनोहरं फल-पुष्पादिसमृद्धं तदुद्यानं
अथाऽजितनाथोऽपि वार्षिकं दानं प्रदातुमारेभे । तदा च शक्राज्ञप्ता: कुबेरप्रेरितास्तिर्यग्जृम्भका देवास्तत्तदुचितस्थानेभ्यो धनान्याजहुः । स्वामी च शृङ्गाटक-चत्वरादिषु सर्वत्र "एतद् वसु गृह्णीते"त्येवं घोषणामकारयत् । सूर्योदयात् समारभ्य भोजनावधि निषण्णश्चाऽष्टलक्षाधिककोटि दिने दिनेऽर्थिभ्यो ददौ । एवं प्रभुर्वर्षे
३त्रिष.भा-२
Page #19
--------------------------------------------------------------------------
________________
२५
२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुसुमादिभिरपूजयत् । तस्मिन्नपूजिते स्वामिनीवाऽभुक्ते भृत्य इव नाऽभुक्त च ।
द्वितीयं पर्व-तृतीयः सर्गः प्रविश्य चाऽजितप्रभुः शिबिकातोऽवतीर्य रत्नालङ्करणादिकं परित्यज्य, देवराजोपनीतं देवदूष्यं परिधाय, षष्ठं तपः कृत्वा माघशुक्लनवम्यां रोहिणीनक्षत्रगे चन्द्रे सप्तच्छदतरुतले सायं पञ्चभिर्मुष्टिभिः केशान् रागादीनिवोत्पाटयामास । सौधर्मेन्द्रश्च प्रसादमिव तान् केशान् निजोत्तरीयाञ्चलेन गृहीत्वा क्षणेनैव क्षीरोदे प्रक्षिप्य वेगादागत्य सुराऽसुरादीनां तुमुलं मुष्टिसंज्ञया निषिद्धवान् । प्रभोश्च कृतसिद्धनमस्कारस्य सामायिकमुदीरयतस्तदैव दीक्षासोदर्यमिव तुरीयं मनःपर्ययज्ञानमुत्पेदे । तदानीं च नारका अपि क्षणं सुखिनो जाताः । जगत्त्रये च प्रद्योत आविरभूत् । प्रभुमनु च सहस्रं नृपा दीक्षां जगृहुः । ततश्चाऽच्युतेन्द्राद्याः सर्वे देवाः प्रभुं प्रदक्षिणीकृत्य प्रणम्य भक्त्या स्तुत्वा पुनर्नत्वा च नन्दीश्वरं जग्मुः । तत्र जन्माभिषेकवदञ्जनपर्वतादिषु शाश्वतार्हत्प्रतिमाष्टाह्निकामहोत्सवं कृत्वा स्वं स्वं स्थानं ययुस्ते । सगरोऽपि च नृप-सामन्तादिसहितः प्रभुं प्रणम्य कृताञ्जलिर्गद्गदया वाचा स्तुत्वा पुनर्भक्तितो नमस्कृत्य बाष्पक्लिन्ननेत्रो मन्दं मन्दं निजां पुरीं ययौ ।
अथ प्रभुद्वितीयदिवसे ब्रह्मदत्तनृपगृहे परमान्नेन षष्ठतपसः पारणं चकार । तदानीं च देवास्तद्गृहाङ्गणे सार्धस्वर्णद्वादशकोटिका वसुधारां ववृषुः, चेलानुच्चिक्षिपुः । व्योम्नि सानन्दैर्देवैस्ताडिता दुन्दुभयो नेदुः । तथा तत्र देवा गन्धाम्बुवृष्टिं पञ्चवर्णपुष्पवृष्टिं च चक्रुः । व्योम्नि च "अहो ! अस्य नृपस्य दानं महादानम् , इदमेव सुदानं, यत्प्रभावाद् दाताऽतुलवैभवो भवति, तथाऽत्रैव भवे द्वितीये तृतीये वा मुच्यते, कल्पातीतेषु कल्पेषूत्पद्यते वे"त्येवं दिवौकसो जयजयारावपूर्वकं मुदितचेतसः कोलाहलं चक्रुः । ये च प्रभोर्दीयमानां भिक्षां प्रेक्षाञ्चक्रिरे ते नीरोगा जाताः । भगवांश्च कृतपारणो ब्रह्मदत्तनृपगृहाद् निरगात् । स च नृपः "प्रभोः पदानि मा स्म कश्चिदतिक्रामे"दिति तत्र रत्नैः पीठमकारयत् । तच्च त्रिसन्ध्यं
भगवांश्चाऽखण्डितेर्यासमितिः श्राद्धैः प्रासुकैः पायसादिभिः प्रतिलाभ्यमानः, क्वाऽपि पूज्यमानः, क्वाऽपि प्रतीक्ष्यमाणः, क्वाऽप्यन्वीयमानः, क्वाऽपि विहितमङ्गलः, क्वाऽपि दध्यक्षतदूर्वादिभिर्दीयमानार्घः, क्वचित् स्ववेश्मोपनयनायोपरोध्यमानः, क्वाऽप्यादेश याच्यमानो निर्ममो निरीहो निर्ग्रन्थश्च स्वसंसर्गाद् ग्रामान् पुराणि च तीर्थीकुर्वाणो महीं विजहार । स श्वापदादिभयङ्करेष्वपि वनेषु पर्वतेष्वपि च ग्रामेष्विव निष्प्रकम्पमना विजहार । तथा स कदाचिद् गिरिशृङ्गेषु, कदाचिद् नदीतीरे, कदाचिच्च श्मशाने तथा रौद्रतरेष्वन्येष्वपि स्थानेषु लीलया कायोत्सर्ग चकार । कदाचिच्चतुर्थ-षष्ठाऽष्टम-दशमाद्यष्टमासिकं यावत् तप आर्यदेशेषु विहरन् चकार । तथा ग्रीष्मातपादिसुदुःसहपरीषहान् सहमानो द्वादशाब्दान् व्यतीयाय । तत: क्वाऽप्यनासीनो निष्कम्पोऽप्रतिहतगतिस्तपोभिर्वर्धमानकान्तिस्त्रिगुप्तः पञ्चसमित आज्ञा-ऽपाय-विपाक-संस्थानचिन्तया चतुर्विधं ध्येयं ध्यायन् भुवं विहरन् क्रमात् सहस्राम्रवणं समाययौ ।
तत्र च सप्तच्छदतरोस्तलेऽप्रकम्पः प्रतिमया तस्थौ । ततश्चाऽप्रमत्तसंयताख्यगुणस्थानादपूर्वकरणाख्यमष्टमं गुणस्थानकं प्रपद्य श्रौतशब्दार्थों चिन्तयन् नानात्वश्रुतवीचारं प्रथमं शुक्लध्यानं प्राप्य ततोऽप्यनिवृत्तिबादराख्यं नवमं गुणस्थानकमारुरोह । ततो लोभकषायकिट्टीकरणतो दशमं सूक्ष्मसम्परायं गुणस्थानकं प्राप्य मोहक्षयात् क्षीणमोहं गुणस्थानकमारुह्य क्रमशो द्वादशस्य गुणस्थानकस्याऽन्तिमे क्षणे एकत्वश्रुतमवीचारं द्वितीयशुक्लध्यानमगात् । ततोऽणौ मनो निधाय घातिकर्मणां साकल्येन क्षये पौषशुक्लैकादश्यां रोहिणीगतचन्द्रे
Page #20
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-तृतीयः सर्गः
२७ कृतषष्ठतपाः केवलज्ञानं प्राप्य त्रिकालविषयान् त्रिलोकवतिनो भावान् हस्तामलकवद् ददर्श ।
ततः सर्वे शक्रा आसनकम्पतोऽवधि प्रयुज्य 'स्वामिनः केवलमुत्पन्न मिति ज्ञात्वा यथोचितोपचारेण पञ्चाङ्गस्पृष्टभूमयः प्रणम्य सिंहासनमधिष्ठाय समाहूताशेषपरिवारसमन्विताः क्षणाग्जिनेन्द्रमुपाययुः। तथा यथास्वं यथोचितं यथोपकरणं यथाविधि देवा भूमिमार्जनादिपूर्वकं भवत्रस्तैकशरणं निखिलापद्धरणं रौप्यादिप्राकारसमन्वितं समवसरणं विदधुः । ततो जयजयारावपूर्वकममरैः परिवारितः स्वर्णकमलेषु पदं न्यस्य प्रभुः पूर्वद्वारेण प्रविश्य यथोपचारं पूर्वमुखः सिंहासनमलञ्चकार । तदानीं व्यन्तरा अन्यास्वपि दिक्षु स्वामिबिम्बानि विचक्रुः । भामण्डलादयश्च यथास्थानं स्वयं प्रादुरासन् । यथाद्वारं च प्रविश्य प्रदक्षिणापूर्वकं प्रणम्य साधुसाध्वी-सुरा-ऽसुर-नर-तिर्यक्प्रभृतयो यथास्थानमुपविविशुः । ततः शक्रो रचिताञ्जलिर्भक्त्या भगवन्तं तुष्टाव।
इतश्चोद्यानपालकादजितप्रभुं समवसृतं ज्ञात्वा तस्मै पारितोषिकं वितीर्य सगरः कृतस्नानाधुपचारः कुञ्जरमारुह्य साशेषसैन्यपरिवरो द्रुतं सहस्राम्रवणमाससाद । तत्र गजादवतीर्य राज्यचिहान्यपास्य पदातिरेव समवसरणमागत्य प्रभुं नत्वा स्तुत्वा च यथास्थानं समुपविवेश ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्राऽऽज्ञा नामाऽऽप्तवचनं, सा चाऽऽगम-हेतुवादभेदाभ्यां द्विधा। शब्दार्थप्रतिपत्तिकृदागमः। प्रमाणान्तरसंवादादर्थप्रतिपत्तिकृद्धेतुवादः । अदुष्टकारणारब्धं प्रमाणमिति लक्षणादेतद् द्वयमपि प्रमाणमेव । तत्र दोषासम्पृक्तत्वादहतो वचनमदुष्टकारणारब्धमिति प्रमाणम् । तद्धि नयप्रमाणसिद्ध पौर्वापर्याविरोधि शासनान्तरैरबाध्यमङ्गोपाङ्गप्रकीर्णादिबहुभेदं गणिपिटकाख्यम् । तामिमामाज्ञामालम्ब्य स्याद्वादन्याययोगाद् द्रव्य-पर्यायरूपेण नित्या-ऽनित्येषु स्व-पररूपाभ्यां सदसदात्मसु वस्तुषु स्थिरप्रत्यय आज्ञाविचयाख्यं ध्यानम् । ___ "अज्ञातजिनमार्गाणामनात्मज्ञानामविचारितोत्तरकालानां च सहस्रशोऽप्यपायाः स्युः । मायादिपरवशेन किं किं पापं न क्रियते ? कस्को वाऽपायो नाऽऽप्यते ? मया नरकादिषु सर्व दुःखं प्राप्तं, तद् ममैव प्रमादः। परमां बोधि प्राप्याऽपि मया कायादिदुश्चेष्टितैरशुभमुपार्जितम् । मोक्षे स्वाधीनेऽपि जीवो भवाय भ्रान्तवान्" । एवं प्रकारेण रागादिहेतुकापायाचिन्ताऽपायविचयाख्यं ध्यानम् ।
"कर्मणां शभा-ऽशभात्मकं फलं विपाकः । स च द्रव्यक्षेत्रादिवशाद् नानारूपः । तत्र स्रक्-चन्दनादिद्रव्योपभोगत: शुभो, विषा-ऽग्न्यादिद्रव्यतोऽशुभोऽनुभूयते । क्षेत्रतो विमानो-पवनादौ वासाच्छभः, श्मशानादावशुभः । कालतो वसन्तादौ रते: शुभः, ग्रीष्मादौ भ्रमणतोऽशुभः । भावतो मनःप्रसादादौ शुभः, क्रोधादावशुभः। तथा देवादिभवे शुभः, नारकादिष्वशुभः । किं च द्रव्यादितः कर्मणामुदय-क्षय-क्षयोपशमो-पशमा भवन्ति । एवं कर्माणि द्रव्यादिसामग्रीयोगाद् देहिनां स्वं स्वं फलं प्रयच्छन्ति ।।
तानि कर्माणि चाऽष्टधा । पटेन चक्षुरिव येन ज्ञानमावियते तज्ज्ञानावरणम् । तच्च मत्यादिपञ्चज्ञानावरणात् पञ्चभेदम् । स्वामिदर्शननिरोधकद्वारपालसमं दर्शनचतुष्टयस्याऽऽवरणं पञ्च निद्राश्च
ततो भगवान् योजनगामिन्या सर्वभाषामय्या गिरा धर्मदेशनां प्रारेभे-तथाहि मन्दबुद्धिभिरसावसारः संसारः काचो वैडूर्यबुद्ध्येव सारबुद्ध्या गृह्यते । संसारश्च प्राणिनां विविधकर्मभिः संवर्ध्यते । कर्माभावे च संसाराभावः । तस्मात् कर्मध्वंसाय सुधिया सदा यतितव्यम् । कर्मध्वंसश्च शुभध्यानाज्जायते । तच्च ध्यानमाज्ञाऽपाय-विपाक-संस्थानचिन्ताभेदैश्चतुर्विधम् ।
Page #21
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-तृतीयः सर्गः यतस्तत्कर्म दर्शनावरणीयं नवभेदं, येनाऽऽत्मा स्वं दिक्षुरपि न पश्यति । मधुलिप्तखड्गधारालेहनतुल्यं सुख-दु:खानुभवात्मकं वेद्यं कर्म द्विविधम् । सुरापानवत् कृत्या-ऽकृत्यविमोहकारि मोहनीयं कर्माऽष्टाविंशतिभेदम् । तत्र मिथ्यादृष्टिस्वभावं दृष्टिमोहाख्यं, वैराग्यप्रतिषेधस्वभावं चारित्रमोहनीयाख्यं कीर्तितम् । कारागारमिव जन्तूनां स्वस्वजन्मनि धारकं नरादिभेदादायुष्कर्म चतुर्विधम् । चित्रकारोपमं गति-जात्यादिवैचित्र्यकृद् नामकर्म त्र्यधिकशतभेदम् । अस्य विपाकश्च देहिनां देहेषु भवति । क्षीर-सुरादिभाण्डकृत् कुलालकल्पमुच्चैर्नीचगोत्रकृद् गोत्राख्यं कर्म द्विभेदम् । येन बाधिता दानादिलब्धयो न फलन्ति , तद् भाण्डागारिकोपममन्तरायाख्यं कर्म पञ्चभेदम् । इत्येवं मूलप्रकृतीनां कर्मणां विपाकचिन्तया विपाकविचयाख्यं धर्मध्यानं कथ्यते ।
उत्पाद-व्यय-ध्रौव्यात्मकानाद्यनन्तलोकाकृतिचिन्तया संस्थानविचयाख्यं ध्यानं कथ्यते । कटिस्थकरस्य वैशाखस्थानकस्थितस्य नरस्याऽऽकृतिरिव लोकस्याऽऽकृतिः । स च लोक उत्पाद-व्ययधौ-व्यात्मकद्रव्यैः पूर्णः । अधस्ताद् वेत्रासनतुल्यो, मध्ये झल्लरीसन्निभोऽग्रे मरजाख्यवाद्यसदृश इत्येवंप्रकाराकतिर्लोकः । स च त्रिजगत्सु व्याप्तः । तत्र सप्तभुवो घनाम्भोधि-घनवात-तनुवातैर्वेष्टिताः। रुचकापेक्षयाऽधस्तिर्यगूर्बभेदात् त्रीणि जगन्ति भवन्ति । मेरोरन्तर्गोस्तनाकारचतुर्कोमप्रदेशोऽध ऊर्ध्वं चेत्येवमष्टप्रदेशो रुचकः । रुचकस्योपरिष्टादधस्ताच्च योजनानां नव नव शतानि तिर्यग्लोकः । तिर्यग्लोकस्याऽधस्ताच्चाऽधोलोको नवयोजनशतोनसप्तरज्जुप्रमाणः प्रतिष्ठितः ।
तत्राऽधोभागमासाद्य सप्तभूमयोऽधोऽधस्थाः । यासु नारकाणां भीषणा निवासा: सन्ति । रत्न-शर्करा-वालुका-पङ्क-धूम-तमःप्रभा
३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महातमःप्रभाश्च क्रमशस्तन्नामानि । तासां च बाहल्ये लक्षयोजनं क्रमशोऽशीति-द्वात्रिंशद-ष्टाविंशति-विंशत्य-ष्टादश-षोडशा-ष्टसहस्रसहितं सप्तानामपि मानं विज्ञेयम् । रत्नप्रभाया अधोऽधस्ताः क्रमात् पृथुतराः । तत्र प्रथमनरकभूमौ नरकावासानां त्रिंशल्लक्षाणि, द्वितीयायां पञ्चविंशतिलक्षाणि, तृतीयस्यां पञ्चदशलक्षाणि, चतुर्थ्यां दशलक्षाणि, पञ्चम्यां त्रीणि लक्षाणि, षष्ट्यां पञ्चोनं लक्षमेकं सप्तम्यां च पञ्च नरकावासाः ।
रत्नप्रभादीनामधस्ताच्च घनाब्धयो मध्योत्सेधे योजनानां विंशतिसहस्राणि । ततोऽधस्ताद् घनवाता मध्योत्सेधे घनाब्धितो योजनानामसङ्ख्यानि सहस्राणि । घनवाततश्च तनुवाता असङ्ख्यानि सहस्राणि । तनुवाततश्चाऽऽकाशमसङ्ख्येयानि सहस्राणि । मध्योत्सेधाच्च क्रमेण हीयमाना घनाब्ध्यादयः प्रान्ते वलयाकारधारिणः। रत्नप्रभायाः परिधिस्थितस्य घनाब्धिवलयस्य विष्कम्भः षड़ योजनानि, घनवातस्य च वलयविष्कम्भे सार्धानि चत्वारि योजनानि, तनुवातस्य वलयविष्कम्भे च साधू योजनम् । शर्कराप्रभाया घनाब्धौ च पूर्वोक्तवलयमानाद् योजनस्य त्रिभागः, महावाते गव्यूतमेकं, तनुवाते च गव्यूततृतीयांशोऽधिकः । एवं सप्तमी भूमिं यावत् पूर्वपूर्ववलयमानादेवमेवाऽधिकं वलयमानं वेदितव्यम् । सर्वत्र च घनाध्यादिवलयानि स्वस्वपृथिवीगतोत्सेधतुल्योत्सेधानि । आस्वेव घनाब्यादिधारितासु सप्तसु भूमिषु कुकर्मणां भोगस्थानं नरकावासाः । आसु भूमिष्वधोऽधो यातनादिवृद्धिर्जेया ।
अथ रत्नप्रभाया बाहल्येऽध ऊर्ध्वं चैकैकसहस्रयोजनं त्यक्त्वा तदन्तर्भवनपतीनां भवनानि सन्ति । ते च भवनपतयो दक्षिणोतरयोर्दिशोः श्रेणिद्वयेन तिष्ठन्ति । तेषु भवनाधिपेष्वसुराश्चूडामणिचिह्नाः, नागाः फणालाञ्छनाः, विद्युतो वज्रलाञ्छनाः, सुपर्णा गरुडचिह्नाः, वह्नयो घटचिह्नाः, वायवोऽश्वलाञ्छनाः, स्तनिता वर्धमानचिह्वाः,
Page #22
--------------------------------------------------------------------------
________________
द्वितीयं पर्व तृतीयः सर्गः
३१
उदधयो मकरचिह्नाः, द्वीपाः केसरिचिह्नाः, दिक्कुमाराश्च सर्वे गजचिह्ना: सन्ति । तत्राऽसुराणां चमरो बलिश्च द्वौ, नागानां धरणो भूतानन्दश्च द्वौ, विद्युतां हरि-हरिसहौ, सुपर्णानां वेणुदेव- वेणुदारिणौ, वह्नीनामग्निशिखाऽग्निमाणवौ, वायूनां वेलम्ब - प्रभञ्जनौ, स्तनितानां सुघोष- महाघोषौ, उदधीनां जलकान्त - जलप्रभौ, द्वीपानां पूर्ण वशिष्ठौ दिक्कुमाराणाममिता - ऽमितवाहनौ चेन्द्राः ।
रत्नप्रभाया उपरि च योजनानां सहस्रं यावदूर्ध्वमधश्चैकैकां शतयोजनीं त्यक्त्वाऽष्टसु योजनशतेषु दक्षिणोत्तरयोः श्रेण्योरष्टविधा व्यन्तरनिकायाः सन्ति । तेषु पिशाचाः कदम्बतरुचिह्नाः, भूताः सुलसवृक्षाङ्काः, यक्षा वटलाञ्छनाः, राक्षसाः खट्वाङ्गाङ्काः, किन्नरा अशोकाङ्काः, किंपुरुषाश्चम्पकाङ्काः, महोरगाः नागद्रुमाङ्काः, गन्धर्वास्तुम्बुरुद्रुमलाञ्छनाः । तथा तेषां काल-महाकालौ पिशाचानां, सुरूपोऽप्रतिरूपश्च भूतानां यक्षाणां पूर्णभद्र - माणिभद्रौ, राक्षसानां भीम - महाभीमौ, किन्नराणां किन्नर - किंपुरुषौ, किंपुरुषाणां सत्पुरुष - महापुरुषौ महोरगाणामतिकाय महाकायौ, गन्धर्वाणां गीतरति - गीतयशसौ चेत्येवं षोडशेन्द्राः सन्ति ।
तथा रत्नप्रभायाः प्रथमे योजनशते ऊर्ध्वमधश्च दश दश योजनानि परित्यज्याऽशीतौ योजनेष्वष्टौ व्यन्तरनिकाया अप्रज्ञप्तिकपञ्चप्रज्ञप्ति-ऋषिवादित भूतवादित क्रन्दित- महाक्रन्दितकूष्माण्ड-पवकेत्याख्याः सन्ति । तेषु प्रत्येकं द्वौ द्वाविन्द्रौ क्रमशः सन्निहित-समानौ, धातृ-विधातृकौ, ऋषि ऋषिपालौ, ईश्वरमहेश्वरी, सुवत्सक - विशालौ, हास-हासरती, श्वेत- महाश्वेतौ, पवक- पवकाधिपौ च ज्ञेयाः ।
रत्नप्रभातलादूर्ध्वमष्टासु योजनशतेषु दशहीनेषु ज्योतिष्काणामधस्तलम् । तदूर्ध्वं दशयोजन्यां सूर्यः, तदुपर्यशीतियोजन्यां चन्द्रः,
३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो विंशतियोजन्याः प्रान्ते तारा ग्रहाश्च । ज्योतिर्लोकं च बाहल्ये दशोत्तरं योजनशतं, जम्बूद्वीपस्य मेरुपर्वतमसंस्पृशदेकविंशाधिकैकादशशतयोजनैर्मण्डलिकया स्थितं ज्योतिश्चक्रं सर्वासु दिक्षु सर्वदा बम्भ्रमीति । ध्रुव एवैको निश्चलः । तद्धि योजनानामेकादशाधिकैरेकादशशतैर्लोकान्तमस्पृशन्मण्डलेनाऽवतिष्ठते । तत्र सर्वत उपरि स्वातिः, सर्वतोऽधश्च भरणी, मूलः सर्वेभ्यो दक्षिणोऽभिजिच्च सर्वेभ्य उत्तरः ।
तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यौ च, लवणोदे प्रत्येकं चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे चन्द्राः सूर्याश्च प्रत्येकं द्वादश, कालोदे च चन्द्राः सूर्याश्च प्रत्येकं द्विचत्वारिंशत् । पुष्करार्धे च चन्द्राः सूर्याश्च प्रत्येकं द्वासप्ततिः, एवं मिलिताः सूर्याश्चन्द्राश्च प्रत्येकं द्वात्रिंशदधिकं शतम् । तथा प्रत्येकं चन्द्रस्य परिवारोऽष्टाशीतिर्ग्रहा अष्टाविंशतिर्नक्षत्राणि च। तारकाणां च कोटिकोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्ततिश्च । चन्द्रस्य विमानं च विष्कम्भाऽऽ यामयोर्योजनस्यैकषष्ट्यंशीकृतस्य षट्पञ्चाशदंशाः । सूर्यस्य विमाने चाऽष्टचत्वारिंशदंशाः, ग्रहाणां योजनार्थं, नक्षत्राणां गव्यूतमेकम् । तथा सर्वोत्कृष्टायुषस्तारकायाः क्रोशार्धं, सर्वजघन्यायुष्कायाश्च पञ्चधनुः शतानि । स्थूलता च सर्वत्र दैर्ध्यार्धम् । ते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मर्त्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पूर्वतः सिंहा, दक्षिणतो गजाः, पश्चिमतो वृषाः उत्तरतश्चाऽश्वाः । चन्द्र-सूर्ययोश्चाऽऽभियोगिकास्ते सिंहादयः षोडशसहस्राणि ग्रहनक्षत्र - ताराणां च क्रमशोऽष्टौ चत्वारि द्वे च सहस्राणि । ते चाऽऽभियोगिकाः स्वतो गतिमतां चन्द्रादीनां वाहनत्वेनाऽऽभियोग्येन कर्मणा तिष्ठन्ति । मानुषोत्तरात् परतश्च योजनानां पञ्चाशता सहस्त्रैश्चन्द्राः सूर्याश्च मिथोऽन्तरितास्तिष्ठन्ति । ते च मनुष्यक्षेत्रचन्द्रार्कमानादर्धप्रमाणकाः क्रमशः क्षेत्रपरिवृद्धया वर्धमानसङ्ख्या ग्रहादिपरिवारिताः
Page #23
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-तृतीयः सर्गः सुलेश्या: घण्टाकाराः सदा स्वयम्भूरमणाब्धिमवधीकृत्य योजनलक्षान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति ।
मध्यलोके च जम्बूद्वीप-लवणाद्या असङ्ख्याता द्वीप-सागरा द्विगुणद्विगुणाभोगा: पूर्वपूर्वद्वीप-समुद्रपरिगता वलयाकाराः सन्ति । तेषामन्ते च स्वयम्भूरमणो नाम महोदधिः । जम्बूद्वीपमध्ये च सुवर्णस्थालवर्तुलोऽधो महीतले योजनसहस्रमवगाढो, नवनवति योजनसहस्राणि समुच्छ्रितो, भूतले दशयोजनसहस्राणि विस्तृत, उपरिष्टाच्चैकं योजनसहस्रं विस्तृतस्त्रिकाण्डस्त्रिलोकविभक्ततनुमेंरुगिरिरस्ति । तस्याऽऽद्यं काण्डमेकं योजनसहस्रं शुद्धमृत्पाषाणादिमयं, द्वितीयं च काण्डं त्रिषष्टियोजनसहस्राणि स्वर्णस्फटिकादिमयं, तृतीयं तु काण्डं षट्त्रिंशद्योजनसहस्राणि जाम्बूनदशिलामयम् । तस्य चूलिका च वैडूर्यरत्नमयी । चूलिकायाः समुच्छ्रायश्चत्वारिंशद्योजनानि, मूलविष्कम्भमानं च द्वादश योजनानि, अष्टौ मध्ये उपरि विस्तारे च चत्वारि योजनानि । मेरोर्मूले च वलयाकृति भद्रशालाख्यं वनम् । तदुपरि पञ्चशतयोजन्यां मेखलायां पञ्चयोजनशतानि विस्तृतं नन्दनं वनम् । तदुपरि सार्धद्विषष्टिसहस्रयोजनान्यतीत्य द्वितीयमेखलायां सौमनसं वनम् । तदुपरि षट्त्रिंशद्योजनसहस्राण्यतीत्य तृतीयमेखलायां मेरोः शिरोभागे चतुर्नवत्यधिकचतुःशतयोजनविस्तृतं, वलयाकृति पाण्डुकमुद्यानम् ।
तथा जम्बूद्वीपे भारत-हैमवत-हरिवर्ष-विदेह-रम्यक-हैरण्यवतै-रावतानि सप्तवर्षाणि दक्षिणोत्तरं हिमवन्-महाहिमवन् निषधनील-रुक्मि-शिखरिनामभिर्वर्षधरपर्वतैर्मूलशिखरयोस्तुल्यविस्तारैः कृतविभागानि । तत्र हिममयो हिमवान् पञ्चविंशतियोजनी मह्यामवगाढ: शतयोजनीमुच्छ्रितः । तद्विगुणः सौवर्णो महाहिमवान्, तद्विगुणः सुवर्णमयो निषधाद्रिः । वैडूर्यमयो नीलो निषधतुल्य:, राजतो रुक्मी महाहिमवतस्तुल्यः । सौवर्ण: शिखरी हिमवतस्तुल्यः ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वे चाऽमी पार्श्वभागेषु विचित्रमणिमयाः । तथा क्षुद्रहिमवति सहस्रयोजनायामस्तदर्धेन विस्तृतः पद्मनामा महाहृदः । महाहिमवति च पद्महदतो द्विगुणायामविस्तृतो महापद्माभिधो हृदः । निषधे च महापद्मतो द्विगुणस्तिङ्गिच्छिर्नाम हृदः । तत्तुल्यश्च नीलाद्रौ केसरिनामा हृदः । रुक्मिणि च महापद्मतुल्यो महापुण्डरीको हृदः । शिखरिणि च पद्मतुल्य: पुण्डरीको हृदः । तेषु च हृदेषु जलान्तर्दशयोजनीमवगाढानि विकस्वराणि पद्मानि तिष्ठन्ति । तथाऽऽत्मरक्षानीकयुता: सामानिकपार्षद्यपरिवृताः पल्यायुषस्तेषु क्रमशः श्री-हीधृति-कीर्ति-बुद्धि-लक्ष्यो निवसन्ति । ___ तथा भरतक्षेत्रे गङ्गा-सिन्धू महानद्यौ, हैमवते रोहितारोहितांशे, हरिवर्षे हरिद्-हरिकान्ते, महाविदेहे शीता-शीतोदे, रम्यके नरकान्ता-नारीकान्ते, हैरण्यवते स्वर्णकूला-रूप्यकूले, ऐरवते रक्ता-रक्तोदे च महानद्यः सन्ति । तासु युग्मास्वाद्या: पूर्वाब्धिगामिन्यो द्वितीयाश्च पश्चिमाब्धिगाः । तथा गङ्गा-सिन्धू प्रत्येकमापगानां चतुर्दशसहस्रैः परिवारिते । ततः परे च द्वे द्वे अपि पूर्वद्विगुणद्विगुणनदीपरिवारिते। शीता-शीतोदाभ्यां पराश्च यथाक्रम गङ्गा-सिन्ध्वादितुल्याः । शीता-शीतोदे तु प्रत्येकं द्वात्रिंशत्सहस्राधिकैर्नदीपञ्चलक्षैर्वृते ।
भरतक्षेत्रस्य पृथुत्वमानं च योजनानां षड्विशत्यधिका पञ्चशती, एकोनविंशत्यंशस्य योजनस्य षडंशाश्च । ततो विदेहान्ता वर्षधराचलवर्षा यथोत्तरं द्विगुणद्विगुणविष्कम्भाः । तथोत्तरे वर्षधराचलवर्षा दक्षिणैस्तुल्याः । वर्षधराचलवर्षाणामिदमेव प्रमाणम् । निषधानेरुत्तरतो मेरोदक्षिणतश्च विद्युत्प्रभ-सौमनसौ पश्चिमपूर्वको पर्वतौ गजदन्ताकृतिशिखरौ स्तोकादस्पृष्टमेरुको । तयोरन्तरे भोगभूमयो देवकुरवः। तद्विष्कम्भमानं च योजनानामेकादशसहस्राणि द्विचत्वारिंशदधिकाऽष्टशती च । तत्र च शीतोदानद्याः पूर्वा
Page #24
--------------------------------------------------------------------------
________________
द्वितीयं पर्व - तृतीयः सर्गः
परतटयोर्विचित्रकूट - चित्रकूटनामानावुत्सेधे योजनसहस्रमानावधोऽपि तावन्मान - विस्तारौ तदर्धमूर्ध्वं विस्तार - मानौ । मेरोरुत्तरतो नीलगिरेर्दक्षिणतश्च गजदन्ताकृती गन्धमादनो माल्यवांश्चेति द्वौ पर्वतौ । तयोरन्तरे च शीताभिन्नहृदपञ्चकपार्श्वयोः स्वर्णशैलशतेनाऽतिरम्या उत्तराः कुरवः । तत्र शीताया नद्यास्तटयोर्यमकाख्यौ विचित्रकूट- चित्रकूटतुल्यौ स्वर्णपर्वतौ । देवोत्तरकुरुभ्यः पूर्वस्यां प्राग्विदेहाः, पश्चिमे चाऽपरविदेहाः, परस्परसञ्चाररहिता सरिदद्रिभिर्विभक्ताः । तेषु षोडश षोडश विजयाश्चक्रवर्त्तिभिर्विजेया: । तत्र कच्छादयो विजयाः प्राग्विदेहोत्तराः वत्सकादयश्च दक्षिणा:, अपरविदेहे च पद्मादयो दक्षिणे वप्रादयश्चोत्तरे विजयाः ।
३५
भरतस्य मध्ये च पूर्वापरसमुद्रौ यावद् दीर्घः सक्रोशषड्योजनानि पृथ्वीमग्नः, पञ्चाशतं योजनानि विस्तृतः, उच्छ्राये तदर्धमानो वैताढ्याख्योऽद्रिः । तत्र भूमितो दशयोजन्यां सत्यां दक्षिणोत्तरपार्श्वयोर्दशयोजनविस्तृते द्वे विद्याधर श्रेण्यौ । तत्र दक्षिणस्यां विद्याधरेन्द्राणां सराष्ट्राणि पञ्चाशन्नगराणि, उत्तरस्यां च षष्टिः । तदूर्ध्वं दशयोजन्यनन्तरं व्यन्तरावासशोभिते द्वे व्यन्तर श्रेण्यौ । तदूर्ध्वं पञ्चयोजन्यां सत्यां नव कूटानि । ऐरवतेऽप्येतत् सर्वं तुल्यम् ।
तथा जम्बूद्वीपस्य प्राकारभूतोच्छ्रयेऽष्टयोजनी वज्रमयी जगती । तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी, मध्यभागेऽष्ट योजनी, शिखरे च चत्वारि योजनानि । तदूर्ध्वं गव्यूतद्वयोच्छ्रायो जालकटको नाम मनोहरं विद्याधराणां क्रीडास्थानम् । तदूर्ध्वं च पद्मवराभिधा देवानां भोगभूमी रम्या वेदिका । तस्या जगत्याश्च पूर्वादिदिक्षु क्रमशो विजय- वैजयन्त - जयन्ता ऽपराजिताख्यानि द्वाराणि । क्षुद्रहिमवन्महाहिमवदन्तरे च शब्दापातीनामा वृत्तवैताढ्यपर्वतः । शिखरि - रुक्मिणोर्मध्ये विकटापाती, महाहिमवद् - निषधयोरन्तरे
३६.
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च गन्धापाती, नील-रुक्मिणोरन्तरे माल्यवांश्च । सर्वेऽप्येते पल्याकृतयः सहस्रयोजनोच्छ्रयाश्च ।
जम्बूद्वीपपरिक्षेपी ततो द्विगुणविस्तारो योजनसहस्रगम्भीरः पञ्चनवतियोजनसहस्रीं क्रमश: क्रमश उभयतोऽप्युच्छ्रयेण वर्धमानजलो मध्ये योजनदशसहस्त्रीप्रमाणो योजनानां षोडशसहस्त्राण्युच्छ्रयवच्छिखः, तदुपरि कालद्वये गव्यूतद्वितयावधिास वृद्धिमान् नाम्ना लवणोदाख्यः समुद्रः । तत्राऽन्तः पूर्वादिदिक्षु क्रमात् प्रमाणे लक्षयोजनाः सहस्रयोजनीप्रमाणवज्रकुड्याः, अधोऽन्ते च योजनानां दशसहस्राणि विस्तृता वायुपूरिततृतीयांशजला महालिञ्जराकृतयश्चत्वारः पातालकलसाः । तेषु च क्रीडास्थानेषु काल - महाकाल - वेलम्ब - प्रभञ्जना देवा वसन्ति । अन्ये च क्षुद्रपातालकलसाः सहस्रयोजनमाना दशयोजनमानकुड्या अधस्तादुपरि च शतयोजनमाना मध्ये वायूत्तोलितमिश्रजला अष्टसप्ततिः शतानि चतुरशीतिश्च ।
अत्र समुद्रे चाऽन्तर्वेलाधारिणो द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमाराः, बाह्यवेलाधारिणो द्विसप्ततिसहस्रसङ्ख्या:, शिखावेलाधारिणश्च षष्टिसहस्रसङ्ख्याः । वेलाधारीन्द्रपर्वताश्च हैमा-ऽङ्करौप्यस्फाटिका गोस्तूप- उदकाभास-शङ्खोदक-सीमकनामानः । द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवा गोस्तूप- शिवक-शङ्ख-मनोहृन्नामानश्चाऽसुराश्रयाः । ते चाऽधो द्वाविंशयोजनसहस्रविस्तृता:, एकविंशसप्तदशशतयोजनोच्छ्रया, उपरिष्टाच्च चतुर्विंशत्यधिकचतुश्शतयोजनं विस्तृताः सन्ति, तथा तेषामुपरि शोभनाः प्रासादाः सन्ति । कर्कोटक-कार्दमक-कैलाशा ऽरुणप्रभाश्चाऽणुवेलाधारिपर्वताः सर्वरत्नमयाः । तेषु च कर्कोटक- विद्युज्जिह्व-कैलाशा - ऽरुणप्रभा देवाः क्रमशः सर्वदैव वसन्ति । विदिक्षु च द्वादशसहस्रयोजन्यां प्राच्यामिन्दुद्वीपः तावद्विस्तार- दैर्घ्यशौभितौ । पश्चिमे च सवितृद्वीप:,
Page #25
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-तृतीयः सर्गः
३७ तथा सुस्थिताख्यदेवाश्रयो गौतमद्वीपोऽस्ति। तेषु चाऽन्तर्बाह्यलावणक चन्द्रा-ऽर्काणां प्रासादाः सन्ति । लवणोदधिश्च लवणरसः ।
लवणोदपरिक्षेपी ततो द्विगुणविस्तारो धातकीखण्डनामा द्वितीयो द्वीपः । तत्र जम्बूद्वीपतो द्विगुणास्तन्नामख्याता एव मेरु-वर्षवर्षधर-पर्वताः । जम्बूद्वीपस्थसङ्ख्या: पूर्वापरार्धयोरिष्वाकारपर्वताभ्यामुदग्दक्षिणयोविभक्ताश्चक्राराभा निषधोच्चाः कालोदलवणोदस्पृशः वर्षधराः सेष्वाकारा वर्षास्त्वरान्तरस्थिताः । धातकीखण्ड-द्वीपपरिक्षेपी योजनाष्टलक्षविस्तृत: कालोदाख्यः समुद्रः। पुष्करार्धे च धातकीतुल्य एव मेर्वादिः । क्षेत्रादिविभागश्च धातकीतो द्विगुणः। तथा धातकी पुष्करार्धयोर्मेरुतः पञ्चदशसहस्रयोजनलघवश्चत्वारः क्षद्रमेरवः क्षितौ मेरोर्योजनषटशत्या हीनविष्कम्भकाः । तेषां च प्रथमं काण्डं महामेरोस्तुल्यं, द्वितीयं सप्तभिस्तृतीयं चाऽष्टभिर्योजनसहरॆन्यूनम् । तथा तत्र मेरुवदेव भद्रशाल-नन्दने वने । सार्धपञ्चपञ्चाशसहस्रयोजनोपरि पञ्चशतविस्तारि सौमनसं वनम् । अष्टाविंशतिसहस्रयोजनोपरि षडूनयोजनपञ्चशतविस्तारि पाण्डकं वनम् । तेषामुपरिष्टादधस्ताच्च विष्कम्भोऽवगाहशूलिका च महामेरुतुल्याः । तदेवं सार्धतृतीयको द्वीपौ द्वावधी पञ्चत्रिंशद्वर्षाः पञ्चमेरवस्त्रिंशद्वर्षधराः पञ्च देवकुरवः पञ्चोत्तराः कुरवः षष्ट्युत्तरं शतं विजयाश्च मानुष्यं क्षेत्रम् ।
ततः परं च मर्त्यलोकपरिक्षेपी वर्तुल: पुष्करार्धे निविष्टः सुवर्णमय एकविंशत्यधिकसप्तदशशतयोजनानि समुच्छ्रितस्त्रिंशदधिकचतुःशतयोजनानि सक्रोशं च भूम्यामवगाढो, द्वाविंशतिसहस्रयोजनान्यधो विस्तीर्णो, मध्यतश्च त्रयोविंशत्यधिकसप्तशतयोजनान्युपरि च चतुर्विंशत्यधिकचतुःशतयोजनानि विस्तीर्णो मानुषोत्तराख्यः पर्वतोऽस्ति । तत्परतो मनुष्या नोत्पद्यन्ते न वा
३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः म्रियन्ते, तत्परतो गताश्चारणाद्या अपि न म्रियन्ते । तत्परतश्च बादराग्नि-मेघ-विद्युद्-नदी-कालादयो न वर्त्तन्ते ।
ततोऽर्वागेवैषु पञ्चत्रिंशतिवर्षेषु सान्तरद्वीपेषु मनुष्या जन्मत उत्पद्यन्ते । ते चाऽऽर्य-म्लेच्छभेदाद् द्विविधाः । तत्र क्षेत्र-जातिकुल-कर्म-शिल्प-भाषादिभेदात् षड्विधा आर्याः । पञ्चदशसु कर्मभूमिषु क्षेत्रार्या जायन्ते ते च भारते सार्धपञ्चविंशतिदेशजाः । ते आर्यदेशाश्च मगधादयो राजगृहादिनगरैरुपलक्षिताः । येषु तीर्थकृत्चक्रभृद्-बलदेव-वासुदेवानां जन्म । तथेक्ष्वाकु-ज्ञातादयो जात्यार्याः, कुलकरादयः कुलार्याः, यजनयाजनादिभिर्वृत्तिमन्तः कार्याः, तन्तुवायादयः स्वल्पसावद्यवृत्तयः शिल्पार्याः, शिष्टभाषा-नियतवर्णक पञ्चार्यव्यवहारविदो भाषार्याः । म्लेच्छास्तु शक-यवनादयो धर्मानभिज्ञा अनार्याः । ते च म्लेच्छा धर्मवर्जिता अन्तरद्वीपजा अपि सन्ति । अन्तरद्वीपाश्च षट्पञ्चाशत् ।
ते च क्षुद्रहिमवतोऽर्धे पूर्वा-ऽपरविभागयोः पूर्वोत्तराप्रभृतिषु चतसृषु विदिक्ष्वपि सन्ति । तत्र पूर्वोदीच्यां दिशि त्रियोजनशतायामविस्तारो लवणोदधिरवगाढः । प्रथम एकोरुनामाऽन्तरद्वीपः, तत्र पुरुषा द्वीपनामान: सर्वाङ्गसुन्दराः। अन्यत्राऽपि द्वीपनाम्ना पुरुषा भवन्ति। आग्नेय्यादिषु तन्मात्रावगाहा-ऽऽयाम-विस्तारा: क्रमादाभाषिक-लाङ्गलिक-वैषाणिकद्वीपाः । ततः परं चतुःशतयोजनान्यवगाह्य तावदायाम-विष्कम्भा ऐशान्यादिविदिक्षु हयकर्णकाद्या अन्तर्वीपा: क्रमशः । ततः परं पञ्चशतयोजनान्यवगाह्य तावदायामविष्कम्भा ऐशान्यादिषु पूर्ववदादर्शमुखाद्याः अन्तरद्वीपकाः। ततः षड्योजनशत्यवगाहा-ऽऽयाम-विस्तृता अश्वमुखादयः, ततो योजनानां सप्तशतावगाहा-5ऽयाम-विस्तृता अश्वकर्णादयः, ततोऽष्टयोजनशत्यवगाहा-ऽऽयाम-विस्तृता उल्कामुखाद्याः, ततो योजननवशत्यवगाहा
Page #26
--------------------------------------------------------------------------
________________
द्वितीयं पर्व तृतीयः सर्गः
ssयाम - विस्तृता गूढदन्तादयोऽन्तरद्वीपाः । तदेवमेतेऽष्टाविंशतिः शिखरिपर्वतस्थाश्च तावन्तो मिलित्वा षट्पञ्चाशद् भवन्ति ।
३९
मानुषोत्तरात् परतो द्वितीयं पुष्करार्धम् । पुष्करपरिक्षेपी द्विगुण: पुष्करोदकः । ततो वारुणिवरौ, ततः परं क्षीरवरौ घृतवराविक्षुवरौ च द्वीपसागराः । ततोऽष्टमो द्वीपो वलय- विष्कम्भयोस्त्रिषष्टिकोटिचतुरशीतिलक्षयोजनकोटिशतयोजनो नन्दीश्वरो देवभोगभूमिः । अस्य मध्यप्रदेशे पूर्वादिविदिक्ष्वञ्जनवर्णाश्चत्वारोऽञ्जनपर्वतास्तले दशयोजनसहस्राधिकविस्तृता, ऊर्ध्वं सहस्रयोजनविस्ताराः, क्षुद्रमेरुतुल्योच्छ्रयाश्च । तत्र प्राग् देवरमणः, दक्षिणो नित्योद्योतः पश्चिमः स्वयम्प्रभः उदीच्यो रमणीयः ।
तेषु च शतयोजनायतानि तदर्धं विस्तृतानि द्विसप्ततियोजनोच्चान्यर्हच्चैत्यानि सन्ति । तेषु च षोडशयोजनोच्चानि, विस्तारे प्रवेशे चाऽष्टयोजनानि चत्वारि द्वाराणि देवाऽसुर-नाग-सुपर्णानामाश्रयास्ततन्नामप्रसिद्धानि । तन्मध्ये च षोडशयोजनायामास्तावद्विस्तृता अष्टयोजनोत्सेधा मणिपीठकाः । तदुपरि तदधिकायामोच्छ्रया देवच्छन्दकाः । तेषु च ऋषभा वर्धमाना चन्द्रानना वारिषेणेति च नाम्ना पर्यङ्कासनसंस्थिताः स्वस्वपरिवारयुताः प्रत्येकमष्टोत्तरं शतं शाश्वतार्हत्प्रतिमाः । पृथक् च द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे । तत्पृष्ठत एका छत्रभृत्प्रतिमा । तथा तेषु धूपघटी -दाम-घण्टाऽष्टमङ्गली-ध्वज-तोरण- चङ्गेरी-पटला - ऽऽसनानि षोडशपूर्णकलसादीन्यलङ्करणानि सुवर्णरजोवालुकास्तलभूमयः, आयतनप्रमाणेन मुखमण्डपाः प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिका: स्तूपप्रतिमाश्चैत्यवृक्षा इन्द्रध्वजा पुष्करिण्यश्च दिव्या यथाक्रमं सन्ति ।
अञ्जनाद्रीणां प्रत्येकं चतसृष्वपि दिक्षु लक्षयोजनमाना नन्दिषेणाद्याः पुष्करिण्यः सन्ति । तासां प्रत्येकं योजनपञ्चशत्याः परतः पञ्चशतयोजनविस्तृतानि लक्षयोजनदीर्घाण्यशोकाद्याख्यानि
४ त्रिप. भा-२
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः महोद्यानानि । पुष्करिणी च मध्ये पल्याकृतयः स्फाटिका उद्यानादिसमन्विताश्चतुष्षष्टिसहस्रयोजनोच्चाः सहस्रयोजनावगाढा उपर्यधश्च दशसहस्रयोजनविस्तारा दधिमुखाद्रयः । पुष्करिणीनामान्तरे च द्वौ द्वौ प्रत्येकमिति मिलिता द्वात्रिंशद्रतिकराचलाः । तेषु दधिमुखाद्रिषु चाऽञ्जनागिरिष्विव शाश्वतान्यर्हच्चैत्यानि । योजनसहस्रोच्चा दशयोजनसहस्रायाम-विष्कम्भवन्तः सर्वरत्नमया झल्लर्याकृतयश्च द्वीपविदिक्षु चत्वारो रतिकराचलाः ।
४०
तत्र दक्षिणस्थयोर्द्वयो रतिकराचलयोः शक्रस्य, उत्तरस्थयोरैशानस्याऽष्टदिक्ष्वष्टानां महादेवीनां जिनायतनभूषिता राजधान्यः । तथा प्राक्क्रमात् सुजातादय आरामरक्षितापर्यन्ताः । तासु सर्वर्द्धयो देवाश्चैत्येषु पुण्यतिथिषु श्रीमदर्हतामष्टाह्निकाः कुर्वते । ततो नन्दीश्वरपरिक्षेपी नन्दीश्वराब्धि:, ततः परोऽरुणद्वीपोऽरुणोदः सागरश्च । ततोऽरुणवरो द्वीपोऽब्धिश्च तन्नामा । ततोऽरुणाभासो द्वीपस्तन्नामा सागरश्च । ततः कुण्डलद्वीपस्तदाख्यः सागरस्ततो रुचकद्वीपस्तदाख्यः सागरश्च । एवं क्रमाद् द्विगुणा द्विगुणा द्वीपा: सागराश्च । तेष्वन्त्यः स्वयम्भूरमणाख्योऽम्बुधिः ।
अर्धतृतीयेषु द्वीपेषु चोत्तरकुरून् विना भरतै- रावतमहाविदेहाः कर्मभूमयः । कालोद - पुष्करोद - स्वयम्भूरमणाः पानीयरसाः । लवणोदो लवणरसः । वारुणोदश्चित्रपानहृद्यः । क्षीरोदधिः खण्डमिश्र - घृतचतुर्भागगोक्षीरतुल्यः । घृतोदः सद्यः क्वथितगोघृताभः । अपरे इक्षुरसोपमाः सागराः । तथा लवणोदकालोद-स्वयम्भूरमणा मत्स्य- कूर्मादिसहिताः, नाऽन्ये । तथा जम्बूद्वीपे जघन्यतश्चत्वारस्तीर्थकराश्चक्रिणो वासुदेवा बलदेवाश्च सदा भवन्ति । उत्कर्षतश्च चतुस्त्रिंशज्जिनास्त्रिंशच्च चक्रिपार्थिवाः । धातकीपुष्करार्धयोश्चैते द्विगुणा भवन्ति ।
Page #27
--------------------------------------------------------------------------
________________
४१
द्वितीयं पर्व-तृतीयः सर्गः
तिर्यग्लोकादितश्चोर्ध्वं नवयोजनशत्यूनसप्तरज्जुप्रमाणो महद्धिक अवलोकः । तत्र सौधर्मे-शान-सनत्कुमार-माहेन्द्र-ब्रह्मलोकलान्तक-शुक्र-सहस्त्रारा-ऽऽनत-प्राणता-ऽऽरणा-ऽच्युताख्या द्वादश कल्पाः । नव ग्रैवेयकाः सुदर्शनादयः । ततः परमनुत्तराख्यानि विजयादीनि प्राक्क्रमेण विमानानि । ततो द्वादशयोजन्या ऊर्ध्वं पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तारा सिद्धशिला । ततोऽप्युपरि गव्यूतत्रितयात् समनन्तरं तुर्यगव्यूतषष्ठांशे लोकाग्रतावधि सिद्धाः सन्ति ।
आ सौधर्मेशानकल्पमवनेः समा सार्धा रज्जुः । सनत्कुमारमाहेन्द्रौ सार्धरण्जुद्वयम् । आसहस्रारं पञ्च, अच्युतावधि षट्, ततो लोकान्तं यावत् सप्त रज्जवो जायन्ते । सौधर्मेशानौ चन्द्रमण्डलवर्तुलौ, तत्र दक्षिणार्धे शक्र, उत्तरार्धे ईशानः । अपाच्यार्धे सनत्कुमारः, उत्तरार्धे माहेन्द्रः, सौधर्मेशानसंस्थानौ । ततः परं लोकपुरुषकूर्परतुल्यदेशे लोकमध्यभागे च ब्रह्मलोकः, तत्प्रभुश्च ब्रह्मा । प्रान्ते च सारस्वतादयो लोकान्तिका देवाः । तदूर्ध्वं लान्तकस्तन्नामेन्द्रश्च तत्र । ततो महाशुक्रस्तन्नामेन्द्रश्च । ततः सहस्त्रारस्तन्नामेन्द्रश्च । आनत-प्राणतौ सौधर्मेशानसंस्थानौ, तयोः प्राणतकल्पस्थ: प्राणताख्य इन्द्रः । तदूर्ध्वं तदाकारावारणा-ऽच्युतौ कल्पौ, तयोरच्युतस्थोऽच्युताख्य इन्द्रः । ग्रैवेयका-ऽनुत्तरेषु चाऽहमिन्द्रा देवाः ।
प्रथमौ द्वौ कल्पौ घनोदधिप्रतिष्ठानौ, ततः परं त्रय: कल्पा वायुप्रतिष्ठानाः, ततस्त्रयो घनोदधि-घनवातप्रतिष्ठानाः, तदूर्ध्वमाकाशप्रतिष्ठाना: कल्पाः । तेष्विन्द्रस्वामिका: सामानिकाद्या दशविधा देवाः । तत्र सामानिका इन्द्रतुल्याः, त्रायस्त्रिंशा मन्त्र्यादितुल्याः, पार्षद्या वयस्यतुल्याः, आत्मरक्षा रक्षकाः, लोकपालाश्चरतुल्याः, अनीकानि सेनातुल्यानि, प्रकीर्णा ग्राम्यादितुल्याः, आभियोग्या दासतुल्याः, किल्बिषाश्चाऽन्त्यजतुल्याः। त्रायस्त्रिंशलोकपालवजिता
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ज्योतिष्क-व्यन्तराः । सौधर्मे देवानां द्वात्रिंशत्, ऐशानेऽष्टाविंशतिः, सनत्कुमारे द्वादश, माहेन्द्रेऽष्टी, ब्रह्मकल्पे च चत्वारो विमानलक्षाः । लान्तके लक्षाधं, शुक्रे चत्वारिंशत्सहस्रकाः, सहस्रारे षट्सहस्राः, आनत-प्राणतयोश्चतुःशती, आरणा-ऽच्युतयोस्त्रिशती, आद्ये ग्रैवेयकत्रिके एकादशाग्रं शतं, मध्ये सप्तोत्तरं शतम्, अन्त्यप्रैवेयकत्रिके शतं विमानानां सन्ति, अनुत्तरविमानानि तु पञ्चैव । तदेवं देवविमानानां चतुरशीतिलक्षसप्तनवतिसहस्रत्रयोविंशतिः सङ्ख्या । अनुत्तरविमानेषु चतुर्पु विजयादिषु देवा द्विचरमाः, पञ्चमे त्वेकचरमाः ।
सौधर्मादारभ्य सर्वार्थसिद्धं यावत् पूर्वपूर्वेभ्य उत्तरोत्तराः स्थित्यवधि-ज्ञानादिभिरभ्यधिका भवन्ति । परिग्रहादिभिश्च यथाक्रम हीनहीनतरा भवन्ति । तथा सर्वजघन्यस्थितीनां देवानामुच्छ्वासः सप्तस्तोकान्तः, आहारश्चतुर्थतः। पल्योपमस्थितीनां देवानां तु दिवसस्याऽन्तरुच्छ्वासः, आहारश्च दिनपृथक्त्वतः । सागरोपमस्थितीनां तु यस्य यावन्तः सागरास्तस्य तावन्मासार्धकैरुच्छ्वासः. आहारश्च तावद्भिरब्दसहस्त्रैः। तथा देवाः प्राय: सद्वेदनाः, असद्वेदनाश्चेदन्तर्मुहूर्तमेव, न तु ततः परम् । देवीनां च आ ऐशानात् समुत्पत्तिः, गतिरा अच्युतात् । तापसास्तु ज्योतिष्कदेवावधि समुत्पद्यन्ते । चरकपरिव्राजामाब्रह्मलोकात् सम्भवः। पञ्चेन्द्रियतिरश्चामासहस्रारं सम्भवः । श्राद्धानामाअच्युतात्, मिथ्यादृशां जिनलिङ्गिनां सामाचारीपालकानामन्त्यग्रैवेयकावधि, पूर्ण पूर्विणां ब्रह्मलोकादिसर्वार्थसिद्धान्तं, जघन्यत: साधु-श्राद्धानां सौधर्मे च सम्भवः ।
आ ऐशानाच्च भवनवासिनो देवाः, ते चाऽङ्गप्रवीचारा: संक्लिष्टकर्मका: सुरते तीव्रानुरागा मनुष्यवत् सर्वाङ्गीणस्पर्शसुखात् प्रीतिं प्राप्नुवन्ति । शेषा द्वयोर्द्वयोः स्पर्श-रूप-शब्दप्रतीचाराः, आनतादिषु चतुषु च मन:प्रवीचाराः, ग्रैवेयकादिषु चाऽप्रवीचारा: प्रवीचारवद्भ्योऽनन्तसुखात्मका देवा भवन्ति । इत्यधस्तात्
Page #28
--------------------------------------------------------------------------
________________
द्वितीयं पर्व- तृतीयः सर्गः
४३
तिर्यगूर्ध्वभेदो लोकः । अस्य मध्यतश्चतुर्दशरज्जुप्रमाणा त्रसनाड्यस्ति । सा चोर्ध्वऽधोभागयो रज्जुप्रमाणायाम - विस्तृतिः । तत्राऽन्तस्त्रसाः स्थावराश्च सन्ति । तद्बहिस्तु स्थावरा एव । स चाऽयं लोको विस्तारेऽधः सप्तरज्जुर्मध्यत एकरज्जुर्ब्रह्मलोके पञ्च रज्जुः पर्यन्ते चैकरज्जुः सुप्रतिष्ठाकृतिः, न केनाऽपि कृतो धृतो वा ।
व्योम्नि निराधारः स्वयंसिद्धस्तिष्ठति । धीमानमुं लोकं समस्तं व्यस्तं वा शुभेतर ध्याननिवर्तकं चिन्तयेत् । धर्मध्याने क्षायोपशमिकादिको भावः, क्रमविशुद्धाः पीतादयो लेश्याश्च भवन्ति । अस्मिन् ध्याने च स्वसंवेद्यमतीन्द्रियं सौख्यं जायते । अनेन च ध्यानेन योगिनस्तनुं त्यक्त्वा ग्रैवेयकादिषु देवोत्तमा जायन्ते । तत्र निरन्तरायं निरुपमं सुखं चिरं लभन्ते । अन्ते च ततश्च्युत्वा महीतले दिव्यकुले समुत्पन्ना विविधान् भोगान् भुक्त्वा विरज्य ध्यानेन क्षीणकर्माणोऽव्ययं पदं प्रयान्ति " |
तदेवं तीर्थकृन्निर्मितां धर्मदेशनां श्रुत्वा प्रतिबुद्धाः सहस्रशो नरा नार्यश्च दीक्षां जगृहु: । तदानीं च सुमित्रोऽपि पुरा भावयतिर्दीक्षामाददे । ततः प्रभुः पञ्चनवतेर्गणभृतां सिंहसेनप्रभृतीनामुत्पत्ति-विगम- ध्रौव्यरूपां त्रिपदीमूचे । ते च तत्रिपद्यनुसारेण सपूर्वां द्वादशाङ्गीमरचयन् ।
ततो वासवश्चूर्णपूर्णस्थालमादाय सुरगणावृतः प्रभोः पादपद्मान्ते तस्थौ । प्रभुश्चोत्थाय गणभृतां मूर्धसु चूर्णं निक्षिपन् क्रमेण सूत्राऽर्थादिभिरनुयोगानुज्ञां गणानुज्ञां च ददौ । देवादयश्चाऽपि गणभृतामुपरि दुन्दुभिध्वानपूर्वकं वासक्षेपं विदधुः । ततो गणधरा रचिताञ्जलयः स्वामिवाचं प्रतीच्छन्तस्तस्थुः । प्रभुश्च सिंहासनमधिष्ठाय पूर्वाभिमुखस्तेभ्योऽनुशासनात्मिकां देशनां विदधे । ततः प्रथमषौरुष्यां व्यतीतायां प्रभुर्धर्मदेशनां पारयामास ।
तदा विशालस्थालस्थचतुः प्रस्थप्रमाणात्मकः, सुगन्धिभिः शालिभिः पूर्णः, सगरराजेन कारितो, वरपुरुषैरुत्क्षिप्तो, दुन्दुभि
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
ध्वानसहितो, वधूजनैरनुगम्यमानः, पौरैः परिवृतो बलिः पूर्वद्वारेण समवसरणं प्राविशत् । ततः प्रभुं प्रदक्षिणीकृत्य तैः पुरः स चिक्षिपे, देवादिभिरामयनिवारकः स जगृहे च । ततः सिंहासनादुत्थायोत्तरद्वारेण प्रभुर्निर्गत्यैशान्यां देवच्छन्दे विशश्राम । ततः सगरेणोपनीते सिंहासने स्थितः सिंहसेनो गणधरो देशनां चकार । भगवत्स्थानमाहात्म्याच्च स लोकैः पृष्टान् असङ्ख्यातान् भवानाख्यत् । तत्र तदानीं तं केवलिनं विना कोऽपि छद्मस्थं नाऽज्ञासीत् । ततो द्वितीयस्यां पौरुष्यां व्यतीतायां गणधरे देशनातो विरते देवा: स्वस्वस्थानं प्रति प्रस्थिता नन्दीश्वरद्वीपमाप्याऽञ्जनादिषु पर्वतेषु शाश्वतार्हत्प्रतिमानामष्टाकोत्सवं विधाय यथागतं निजनिजस्थानं ययुः । सगरोऽपि च प्रभुं नमस्कृत्य साकेतं जगाम ।
४४
ततस्तत्रैव तीर्थे समुत्पन्नश्चतुर्मुखः श्यामवर्णो गजवाहनश्चतुर्भिदक्षिणैर्हस्तैर्वरद मुद्गरा - ऽक्षसूत्र - पाशधरैर्वामैश्च बीजपूरा ऽभयाऽङ्कुश शक्तिधरैः शोभितो महायक्षाख्यो यक्षः प्रभोः पारिपार्श्वको
ऽभूत् । तदोत्पन्ना सुवर्णकान्तिर्लोहासनस्था वरद-पाशधराभ्यां दक्षिणबाहुभ्यां बीजापूरा -ऽङ्कुशधराभ्यां वामबाहुभ्यां च शोभिताऽ जितबला शासनदेवता भर्तुः पार्श्वेऽस्थात् ।
米米米
अथ चतुस्त्रिंशदतिशयो भगवानपि सिंहसेनादिपरिवृतो महीं विहरन् भव्यान् बोधयन् कौशाम्बीं प्राप्तस्तस्याः पूर्वोत्तरदिशि सुरैः कृते समवसरणेऽशोकतरुतले सिंहासनासीनो देशनां व्यधात् । तदान द्विजमिथुनमेत्य प्रभुं प्रदक्षिणीकृत्य नत्वा यथास्थानमुपविश्य कथाप्रस्तावे साञ्जलिः पप्रच्छ-'कथं नु भगवन्निति । ततः प्रभुः शशंस –“अयं सम्यक्त्वमहिमा, तद्धि सर्वानर्थनिवारणा-ऽर्थसिद्धिकरम्। तेन वैर-व्याधि-दुष्कर्माणि सूर्येण हिममिव नश्यन्ति । चिन्तामणिनेव तेन क्षणादेवाऽभीष्टं सिद्ध्यति । तथा तेन देवायु:कर्म बध्यते ।
Page #29
--------------------------------------------------------------------------
________________
द्वितीयं पर्व - तृतीयः सर्गः
४५
देवताः सन्निधीयन्ते । किं बहुना ? सिद्धिस्तीर्थकृत्त्वं च तेन जायते । तच्छ्रुत्वा मुदिते प्रणम्य कृताञ्जलिना 'भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथेत्युक्ते जनज्ञानकृते गणधरः प्रभुं पप्रच्छ - "प्रभो ! किमनेन पृष्टम् ? किं च भवता कथितम् ? तद् नः स्फुटं बोधय" ।
ततः प्रभुरुवाच - "अस्याः पुर्या अनतिदूरे शालिग्रामे दामोदरसोमयोर्द्विजदम्पत्योः पुत्रः शुद्धभट्टः सिद्धभट्टतनयां सुलक्षणां परिणीय यौवनं प्राप्य तौ यथाकामं भोगान् बुभुजाते । कालक्रमतस्तयोः पितरौ विपन्नवन्तौ विभवः क्षीणवान् । ततोऽन्न-वस्त्रादिरहितो दुर्गतः सन् भार्यामप्यनाख्याय दूरदेशान्तरं ययौ । तद्भार्या च कतिपयैर्दिनैस्तच्छ्रुत्वाऽत्युद्विग्नमानसा तिष्ठति । एकदा वसतीच्छया समागताया विपुलाया गणिन्या वसतिं दत्त्वा तन्मुखाद् धर्मदेशना प्रतिदिनं शुश्राव । तया च मिथ्यात्वे विगलिते सम्यक्त्वं प्रतिपद्य जीवादिपदार्थान् यथावज्ज्ञात्वा जैनं धर्मं प्रतिपद्य विरक्ता सा साध्वीशुश्रूषया वर्षाकालमजीगमत् । तस्या अणुव्रतानि दत्त्वा साध्व्यन्यत्र विजहार । तदैव शुद्धभट्टः कुतोऽपि समाजगाम । च 'मद्वियोगं कथमसहिष्ठा' इति पृष्टा त्वद्विरहकाले समागताया विपुलाया गणिन्या दर्शनेन भवद्विरहजं दुःखमतीत्य मया मनुष्यभवफलं सम्यक्त्वं प्राप्तम् ।
पुनरपि किं सम्यक्त्वमिति तेन पृष्टा सा "देवे देवताबुद्धिर्गुरौ गुरुतामतिर्धर्मे धर्मधीश्च सम्यक्त्वम्, अदेवादौ च तथा बुद्धिर्मिथ्यात्वम् । सर्वज्ञो वीतरागोऽर्हन्नेव देवः स एव ध्यातव्यः शरण्यश्च तस्यैव शासनं प्रतिपत्तव्यम् । ये रागद्वेषपरास्ते देवा न मुक्तये । महाव्रतादिधराश्च गुरवः । सर्वज्ञोक्तो दशविधो धर्मः । शमादिभ पञ्चभिः सम्यक्त्वमुपलक्ष्यते । स्थैर्य प्रभावना-भक्ति-जिनशासनकौशल- तीर्थसेवा: पञ्च तद्भूषणानि" इत्युदतरत् । तच्छ्रुत्वा ब्राह्मणोऽपि
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रियामभिनन्द्य सम्यक्त्वं प्रतिपन्नवान् । तदेवं श्रावकत्वं प्रपन्नयोस्तयोर्मिथ्यादृष्ट्यपवादानगणयतोः कालक्रमात् पुत्रो जज्ञे ।
अन्यदा प्रातस्तं पुत्रमादाय विप्रपर्षत्परिवृतां धर्मार्थाग्निष्टिकां गतः 'श्रावकोऽसीति परतो गच्छेति विप्रैः समाक्रुष्टः सङ्क्रुद्धः सत्यापनां चक्रे - "यदि जिनादिष्टो धर्मो न यद्यर्हन्तो नाऽऽप्ताः, ज्ञानादयो यदि न मुक्तेः पन्थाः भुवि चेत् सम्यक्त्वं नाऽस्ति, तर्हि मे पुत्रो दह्यताम् । इत्येवमुदित्वा स रोषेण पुत्रमग्नौ चिक्षेप । तदा सा पर्षद् 'अनेन हन्त ! पुत्रो दग्ध' इत्याचुक्रोश । तदानीं च तत्रस्था सम्यक्त्वशालिनी देवता तं बालमुत्क्षिप्याऽग्नेर्दाहशक्ति जहार । सा
४६
च देवता पुरा संयमविराधिनी मृत्वा व्यन्तरीभूता 'सम्यक्त्व भावनया बोधिः सुलभे'ति केवलिनोपदिष्टा तद्वचो हारमिव हृदये विभ्रती सम्यक्त्वमाहात्म्यकृते तं बालं जुगोप । तं प्रभावं संप्रेक्ष्य ते सर्वे विस्मिताः । स ब्राह्मणोऽपि गृहं गत्वा हृष्टो ब्राह्मण्यै तत् सर्वमाख्यातवान् ।
ब्राह्मणी च तच्छ्रुत्वा-“तव कोपकृतचापलमशोभनं सम्यक्त्व - वत्त्या कयाऽपि देवतयैव तव पुत्रो रक्षितः, अन्यथा स दग्ध एव भवेत् । नातः परमेवमविचारितमाचरणीयम् । जिनप्रणीतो धर्मो न प्रमाणमिति पापा एव ब्रूयुः ", एवमभिधाय सा तमस्मदन्तिकेऽनैषीत् । तदेतन्मनसि कृत्याऽनेन विप्रेण पृष्टम् । सम्यक्त्वस्याऽयं प्रभाव इति च मयोत्तरितम् । तच्छ्रुत्वा बहवः प्राणिनः प्रतिबुद्धाः स्थिरधर्माणो जाताः । तौ च द्विजदम्पती प्रभोः पादान्तिके दीक्षामादाय क्रमेण केवलं प्रापतुः । ततो भगवानपि तां देशनां समाप्याऽग्रचरेण धर्मचक्रेण शोभमानो भुवं विजहार ||३||
इति द्वितीयपर्वणि श्रीअजितस्वामिदीक्षा केवलज्ञानवर्णनात्मकः तृतीयः सर्गः ॥३॥
Page #30
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः
अथ सगरस्याऽस्त्रागारे सुवर्णमयनेमीकं, लोहिताक्षमयारं, स्वर्णादिघण्टिकान्वितं, मणिमुक्तादिमण्डितं वज्रनिर्मितनाभीकं, यक्षसहस्राधिष्ठितमन्तरिक्षस्थितं सुदर्शनं नाम चक्ररलं समुदपद्यत । तत आयुधागारिकस्तद् दृष्ट्वा प्रणम्य माल्यादिभिः पूजयित्वा मुदितो गत्वा सगराय शशंस । ततः सगरः सिंहासनादि त्यक्त्वा कतिचित् पदानि गत्वा चक्रं मनसिकृत्य ननाम । ततः सिंहासनमधिष्ठाय निवेदकाय पारितोषिकं दत्त्वा स्नानादिकं विधाय पद्भ्यां चलन् सामन्त-नृपादिपरिवृतोऽस्त्रागारं ययौ पञ्चाङ्गस्पृष्टभूतलश्च चक्रं नत्वा रोमहस्तैः प्रमार्ण्य स्नपयित्वा विविधैर्माल्यैः पूजयित्वा वस्त्राऽलङ्करणैरलङ्कृत्याऽष्टमङ्गलानि लिलेख । तदग्रतः पुष्प- धूपादि दत्त्वा त्रिः प्रदक्षिणीकृत्याऽपसृत्य नमस्कृत्य चाऽष्टाह्निकामहं सपौरो विधाय दिग्यात्रासमुत्सुकः स्वं निकेतनं जगाम सगरः ।
अथ सगरः स्नानाङ्गरागादि विधाय वस्त्राऽलङ्कारादि परिधाय मङ्गल्ये मुहूर्ते दिग्यात्रायै गजरत्नमारुरोह । सेनानीरत्नं चाऽपि दण्डरत्नमादायाऽश्वरत्नं समारुह्य भूपतेः पुरः प्रतस्थे । तथा पुरोधोरत्नं गृहिरलं वर्धकिरनं छत्र चर्मरले मणि- काकिणीरले बहुदासी परिवारमन्तःपुरं च तेन सहाऽचालीत् । ततो दिने दिने एकयोजनप्रमाणेन यानेन कतिपयैदिवसैः स मागधक्षेत्रं प्राप । तत्र च सगराज्ञया वर्धकिरत्नं नवयोजनविस्तारं द्वादशयोजनदीर्घं
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
स्कन्धावारं चकार । तत्र च नृपो मागधतीर्थकुमारं मनसिकृत्य पौषधशालायामष्टमतपो विधाय ततो निर्गत्य स्नानादिकं विधाय रथचक्रनाभिदघ्नं सागरजलमवगाह्य मागधतीर्थेशं प्रति निजनामाङ्कितं शरं चिक्षेप । तेन शरेण च द्वितीयचक्रिणं ज्ञात्वोपहारमादाय समुपस्थितः सगराय तत् समर्प्य साञ्जलिर्मागधेश:- 'तवाऽऽदेशकरोऽस्मीत्यवोचत् । चक्री चाऽपि तत् स्वीकृत्य सत्कृत्य तं विसृज्य च स्नानादिकं विधाय सपरीवारः पारणं कृत्वा मागधतीर्थेशस्याऽष्टाह्निकोत्सवं चकार ।
४८
ततश्चक्रानुगो दक्षिणां प्रति प्रतिष्ठमानोऽपाक्पश्चिममार्गेण मार्गे नृपान् स्वाज्ञावशंवदान् कुर्वन् क्रमाद् दक्षिणाब्धेस्तटमासाद्य कृते स्कन्धावारे गजादवरुह्य पौषधशालायां वरदामेशमुद्दिश्याऽष्टमतपो विधाय प्रान्ते वरदामेशं प्रति समुद्रजलेऽवगाह्य शरं विससर्ज । वरदामेशोऽपि शरेण द्वितीयचक्रिणमुपलक्ष्य सद्यः समुपस्थाय किरीटाद्युपहृत्य 'तवाऽऽदेशकरोऽस्मीति प्रार्थयत् । सगरोऽपि तत् स्वीकृत्य तं सत्कृत्य विसृज्य च स्कन्धावारमुपेत्य स्नानपारणादि विधाय वरदामेशस्याऽष्टाह्निकां चकार । ततः पश्चिमाभिमुखं चक्रानुगः प्रतिष्ठमानो द्रविडानान्ध्रान्, त्रिकलिङ्गान्, विदर्भान्, महाराष्ट्रान्, कौङ्कणाल्लाटान्, कच्छान्, सुराष्ट्रांश्च वशंवदान् विदधानः क्रमेण पश्चिमाब्धेस्तटमाप । तत्र स्कन्धावारमधिष्ठाय प्रभासेशमुद्दिश्य पौषधगृहेऽष्टमतपो विधाय नाभिदघ्नं लवणोदधिजलमवगाह्य प्रभासतीर्थेशं प्रति बाणं विससर्ज । प्रभासतीर्थेशोऽपि तेन बाणेन द्वितीयचक्रिणं ज्ञात्वा सत्वरमागत्य चूडामण्याद्युपहृत्य 'तवाऽऽदेशकरोऽस्मी'त्यवोचत् । चक्रयपि तत् स्वीकृत्य प्रभासेशं सत्कृत्य विसृज्य च शिबिरमागत्य प्रभासेशस्याऽष्टाह्निकं चक्रे ।
सिन्धोर्दक्षिणतटेन प्राङ्मुखो गच्छन् नृपः सिन्धुदेवीगृहादारात् शिबिरं निवेशयित्वा तत्र सिन्धुदेवीमुद्दिश्याऽष्टमतपो विचक्रे ।
Page #31
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-चतुर्थः सर्गः आसनकम्पेनाऽवधिना ज्ञातचक्रयागमनया सिन्धुदेव्याऽऽगत्योपहृताष्टोत्तररत्नकुम्भसहस्रादिकया 'तव वशंवदाऽस्मी'ति प्रार्थितस्तां सत्कृत्य विसृज्य च सिन्धुदेव्या अष्टाह्निकां विदधे। तत उत्तरपूर्वदिशा चक्रानुगो गच्छन् भूपतिः कतिपयैर्दिनैर्वैताढ्यस्य दक्षिणं नितम्बमाप्य तत्र पूर्वविधानेनोपहृतरत्न-वस्त्रादिकं वैताढ्यकुमारं वशंवदं विधाय तदष्टाह्निकां च चक्रे । ततश्चक्रानुगस्तमित्रां गुहामाप्य तदीशं कृतमालं स्ववशंवदं विधाय ततः स्त्रीरत्नयोग्यं तिलकचतुर्दशादीन्युपायनानि स्वीकृत्याऽष्टाह्निकां कृत्वाऽन्ते पश्चिमं सिन्धुनिष्कुटं विजेतुं सैन्यार्धेन सेनानीरत्नं समादिशत् ।
अथ तत्सेनानीरत्नं रचिताञ्जलिर्नृपाज्ञां शिरसाऽऽदाय स्नानादिकं विधाय चतुरङ्गसैन्यपरिवृतो गजमारुरोह । तत: सिन्धुप्रवाहमुपगत्य स्वपाणिस्पृष्टविस्तृतेन चर्मरत्नेन सिन्धुमुत्तीर्य सिंहलकान् बर्बरकान् टङ्कणान् इतरानपि यवनद्वीपं च कालमुखान् जोनकांश्च तथा वैताढ्यसंश्रिता नानाविधा म्लेच्छजाती: कच्छदेशं च लीलया स्ववशगं विधाय तदन्तात् प्रतिनिवृत्त्य कच्छस्यैव समे पृथिवीतलेऽवतस्थे । तत्र च सर्वतोऽप्यागत्य मडम्ब-ग्रामाद्यधीश्वरा म्लेच्छा भूषणवाहनादीन्युत्तमान्युपजहः । बद्धाञ्जलयश 'तव वशगाः करदाश्च स्थास्याम' इति ते प्रार्थयन् । ततः स सेनानीरत्नं तत् सर्वं स्वीकृत्य तान् विसृज्य पूर्ववच्चर्मरत्नेन सिन्धुमुत्तीर्य सगराय सर्वमुपनीतवान् । सगरश्च सागर इव सरिद्भिर्दूरादेत्य भूपैरुपास्यमानश्चिरं तत्र शिबिरेऽस्थात् ।
अथाऽन्यदा नृपस्तमिस्रादक्षिणद्वारकपाटोद्घाटनाय दण्डकुञ्चिकां बिभ्राणं सेनान्यमादिशत् । स च सेनानीस्तमित्रामुपगत्य कृतमालदेवमुद्दिश्याऽष्टमतपो विधायाऽन्ते कृतस्नानादिक्रियो धूपदहनमादाय गुहां प्राप्य तां नत्वा तद्द्वारे द्वा:स्थ इव दण्डपाणिरवस्थायाऽष्टाह्निकां कृत्वाऽष्टमङ्गली लिखित्वा दण्डरत्नेन तत्कपाटावताडयत् । तौ च
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कपाटौ सरत्सरदिति शब्दं कुर्वाणौ क्षणाच्चक्रिजीवितं यावद्विघटितौ सगराय निवेदितवान् सेनानीः । ततो नृपो गजरत्नमारुह्य चतुरङ्गचमूसनाथस्तत्राऽऽगत्य गजरत्नस्य दक्षिणे कुम्भे मणिरत्नं निवेश्य चक्रानुगः पञ्चाशद्योजनायामां तमित्रां प्राविशत् । ततो गोमूत्रिकाक्रमेण द्वयोर्गुहाभित्त्योः काकिण्या ध्वान्तनाशाय विष्कम्भाऽऽयामयोः पञ्चधन्वशतमानानि योजनान्तरितान्येकोनपञ्चाशतं चक्रिजीवितस्थायीनि मण्डलान्यालिखत् । ततो गुहाभित्त्योर्मध्यतो निर्गच्छन्त्यावुनमग्ना-निमग्नाख्ये सिन्धुगे नद्यावाप्य वर्धकिरत्नेन सद्यो बद्धया पद्यया च ते उत्तीर्य स्वयमेव विघटितकपाटमुत्तरद्वारमाप्य सपरिवारो नृपस्ततो निर्गतवान् ।
अथ तं च चक्रानुगं ससैन्यमागच्छन्तं प्रेक्ष्याऽऽपाता नाम किराताः सक्रोधं तदग्रानीकमुपाद्रवन् । सेनानीरत्नं च तान् सैन्यान् निघ्नतोऽसिरत्नं समाकृष्य वनेभो द्रुमानिवाऽपातयत् । ते च किरातास्तेन भग्ना दूरे गत्वा सम्भूय सिन्धुनद्यास्तटभूमौ कुलदेवता मेघमुखान् नागकुमारानुद्दिश्याऽष्टमभक्तानि जगृहुः । तदष्टमान्ते ते देवास्तानासनकम्पतोऽवधिना तथाविधान् दृष्ट्वा कृपयोपेत्याऽन्तरिक्षस्थाः प्रोचुः-"केन हेतुना यूयमेवमनुतिष्ठथ ? तद् ब्रूत" । ___ततस्ते ऊचुः-"केनाऽप्यत्र प्रविश्य वयं पराभूताः, स यथा याति, पुनर्नाऽऽयाति च, तथा विधत्त" । ते देवा ऊचुः-"अयं सगरो नाम चक्रवर्ती सुरा-ऽसुरैरजय्यः शस्त्राद्यगोचरः । तथाऽपि युष्माकमनुरोधेन वयं तस्योपद्रवं करिष्यामः" । इत्युदित्वा तिरोभूय शिबिरोपरि स्थित्वा घोरदुर्दिनं तथा वितेनिरे, यथा महान्धकारो जातस्तथा शिबिरोपरि सप्तरात्रं मुसलधाराभिर्ववृषुश्च । चक्रवर्त्यपि तद् दृष्ट्वा स्वपाणिस्पृष्टे शिबिरप्रमाणेन विस्तृते सलिलोपरि तरति चर्मरत्ने ससैन्यः समारोहत् । तथा छत्ररत्नं स्पृष्ट्वा चर्मरत्नवत् तं तच्चर्मोपरि चक्रे, मणिरत्नं च प्रकाशार्थं छत्रदण्डोपरि न्यधात् ।
Page #32
--------------------------------------------------------------------------
________________
द्वितीयं पर्व चतुर्थः सर्गः
गृहिरत्नं च रत्नमाहात्म्यात् प्रातरुप्तानि धान्यादीनि सायं ददौ । मेघमुखाश्च तथैव निरन्तरं ववृषुः । 'क एते मामुपद्रोतुं प्रवृत्ता' इति सकोपं सगरं चिन्तयन्तं दृष्ट्वा सन्निहितैः षोडशसहस्रैर्देवै' यूयं तूर्णमपसर्पत, अन्यथा वो न कुशलमिति निर्भत्सितास्ते मेघमुखास्त्रस्ता मेघान् संहृत्य तिरोदधुः। 'नाऽयं चक्री नो जय्य' इति किरातानूचुश्च ।
ततस्ते किराता भीता रत्नोपायनान्यादाय सगरं शरणमुपेत्य बद्धाञ्जलयः-“ज्ञानादस्माभिरसदृशमनुष्ठितं क्षमस्व, अतः परं त्वदधीना भविष्याम' इति प्रार्थयामासुः । चक्रयपि ताननुगृह्य सत्कृत्य च व्यसृजत् । तथा सिन्धोः पश्चिमनिष्कुटं जेतुं सेनानीरत्नमादिशत् । स च सेनानीश्चर्मरत्नेन सिन्धुमुत्तीर्य गिरि-सागरावधीन् सिन्धुनिष्कुटान् जित्वा म्लेच्छानां दण्डमादाय सगरमुपाययौ । चक्री च नृपैः सेव्यमानो विचित्रान् भोगान् भुञ्जानस्तत्र चिरमस्थात् ।
अथाऽन्यदाऽऽयुधागाराद् निर्गत्योत्तरपूर्वमार्गेण गच्छच्चक्रमनुव्रजन् नृपः क्षुद्रहिमवद्गिरेर्दक्षिणं नितम्बं प्राप । पौषधान्ते च रथाग्रेण तं गिरिं हत्वा तत्र तुरगान् बद्ध्वा बाणं विससर्ज । द्वा योजनान्यतीत्य सभायां पतितं तं बाणं तत्र लिखितमक्षरं च दृष्ट्वा चक्रिणं ज्ञात्वा क्षुद्रहिमाद्रिकुमारो गोशीर्षचन्दन - रत्नाद्युपायनान्यादाय सगरमुपगत्य समर्प्य नभः स्थितो जयेत्युक्त्वा सेवां स्वीकृतवान् । राजा च तं विसृज्य रथं वालयित्वा ऋषभकूटाद्रिं प्राप्य तं पूर्ववत् त्रिर्हत्वाऽश्वान् बद्ध्वा काकिण्या तस्य पूर्वभागे द्वितीयः सगरश्चक्रीत्यक्षराणि लिखित्वाऽष्टमभक्तान्तपारणं कृत्वा हिमाद्रिकुमारस्याऽष्टाह्निकां चकार ।
तत उत्तरपूर्वमार्गेण चक्रानुगो गङ्गादेवीस प्राप्याऽष्टमभक्तं चकार । तदन्ते चाऽऽसनकम्पतो विज्ञाय गङ्गाऽपि सिन्धुदेवीव चक्रिणमुपस्थाय रत्नकुम्भाद्युपहतवती । नृपश्च तां विसृज्य पारणं विधायाऽष्टाह्निकां चकार । ततश्चक्रानुगश्चक्री खण्डप्रपातं प्राप्य
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाट्यमालकमुद्दिश्याऽष्टमभक्तं चकार । नाट्यमालश्चोपेत्य नानाविधालङ्काराद्युपहत्य सेवां स्वीकृतवान् । नृपश्च तं विसृज्य पारणं विधायाऽष्टाह्निकामतनोत् । ततो नृपाज्ञया सेनानीरर्धसेनया सिन्धुनिष्कुटवद् गङ्गाप्राग्निष्कुटमसाधयत् । तथा चक्री वैताढ्यपर्वतश्रेणीद्वयविद्याधरान् पर्वतीयनृपानिव जित्वा तानुपहतरत्न-वस्त्रादीन् सत्कृत्य विससर्ज ।
५२
ततो नृपादेशेनाऽष्टमादिपूर्वकं तमिस्रावत् सेनान्या खण्डप्रपातगुहायामुद्घाटितायां नृपो गजमारुह्य तद्दक्षिणकुम्भे मणि न्यस्य गुहां प्राविशत् । ततश्चक्री काकिण्या द्वयोभित्त्योर्मण्डलान्यालिखनुन्मग्ना - निमग्ने नौ पूर्ववदुत्तीर्य स्वयमुद्घटितेन गुहादक्षिणद्वारेण निर्गत्य गङ्गापश्चिमतटे शिबिरं निवेश्य निधिरत्नान्युद्दिश्याऽष्टमं विदधे । नैसर्पाद्या निधयश्च "गङ्गामुखमागधवासिनो वयं त्वद्भाग्यवशीकृता:, अस्मान् यथाकाममुपभुङ्क्ष्व, प्रयच्छ च । वयं न कदाऽपि क्षीयामहे, नवभिर्यक्षसहस्त्रैः सततमापूर्यमाणाश्चक्रष्टष्ठ द्वादशयोजनायामा नवयोजनविस्तृता भुवि त्वत्पारिपार्श्विकाः सञ्चरिष्याम” इत्यूचुः । नृपश्च तद्वाचमनुमन्य कृतपारणोऽष्टाह्निकां विदधे । ततः सेनानीः सगरादेशाद् गङ्गाया द्वितीयमपि निष्कुटं साधयामास । तदेवं द्वात्रिंशताऽब्दसहस्रैः सगरश्चतुर्भिर्निष्कुटैर्गङ्गासिन्ध्वोर्मध्यस्थितेन खण्डद्वयेन षड्खण्डं भारतं वर्षं सुखमन्वशात् ।
ततश्चतुर्दशमहारत्न-नवनिधीश्वरो, द्वात्रिंशत्सहस्रनृपसेवितो, द्वात्रिंशत्सहस्त्रै राजपुत्रीभिस्तावतीभिर्जानपदस्त्रीभिश्च समन्वितो, द्वात्रिंशज्जनपदसहस्राधीश्वरो, द्वासप्ततिपुरसहस्रशासितैकसहस्रोनद्रोणमुखलक्षाधिपः पत्तनाष्टचत्वारिंशत्सहस्राधीश्वरः, कर्बटादीनां चतुर्विंशतिसहस्राणां चतुर्दशसहस्रसम्बाधानां षोडशसहस्रखेटकानां विंशत्याकरसहस्राणामेकोनपञ्चाशत: कुराज्यानां षट्पञ्चाशदन्तरद्वीपानां षण्णवतिग्राम-कोटीनां च स्वामितां प्राप्तः पत्तीनां षण्णवत्या
Page #33
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-चतुर्थः सर्गः कोटिभिः परिवारितः, कुञ्जराणां वाजिनां रथानां च प्रत्येकं चतुरशीत्या लक्षाभिर्व्याप्तभूतलश्चकानुगो महद्धिसम्पन्नो निववृते । मार्गे च ग्रामेशादिभिः पूजितो दिने दिने योजनिकैः प्रयाणैर्विनीतां प्राप । पुरीपरिसरे च शिबिरं निवेश्याऽवतस्थे ।
अथैकदा तत्र सगरो वाह्याल्यामश्वक्रीडार्थमेकं सूकलाश्वमारुह्य गतः । तत्र च तं तुरङ्गमं विक्रमय्योत्तरोत्तरधारासु क्रमेणाऽऽरोपयन् पञ्चमी धारामारूढो नभस्तल उत्पपात । ततः सोऽश्वोऽपहत्य सगरं शीघ्रमेव रंहसा महारण्ये प्रचिक्षेप। ततः स नृपो झम्पां दत्त्वोत्ततार। सोऽश्वोऽपि भूमौ पपात । ततो नृपः पादाभ्यामेव गच्छन् महासरो दृष्ट्वा तत्र श्रमापनोदाय स्नात्वा पय: पपौ । ततो निर्गत्य तीरे स्थितो नृपः सर्वाङ्गमनोहरामेकां युवतिं दृष्ट्वा केयमिति चिन्ताचान्तस्वान्तस्तयाऽपि दृष्टः । ततश्च कामविधुरा म्लानमुखी सा सखीभिः कथञ्चन निजावासमुपानीयत ।
सगरोऽपि स्मरातुरो मन्दं सरस्तीरे गच्छन् कञ्चुकिनैत्य नत्वा कृताञ्जलिनोचे-"राजन् ! इहैव भरतक्षेत्रवैताढ्यपर्वते गगनवल्लभपुरे विद्याधरपतेः सुलोचनस्य सहस्रनयनो नाम तनयः, सुकेशानाम्नीयं तनया चाऽस्ति । नैमित्तिकेन चैकेन "इयं स्त्रीरत्नं चक्रवर्त्तिनो महिषी भवित्री"ति वर्णिता । अनन्तरं च रथनूपुरेशेन पूर्णमेघेन याचिताऽपीयं पित्रा न दत्ता । तदा क्रुद्धेन तेन युद्धे सुलोचने हते सहस्रनयनो भगिनीमिमामादायात्राऽगात् । त्वां च दृष्टवती सा कामार्ता विषमां दशामापन्ना त्वयाऽवश्यं त्रातव्या" । तदानीमेव च नभसा समागतः सहस्रनयनो नत्वा सगरं निजावासमानीय सुकेशां तस्मै प्रदाय तेन सह गगनवल्लभपुरं ययौ । तत्र च सगरस्तं पैतृके राज्ये निवेश्य
५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वविद्याधराधीशं विधाय स्त्रीरत्नं सुकेशामादाय साकेतं ययौ । तत्र साकेतमुद्दिश्याऽष्टमतपो विधायाऽन्ते पारणं विधाय पदे पदे तोरण-पताकादिसमन्वितां पुरीं प्रविवेश । तत्र गृहाङ्गणगतः सन्निहितान् देवान् नृपादींश्च विसृज्य सान्तःपुरपरीवारो निजं वेश्म प्रविश्य स्नानादि विधाय कृतदेवार्चनो भुक्त्वा सङ्गीतकादिभिविनोदै रेमे । ___अथाऽपरेधुर्देवाद्या उपेत्य सगरमूचुः-"भारतं क्षेत्रं त्वया वशंवदं कृतम् । अधुना युष्माकं चक्रवर्त्तित्वाभिषेकं कर्तुमिच्छामः "| ततस्तदनुज्ञातास्ते पुर्या उत्तरपूर्वतो दिव्यं रत्नमण्डपं विचक्रुः, अभिषेकसामग्रीश्चाऽऽनिन्युः । ततः सान्तःपुरः सस्त्रीरत्नस्तत्र मण्डपे मणिमयं स्नानपीठं प्रदक्षिणीकृत्य पूर्वसोपानमार्गेण तदारुह्य सिंहासनं प्राङ्मुखोऽलञ्चक्रे नृपः । ततो नृपादिषु यथास्थानं निविष्टेषु शुभे लग्ने देवादिभिः सौवर्णादिकलशैरभिषिच्याऽङ्गं प्रमार्ण्य दिव्यमाल्यवस्त्र-रत्ला-ऽलङ्कारादिभिरलङ्कृतो नृपः शक्रेण । ततः स चक्री नगराध्यक्षं समादिक्षत्-"द्वादशवत्सरी यावदिमां पुरीमदण्डशुल्कामभटप्रवेशामकरां महोत्सवां कुरु" | तदाज्ञां च नगराध्यक्षो हस्त्यारूढैनिजैः पुरुषैडिण्डिमिकैः सद्य आघोषयामास। ततश्च यथानृपाशं सा पुरी सर्वत आनन्दपूर्णा जाता ॥४॥ इति द्वितीयपर्वणि सगरदिग्विजय-चक्रवर्तित्वाभिषेक
वर्णनात्मकः चतुर्थः सर्गः ॥४॥
Page #34
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः
अथाऽन्यदा साकेतनगरोद्यानेऽजितजिनः समवसृत्य देवादिषु यथास्थानं निविष्टेषु देशनां विदधे । तदानीं च वैताढ्ये सहस्त्रनयनः पितृवधस्मरणक्रुद्धः पूर्णमेघमवधीत् । ततस्तदात्मजो घनवाहनो नंष्ट्वा शरणेच्छुः समवसरणे समागत्य यथाविधि जिनं प्रणम्योपविष्टवान् । सहस्त्रनयनश्च तद्वधेच्छयाऽनुपदमेव तत्राऽऽगतः, किन्तु प्रभुप्रभावादुपशान्तकोपस्त्यक्तास्त्रः प्रभुं नत्वा यथास्थानमुपविष्टवान् । ततः सगरः प्रभुं तयोर्वैरकारणं पप्रच्छ ।
ततो भगवानुवाच - " पुराऽऽदित्याभे पुरे भावनो नाम द्रव्यकोटीश्वरो वणिग् बभूव । स च स्वपुत्रस्य हरिदासस्याऽखिलं धनमर्पयित्वा वणिज्यायै देशान्तरं जगाम । तत्र द्वादशाब्दानि स्थित्वा प्रचुरं धनमुपार्ण्य परावृत्त्य नगराद् बहिस्तस्थौ । उत्कण्ठितश्च रात्रौ तत्र परिवारं मुक्त्वैकाक्येव निजगृहमाययौ । गृहं प्रविशश्च हरिदासेन चौरबुद्ध्या खड्गप्रहारेण निहतः । भावनश्च स्वघातकं ज्ञात्वा तत्कालजातद्वेषः कालधर्ममुपेयिवान् । हरिदासश्च पितरं ज्ञात्वा पश्चात्तापयुतः प्रेतकार्याणि कृतवान् । कालक्रमेण स विपन्नवांश्च । ततश्च द्वावपि तौ कतिचिद्भवान् दुःखदान् भ्रमतुः । किञ्चित् सुकृतं कृत्वा च भावनजीव: पूर्णमेघो हरिदासजीवश्च सुलोचनोऽभवत् । इत्येवं प्राग्भवसम्बद्धं तयोर्वैरम्" ।
ततः सगरः पुनस्तत्पुत्रयोर्वैरहेतुं सहस्त्रनयने स्वस्नेहं चाऽपृच्छत् । ततः प्रभुः पुनरुवाच - "त्वं प्राग्भवे रम्भको नाम
५ जिप भा-२
५६
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः दानशील: परिव्राडभूः । इमौ च तव शिष्यौ शश्यावलीनामाऽभूताम्। तयोरावलिरतिविनीतत्वात् तव प्रियो द्रविणं दत्त्वा गोधेनुमेकामक्रीणात् । तदा शशी भेदं कृत्वा गोस्वामिनस्तां धेनुं क्रीणाति स्म । ततस्तयोर्दण्डादण्डि युद्धे प्रवृत्ते शशिनाऽऽवलिर्हतः । ततः शशी चिरं भवं भ्रान्त्वा मेघवाहन आवलिश्च सहस्रनयनो जज्ञे । तत् तयोर्वैरकारणम् । रम्भकोऽपि शुभा गतीर्भ्रान्त्वा दानप्रभावेण चक्री त्वमभूः । प्राग्जन्मभवश्च तव सहस्त्रनयने स्नेहः " ।
ततस्तत्र निषण्णो रक्षः पतिर्भीम उत्थाय रभसाऽऽलिङ्गय मेघवाहनमब्रवीत्-“अहं प्राग्भवे पुष्करद्वीपभरतक्षेत्रे वैताढ्ये काञ्चनपुरे विद्युद्दंष्ट्रो नाम नृपोऽभवम् । तत्र च त्वं मम रतिवल्लभो नाम पुत्रोऽभूः । तेन त्वं ममाऽतिप्रियः साधु दृष्टोऽसि, सम्प्रत्यपि त्वं मम पुत्रोऽसि मम सैन्यमन्यदपि च त्वदीयमेव, तत्सर्वं परिगृहाण । लवणोदे योजनानां सप्तशतीं विस्तृते राक्षसद्वीपे त्रिकूटाद्रौ पञ्चशतं योजनानि विस्तीर्णे नवयोजनोन्नते वलयाकारे महर्द्धिके मया लङ्कानाम्नी पुरी सौवर्णप्राकारादिसमन्विता कारिता । प्राक्तनी च भूमध्यं षड् योजनान्यतिक्रम्य स्फटिकप्राकारा, रत्नमयालया, सपादयोजनशतप्रमाणा मम पाताललङ्काऽतिदुर्गमा। तदिदं पुरीद्वयं गृहाण, तन्नृपतिश्च भव" इत्येवमुक्त्वा स राक्षसपतिस्तस्मै नवभिर्माणिक्यैः कृतं महाहारं राक्षसीं विद्यां च ददौ । घनवाहनश्च तदैव राक्षसद्वीपमागत्य तयोर्लङ्कयो राजाऽभूत् । तदादि तस्य वंशो राक्षसवंशतां ययौ । ततो जिनोऽन्यत्र विजहार । सुरादयोऽपि स्वं स्वं स्थानं ययुः ।
इतश्च सगरश्चतुष्षष्टिसहस्त्रस्त्रीभिरन्वितो विषयान् बुभुजे । स्त्रीरत्नभोगाच्च तस्याऽन्तःपुरसम्भोगजा म्लानिर्ननाश । एवं क्रमेण तस्य जनुप्रभृतयः षष्टिसहस्राः सुता जज्ञिरे । ते च धात्रीभिः पाल्यमानाः क्रमशो वर्धमानाः सर्वाः कला जगृहु: यौवनं च प्रापुः ।
Page #35
--------------------------------------------------------------------------
________________
५८
द्वितीयं पर्व-पञ्चमः सर्गः
एकदा च ते कुमाराः सदसि स्थितं चक्रिणं सगरं विज्ञपयामासुः"तातेन सर्वेऽपि मागधेशादयो देवाः साधिताः, षट्खण्डं पृथिवीतलमरिषड्वर्गवत् साधितं, तातस्य चैवं न किमपि कृत्यशेष यदस्माभिः कर्तव्यम् । ततः सकलेऽपि भूतले स्वेच्छाविहारमेवेच्छामः"। ततः स्वीकृतप्रार्थनं नृपं नत्वा निजावासानुपेत्य यात्रामङ्गलसूचकान् दुन्दुभीस्ताडयामासुः । तदानीं च तेषामुत्पातशकुनानि जज्ञिरे-"सूर्यमण्डलं केतुशताकुलमजायत । चन्द्रमण्डलं च सञ्जातमध्यच्छिद्रमदृश्यत । वसुन्धरा चकम्पे । रजोवृष्टयः करकवृष्टयश्च जाताः । वायुः सम्मुख उद्दण्डश्च बभूव । शिवा दक्षिणस्था अशिवा ववाशिरे । उलूकाञ्चुक्रुशुः । चिल्लाश्च नभसि मण्डलीभूय नीचकैर्धेमुः । गन्धगजा अपि निर्मदा जाताः । हेषमाणानां हयानां मुखान्तराद् धूमलेखा निर्ययुः"। ते च तज्ज्ञा अपि भवितव्यतावशात् तान्युत्पातशकुनान्यवाजीगणन् । कृतस्नानादयश्च सर्वसैन्येन सह ते कुमारा: प्रतस्थिरे । तथोद्यानेषु पर्वतेषु सरित्पुलिनादिषु च स्वच्छन्दं रममाणा भ्रमुः । ग्राम-पुरादिषु जिनार्चा व्यधुः । एवं क्रमेण विचरन्तस्ते दर्शनमात्रेण क्षुत्तृषाहरणमष्टापदं
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोपानभूतपदाष्टकविधानेनाऽयमष्टापद इत्युच्यते"। ततोऽस्मत्पूर्वजानामसाविति मुदितास्ते तमारुह्य सिंहनिषद्यां प्रविश्याऽऽदिजिनेश्वरं तथाऽजितस्वामिबिम्बमन्येषामर्हतां च बिम्बानि नमश्चक्रुः । ततो गन्धोदकैः स्नपयित्वा गन्ध-पुष्प-धूप-वस्वादिभिरर्चयित्वाऽष्टमङ्गली लिखित्वाऽऽरात्रिकं विधाय शक्रस्तवेन वन्दित्वा रचिताञ्जलयः स्तुत्वा पुनर्नत्वा च मुदिता: प्रासादाद् निर्गत्य भरतभ्रातृस्तूपांश्च ववन्दिरे ।
ततः किञ्चिद् ध्यात्वा जनुरनुजानुवाच-"अष्टापदसमं स्थानं क्वाऽपि न विद्यते । वयमत्राऽपरं चैत्यं कारयामः । भाविभिलृप्यमानस्याऽमुष्य चैत्यस्य रक्षणमस्माभिविधीयते । यतो दुःषमाकाले प्रवृत्ते नराणामतिदुर्गतत्वाद् नवीनचैत्यकरणाच्चिरन्तनानां धर्मस्थानानां परिरक्षणमधिकम्" । ततोऽनुजैः 'आम्' इत्युक्ते स दण्डरत्नमुपादाय परिखाकृते तेनाऽष्टापदं परितः सानुजः खनितुमारेभे । ते च परितः सहस्रयोजनां परिखां चख्नुः । नागसद्मानि च बभञ्जिरे । तेन च क्षुब्धो नागलोकः । नागाश्चेतस्ततस्त्रेसुः । ततश्च नागपति+लनप्रभः क्रुद्धः सगरकुमारानागत्योचे-"अहो ! किमेतदुपक्रान्तम् ? शाश्वतानामपि भवनाधिपवेश्मनामप्रेक्षापूर्वकारिभिरजितस्वामिनां भ्रातुष्पुत्रैरपि भवद्भिः कोऽयमुपद्रवोऽकारि ?"
ततो जनुरुवाच-"नागराज ! युक्तमुक्तं भवता, किन्तु दण्डपाणिभिरस्माभिर्युष्मद्वेश्मभङ्गोऽस्त्विति बुद्ध्या नेयं मही खाता, प्रत्युताऽष्टापदतीर्थरक्षणाय । युष्मद्वेश्मनां भङ्गो दूरत्वाद् न शङ्कितः। तत्राऽमोघा दण्डशक्तिरेवाऽपराध्यति । यत् कृतं तत् क्षमस्व, अतः परं नेदृशं करिष्यामः" । एवं जनुकुमारेणाऽनुनीतो नागराड् जलैरग्निरिव शशाम । तथा यूयं पुनर्मा स्मैवं कृड्ढ्वमित्यभिधाय स्वं धाम जगाम। ततो जह्नः सोदरानुवाच -"इयं विहिता परिखा
तं दृष्ट्वा ते स्वसचिवान् सुबुद्धिप्रभृतीन् पप्रच्छु:-"अयं को नाम पर्वत: ? केनाऽत्राऽभ्रंलिहं चैत्यं विनिर्मितम् ?" ते मन्त्रिणोऽप्यूचुः-"पुराऽत्र भारते युष्मद्वंशस्थ आदितीर्थकर ऋषभ: प्रभुर्जज्ञे । तत्सूनुर्भरतश्चक्रयभूत् । स एव ऋषभस्वामिनिर्वाणानन्तरं सिंहनिषद्याख्यं चैत्यं कारयामास । तत्र च यथाविधि ऋषभस्वामिनो भाविनामर्हतामपि च बिम्बानि चारणश्रमणैः प्रतिष्ठापयामास । तथा बाहुबल्यादिबन्धूनां बिम्बानि स्तूपान् मूर्तीश्च कृतवान् । तत्र च तेन
Page #36
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-पञ्चमः सर्गः बुद्धि विना देहीव पातालगभीराऽप्यम्भोरिक्ता न शोभते, तत इयं नीरेणाऽवश्य पूरणीया, तच्च गङ्गां विना न कर्तुं पार्यते" । ततः सोदरानुमतो जौँर्दण्डरत्नमादाय गङ्गातटं दारयामास । ततो दण्डदारणमार्गेण चलिता गङ्गा स्वाम्बुवेगेन दण्डकृतमार्ग द्विगुणं कुर्वाणा समुद्रवदष्टापदपरिखां प्राप्य तां पूरयितुं प्रवृत्ता । जनुनाऽऽकृष्टत्वाच्च सा ततः प्रभृति जाह्नवी कथिता । __ अथ सा परिखां पूरयित्वा गङ्गा नागभवनेष्वपि प्रविष्टा । पयोभिः पूर्यमाणेषु वेश्मसु नागाः फूत्कुर्वन्त: प्रतिदिशं त्रेसुः । तेनाऽतिक्रुद्धो नागराडुवाच-"पितृवैभवदुर्मदा: सगरजा न सामयोग्याः, किन्तु रासभा इव दण्डाऱ्या एव । पुरा तस्यैकोऽपराधो मया व्यषह्यत, पुनस्तैरपराद्धम्, अत: शिक्षणीया एवाऽधुनास्ते" । एवमुदीर्य रसातलाद् निर्गत्य नागकुमारैः समं वेगेन तत्राऽऽगत्य स दृष्टिविषेशस्तान् दृष्टयेक्षाञ्चक्रे । तेन च ते वह्निना तृणपूलवद् भस्मराशीबभूवुः । ततस्तान् कथाशेषान् विधाय सनागो नागराजो रसातलं विवेश ।।५।। इति द्वितीयपर्वणि सगरपुत्रनिधनवर्णनात्मकः
पञ्चमः सर्गः ॥५॥
षष्ठः सर्गः अथ चक्रिसैन्ये सैन्यानां महानाक्रन्द उदभूत् । सर्पदष्टा इव केचित् पेतुः । केचित् स्वशिर आस्फालयामासुः । केचिद् वक्ष आजघ्निरे। केऽपि पादान् प्रसार्याऽस्थुः । केचिज्झम्पां दित्सवो भृगूण्यारुरुहुः । केचित् स्वान्युदराणि विदिदीर्षवः क्षुरिका कोशाच्चकृषुः । केचिदात्मानमुबन्धुं तरुशाखायामुत्तरीयाणि बबन्धुः । केऽपि शिरस: केशानत्रोटयन् । केचिच्चिन्ताग्रस्ता हस्तन्यस्तकपोला अस्थुः । केचिच्च परिधानवस्त्राण्यप्यसंवहन्त उन्मत्ता इव भूमौ व्यलुठन् । अन्तःपुरस्त्रीणां च पृथक् पृथग् विलापोऽभूत् । सेनान्यादयश्चाऽपि शोकादिसहितं प्रालपन् । ततो विविधं प्रलप्य भूयो मिथो मिलित्वा धैर्यमालम्ब्य मन्त्रयामासुः"विधिः सर्वेभ्यो बलवान्, तदेभिः प्रलापरलम् । इदानीं वयं न्यासधरा इव हस्त्यश्वाद्यखिलं प्रभोरर्पयामः । ततः परं स्वामी यथोचितं विदधातु"। एवं विचार्य ते सर्वे सर्वमन्तःपुरादिकमादाय दीनवदना अयोध्यां प्रति प्रतस्थिरे ।
ततोऽयोध्यासमीपमेत्य विषण्णास्तत्र स्थित्वोपविश्य मिथो बभाषिरे-"वयं तनयैः सह सत्कृत्य 'भक्ता बहुज्ञा दोष्मन्तः पुराऽपि दृष्टसारा' इत्यादिष्टा राज्ञा विना कुमारान् वदनं कथं दर्शयिष्याम: ? कथं वेदृशं पुत्रवृत्तान्तं कथयिष्याम: ? किं च पुत्रक्षयं श्रुत्वा नृपश्चेद् विपद्येत, तदपि नो मृत्युरग्रेसरः", इति मन्त्रयित्वा ते सर्वे मरणे कृतनिश्चया यावत् तस्थुस्तावदेकः काषायवस्त्रभृद् द्विज आगात् ।
Page #37
--------------------------------------------------------------------------
________________
६२
द्वितीयं पर्व-षष्ठः सर्गः स च हस्तावत्थाप्य जीवातुकल्पया गिरा तानुवाच-"कि यूयमेवमस्वस्थचेतसः स्थ ? विपन्नेषु स्वामिपुत्रेषु विषादेन कृतं, मृत्युः सर्वेषां पारिपाश्विकः । स उपायशतेनाऽपि न निषेधितुं शक्यः, ततो धीरीभवत । युष्माकं प्रभुमपि बोधयिष्यामि"। एवं तानाश्वास्याऽऽदाय च विनीतां ययौ ।
सगरस्य सभाङ्गणं गत्वा चोबाहुरुच्चैः पूच्चकार-"चक्रिन् ! इदमत्याहितमब्रह्मण्यमब्रह्मण्यम् । त्वया रक्षितेऽप्यस्मिन् भरतक्षेत्रेऽहं मुषितोऽस्मि" । तच्छ्रुत्वा चक्रयपि दुःखितो द्वारपालं जगाद-"केनैष मुषित: ? कोऽयम् ? कुतः समागतः ? सर्वमेतद्विज्ञायतां, स्वयं चाऽत्र प्रवेश्यताम् ?" ततो द्वारपालो विप्रं क्षिप्रमुपेत्य पप्रच्छ । स चाऽनाकर्णितकं कुर्वन् तथैव पूच्चकार । ततः स पुनस्तं पप्रच्छ । स्वयमागत्य महीभुजे स्वदुःखकारणं निवेदयेत्युवाच सः । ततः स द्विजो दीनवदनश्चक्रिण: सभां मन्दं प्राविशत् । कृपालुना चक्रिणा स्वयं पृष्टश्चाऽलीकमश्रूणि मुञ्चन् रचिताञ्जलिर्व्याजहार-"त्वयि शासति न कस्याऽपि किमपि दुःखाकरम् । किन्तु मम तपस्विन एव तत् । ___इहाऽवन्त्यां पुर्यामश्वभद्रग्रामे वास्तव्योऽहम् । एकदा पत्न्याः पुत्रमर्पयित्वा विशेषविद्याध्ययनहेतोामान्तरं गतोऽशकुनानि दृष्ट्वा ततो न्यवर्तिषि । समायान्तं मां दृष्ट्वा च ब्राह्मणी 'हा पुत्रे-' त्याक्रन्दन्ती भुवि पतिता । ध्रुवं मे पुत्रो विपन्न इत्यनुमायाऽहमपि गतप्राण इव सद्यो भुव्यपतम् । मूर्छाविराम च गृहमध्ये सर्पदष्टं पुत्रमपश्यम् । भोजनाद्यप्यकृत्वा निशि जाग्रच्चाऽहं कुलदेवतयाऽऽदिष्ट:-"भोः ! किं समुद्विग्नोऽसि ? यदि ममाऽऽदेशं करोषि, तहि ते पुत्रं सम्पादयामि" । ततोऽहं देव्या आदेशः प्रमाणमित्यवोचम् । ततस्तया 'यत्र कोऽपि न विपन्नस्ततो मङ्गलगृहात् सत्वरमग्निमानये'
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्युक्त: प्रत्यहं प्रतिमन्दिरं पृच्छंस्तदलभमानो देवतां तत् सर्वं व्यजिज्ञपम् । तच्छ्रुत्वा देवतयोक्तम्-"यदि न मङ्गलगृहं क्वाऽपि, तदा कथमहं तवाऽमङ्गलं रक्षितुमीश्वरी" ? तया च देवतावाचा प्रवर्त्तितोऽहं त्वां शरणं प्राप्तोऽस्मि। त्वं सर्वसमर्थो मत्कृते कुतोऽपि मङ्गलगृहादग्निमानय । यथा मम पुत्रो जीवेत्" । ____ ततो भवस्वरूपज्ञो नृपतिः किञ्चिद् विचार्याऽब्रवीत्-"ब्राह्मण ! भूमौ मम गृहं सर्वोत्कृष्टम्, अस्मिन्नेवाऽऽदितीर्थकरो भगवान् वृषभस्वामी बभूव । सोऽपि कालतो विपन्न: । अन्ये चाऽपि भरतादयश्चक्रयादयोऽत्रैव कालधर्मेण कालधर्ममुपाययुः । का वार्ताऽन्यगृहेषु ? तन्मङ्गलगृहं कुतः ? नैकस्तव पुत्र एव मृतः, मृत्युर्हि वह्निरिव सर्वभक्षी । कृतान्तश्च बालके स्थविरे वा दरिद्रे चक्रिणि वा समं वर्तत इत्यत: समवर्ती निगद्यते । अयं संसारस्वभावः, यदत्र न कश्चित् स्थिरः। किं चाऽसौ मे माता पिता वेत्यादिः सम्बन्धो भवे न पारमार्थिकः । एकत्र गृहे हि धर्मशालायां पान्था इव कुतोऽप्येत्य केऽपि केऽपि मिलन्ति । स्वकर्मपरिणामतश्च पृथक् पृथक् पथैव यान्ति । ततो मा स्म शोकं कृथाः । धैर्य धेहि, विवेकाद् न प्रमदितव्यम्" ।
ततो ब्राह्मण उवाच-"राजन् ! भवस्वरूपं जानामि, किन्त्वद्य पुत्रशोकतो व्यस्मार्षम् । तावत् सर्वः पण्डितो धीरश्च, यावद् नेष्टवियोगं स्वयमनुभवति । तादृशा धीरा विरलाः । भवताऽहं मुह्यन् साधु बोधितः । किन्त्वात्मकृतेऽपि त्वयैष विवेक उपस्कार्यः। व्यसने समुपस्थिते नश्यन्नयं विवेको रक्षणीयः । कालश्च न कुतोऽपि बिभेति । पुत्रादि यस्याऽल्पं तस्याऽल्पमेव यस्य च भूयिष्ठं तस्य भूयिष्ठं च विपद्यते । पीडा च द्वयोरपि तुल्यैव । अत: परमेकस्य पुत्रस्य नाशेन न शोचिष्यामि । मद्वत् त्वमपि च सर्वपुत्रक्षयेऽपि मा शोची: । कालयोगतस्ते षष्टिसहस्रसङ्ख्यास्तनया युगपद् मृताः" ।
Page #38
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-षष्ठः सर्गः
अत्राऽन्तरे सामन्तादयः उत्तरीयच्छन्नमुखाः खेदेन विवर्णदेहा युगपद् राज्ञः सभामविशन् । नमस्कृत्य च राजानमधोमुखास्तस्थुः । ततस्तां विप्रवाचमाकर्ण्य तांश्च कुमारवर्जमायातान् दृष्ट्वा नृपतिलिखित इव शून्यो निष्पन्दनयनोऽभूत् । ततो विप्रः पुनरुवाच-"राजन् ! त्वं विश्वमोहनाशकस्य ऋषभस्वामिनो वंश्योऽजितप्रभोश्च भ्राताऽसि। त्वया न पृथग्जनेनेव मोहवशंवदेन भवितव्यम्" ।
राजाऽपि दध्यौ-"अयं विप्रः स्वपुत्रमरणव्याजतो मत्पुत्रक्षयनाट्यप्रस्तावनामेव जगौ। अधुना च व्यक्तं मत्पुत्राणां क्षयं वदति । अमी च सामन्तादयः कुमारवर्जमेवाऽऽगताः । तेषां क्षयः कुतः सम्भाव्यते ? महारत्नपरीवारास्ते कथं केनाऽपि निहन्तुं शक्या: ? एवं चिन्तयित्वा किमिदमिति पप्रच्छ। तेऽपि सचिवादयो ज्वलनप्रभवृत्तान्तं शशंसुः। ततः कुलिशेन ताडित इव तेनोदन्तेन भूपतिर्भूमौ मूच्छितः पपात । कुमाराणां मातरश्चाऽपि मूर्च्छया पेतुः । राजवेश्मनि च लोकानां महानाक्रन्दो जातः । मन्त्र्यादयश्चाऽपि सर्वे करुणस्वरं रुरुदुः । विलपन्तं च नृपं विप्रो बोधयितुं पुनरूचे"प्रबोधस्तवाऽन्वये मुख्याधिकारप्राप्तः । अन्यैर्मुधैव बोध्यसे । राजन् ! संसारे पिता-पुत्रादयः स्वप्नदृष्टतुल्याः। त्वं स्वयं तत्त्वविदसि । धैर्यमाधेहि"। नृपश्च तद् विप्रवचनं शृण्वन् पुत्रमृत्युं च मुहुः स्मरन् बोधेन च मोहेन च व्यानशे ।
ततो नृपं बोधयितुं सुबुद्धिर्नाम सचिव उवाच-"राजन् ! त्वादृशा महत्स्वपि व्यसनेषु समुपस्थितेषु मनागपि वैधुर्यं न भजन्ते। विवेकिन: कुटुम्बं क्षणाद् दृष्टनष्टं ज्ञात्वा न कदाऽपि मुह्यन्ति । इहैव जम्बूद्वीपे भरतक्षेत्रे कोऽपि नृपो बभूव । स एकदा सभायां सुखमास्थितो द्वारपालेन निवेदित:-"द्वारि पुष्पमाल्यहस्तः कोऽपि पुरुषः किञ्चिद् विज्ञीप्सुस्तिष्ठति, स चाऽऽकृत्या गुणवान् ज्ञायते"। ततो नृपादेशाद् वेत्रिणा स पुरुष: सभामविशत् । रिक्तहस्तस्य
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वामिदर्शननिषेधात् स भूभुजे सुमनोदाम समर्प्य वेत्रिणा दर्शिते स्थाने आसनायुक्तैर्दत्ते आसने रचिताञ्जलिरुपाविशत् ।
त्वं कोऽसीति नृपेण पृष्टश्च स नमस्कृत्य सादरमवदत्-"ऐन्द्रजालिकोऽहमिन्द्रजालप्रयोगार्थमुपागतोऽस्मि । तथोद्यानवीथिकां, गन्धर्वसङ्गीतमङ्गारभक्षणमदृश्यीभवनं, तप्तायःशलाकाचर्वणं, जलचरादिरूपधारणं, पदार्थाकर्षणं, वर्णान्तराधानमन्यानि चाऽऽश्चर्यभूतानि दृष्ट्वा मम कलाभ्यासं सफलीकुरु" । तच्छ्रुत्वा नृपतिस्तमुवाच-"अहो ! त्वया मूषकार्थं पर्वतखननमिवाऽपविद्यार्थं कियान् श्रमः कृतः ? तवाऽपविद्यामवलोकयतामपि धीभ्रंशो जायते । त्वं याचकोऽसि, अत एवमेव यथेप्सितमर्थं गृहाण" । तच्छ्रुत्वा स गूढरोषमभाषत"योऽस्मि, सोऽस्मि, किन्तु स्वकौशलमदर्शयित्वा कथं किमपि गृह्णामि ? तुभ्यं स्वस्त्यस्तु, अयं च मम नमस्कारोऽस्तु, अहमन्यत्र यास्यामि" । एवमुक्त्वा स उत्थाय नृपेण दीयमानमपि कोपतः परित्यज्य निर्ययौ।
ततोऽन्यदा स एव पुरुषो विप्रवेषमुपादायोपायनकरो वेत्रिणा राज्ञे निवेद्य प्रवेशित: सभामागत्य नृपतेरग्रे आर्यवेदोदितान् मन्त्रान् पठित्वा यथोचितमुपाविशत् । कोऽसीति राज्ञा पृष्टश्च रचिताञ्जलि"नैमित्तिकोऽहं त्रिकालवक्ते"त्युदतरत् । ततो यद् 'अस्मिन् समये भावि, तत् कथये'ति राज्ञा पृष्टः स 'सप्तमे वासरे समुद्रो जगत्प्रलयं प्रापयिष्यती'त्युवाच। तद्वाचा विस्मितेन राज्ञा भ्रूसंज्ञया पृष्टा अन्ये नैमित्तिका ऊचुः-"सूर्यादिग्रहानुमानेन वयं नेदृशं मन्महे। अयं मत्तो वा स्यादन्यो वा, न तु नैमित्तिकः" । ततः स कुपितो नैमित्तिकः प्राह-"राजन ! नेमे शास्त्ररहस्यज्ञाः, यदि मम वचनं तवाऽ श्रद्धेयं, तदा न दूरे सप्तवासरी, तावत् त्वत्पुरुषैधृतोऽहमत्र स्थास्यामि, सप्तमेऽह्नि मद्वचोऽसत्यं चेद् भवेत् तदाऽहं तस्करवत् त्वया निग्राह्यः" ।
Page #39
--------------------------------------------------------------------------
________________
द्वितीयं पर्व - षष्ठः सर्गः
६५
राजा च सप्तमेऽह्नि सत्यासत्यविवेचनं भवितेत्युक्त्वा तं स्वाङ्गरक्षिणां समर्पयामास । नागराश्चोत्सुकाः खिन्नाः सन्देहाक्रान्तश्च बभूवुः । सप्तमेऽहनि सम्प्राप्ते आश्चर्यं दर्शयिष्यामीत्युत्सुको द्विजः कष्टेन षड् दिनान्यत्यवाहयत् । राजाऽप्युत्कण्ठितो मुहुर्गणयन् कथञ्चित् षण्मासानिव षड् दिनान् व्यतीयाय । ततश्चन्द्रशालस्थितो राजा सप्तमेऽहनि तमुवाच - " त्वदीयस्य वचसो जीवितस्य चाऽवधिः सम्पूर्णः । किन्तु तव निग्रहेण किम् ? उन्मत्तस्त्वं, गच्छ" । ततो नृपो-वराक एष मुच्यतामित्यात्मरक्षानुच्चैरादिदेश । तदा विप्र उवाच - " सर्वेषु प्राणिषु कारुण्यं युक्तं, किन्तु नाऽहं करुणापात्रं यावद् मद्वचो नाऽनृतीभवति, मत्प्रतिज्ञापूरणे स्तोकमेवाऽन्तरं, क्षणं प्रतीक्षस्व, क्षणादूर्ध्वं केऽपि न भविष्यन्ति " । एवमुक्त्वा स नैमित्तिकस्तूष्णीं तस्थौ ।
कियत्कालानन्तरं चोच्चकैरव्यक्तो ध्वनिः शुश्रुवे । तदाकर्ण्य सर्वे वनमृगा इवोत्कर्णास्तस्थुः । ततो द्विजो मन्दं हसन् पुनरूचे"राजन् ! अम्भोधेः प्रस्थानसूचकोऽयं ध्वनिः श्रूयताम् । स हि मर्यादामुल्लङ्घ्योर्वी प्लावयन् स्वयं प्रचलितः, प्रेक्ष्यताम् " एवं ब्रुवाणं द्विजं पश्यतो महीपतेर्दूराद् विष्वग्जलमाविर्बभूव । ब्ध विश्वं संहृतम् | हा हेत्याक्रोशिनो दीनाः सर्वे उन्मुखा ददृशुः । ततो राजसदने षष्ठभूमि यावज्जलमग्ने राजा सत्वरमुत्थाय बद्धपरिकर उत्पत्य झम्पां ददौ । स्वं च सिंहासनासीनं विप्रं च तथाविधमवलोक्य सर्वं प्राकार-वन- ग्रामादिकं च तथास्थितं विस्मितः प्रेक्षाञ्चक्रे ।
ततः स मायानैमित्तिकः कट्यामाबध्य मर्दलं स्वपाणिभ्यामास्फालयन् पपाठ - "इन्द्रजालप्रयोगादौ शक्रस्य शम्बरस्य च चरणौ नमामि" । ततो निजसिंहासनासीनो नृपः साश्चर्य: किमेतदिति विप्रं पप्रच्छ । विप्रोऽप्युवाच - "कलाविदां गुणप्रकाशी राजेति पुरा
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामुपस्थितोऽस्मि । इन्द्रजालं मतिभ्रंशकारीति त्वया न्यक्कृतो दीयमानमप्यर्थमनादायाऽहं गतोऽस्मि । गुणिनां श्रमो हि गुणप्रकाशनेन चरितार्थो भवति, न पुनरर्थोपार्जनमात्रेण । अतो मया छलेनाऽपि स्वगुणो ज्ञापितः, मयि प्रसीद । यच्च सदस्या न्यक्कृताः, त्वं च चिरं मोहितः, तत् सहस्व । तत्त्वतो मेऽपराधो नास्ति" । ततो राजा जगाद - " त्वं मा भैषीः । त्वं मे परमोपकार्यसि । मायामिमां दर्शयित्वा त्वया तत्तुल्यं संसारं ज्ञापितोऽस्मि । ततो विप्रं कृतार्थीकृत्य नृपः स्वयं प्रव्रज्यामाददे । तदयं भवोऽस्माभिरिन्द्रजालरूपोऽनूद्यते । त्वं स्वयं सर्वं वेत्सि ।
६६
अथ द्वितीयोऽपि मन्त्र्युवाच - "इहैव भरतक्षेत्रे कस्मिश्चिन्नगरे कोऽपि गुणाकरो नृपोऽजनि । एकदा मायीति नृपतिना निषिद्धसभाप्रवेशः कोऽपि मायिकः कतिचिदहानि नीत्वा रूपपरावर्त्तं विधाय कृपाणपाणि: फलकधरो वारनारीसमन्वितो विहायसा तमेव नृपतिमुपतस्थे”। ततः ‘कोऽसि,' 'केयं', 'केन हेतुनाऽत्राऽऽगमः ?' इति राज्ञा पृष्टः सोऽब्रवीत्-"अहं विद्याधरः, इयं मम प्रिया केनाऽपि छलेनाऽपहृता मया प्रत्यपहृत्य शरणार्थं त्वदन्तिकं समानीताऽस्ति । अयं मत्प्रेयसीरूपो न्यासश्चेत् त्वया स्वीकृतः, सोऽरिर्बलवानपि हत एव ज्ञायताम् " । तच्छ्रुत्वा राजोवाच-“त्वं तं शत्रुमेव दर्शय, येन तं निहन्मि । ततो निर्विशङ्कं भोगान् भुङ्क्ष्व" । ततो मुदितः स पुरुषोऽप्युवाच - " त्वयि न्यासे बिभ्राणे त्वयैव शत्रुर्निहतो मन्ये । ततो मत्प्रार्थनामनुमन्यस्व । एषोऽहमन्तरिक्षेण क्षणाद् गच्छामि” । ततो "जनकधामवद् मद्धानि ते भार्या तिष्ठतु, त्वं स्वैरं व्रजे" ति कथितवति राज्ञि स पुमान् विहायोवद् विहायसोत्पपात । तद्भार्या च स्वपुत्रीतुल्यतया राज्ञा स्वीकृता तत्रैव स्वस्थमानसा तस्थौ ।
Page #40
--------------------------------------------------------------------------
________________
६७
६८
द्वितीयं पर्व-षष्ठः सर्गः
ततस्तत्रैव तिष्ठन् नृपतिर्नभसि जायमानां क्ष्वेडां शुश्राव । ततः पार्षद्यैः सह विस्मित उन्मुखं पश्यन् भुवि पुरत: पतितं भुजदण्डं ददर्श । सा विद्याधरी च तद् दृष्ट्वाऽयं मत्पतेर्भुजदण्ड इति जगाद। ततो भुवि पुनः पतितं पादं दृष्ट्वोदश्रुवदनाया मत्पतेः पाद इति ब्रुवाणाया द्वितीयो भुजः पादश्च भुवि पेततुः । ततो मुण्ड-रुण्डौ हृदयेन समं पतितौ दृष्ट्वा हा हताऽस्मीति वदन्तीं करुणं विलपन्ती पतिमनुगन्तुं पावकं याचमानां च तां राजोवाच-"मुहूर्तं प्रतीक्षस्व, विद्याधरादीनां मायाऽपीदृशी भवितुमर्हति" । तत: पुन: "साक्षादेष मम पतियुद्धे मृत इह पतितश्च दृश्यते । अतः परं च जलधरं विना विद्युत इव ममाऽवस्थानं न युक्तम्, आयुक्तानादिश, मत्कृते इन्धनानि समानायय, अहं पतिशरीरेण सममग्नौ प्रवेक्ष्यामी"ति साग्रहं भाषमाणां तां पुना राजोवाच-"विमृश्य किञ्चित् कर्त्तव्यं, सहसा न मर्त्तव्यम् । कियत्कालं तिष्ठ" ।
ततो"ऽत: परं धारयन् मां त्वं तातो नाऽसीति ज्ञातं, यदि सत्यं तातोऽसि, तर्हि मत्समीहितं कुर्वि"ति कोपाद् भाषमाणां तां "स्वसमीहितं कुरु, नाऽतः परं निरोद्धाऽस्मि, सतीव्रतं पवित्रये"ति राज्ञोक्ता मुदिता नृपादेशादानीते रथे पत्यङ्गानि सत्कृत्याऽऽरोपयामास सा । ततः स्वयमपि भूषितोपविश्य सशोकेन नृपेणाऽन्वीयमाना पौरैः साश्चर्यैर्वीक्ष्यमाणा च सरितं प्राप । पित्रेव नृपेण दत्तं वसु याचकेभ्यो ददती वह्नि त्रिःप्रदक्षिणीकृत्य सतीसत्यापनां कृत्वा पत्युरङ्गः सहैव पौररचितचितान्तः प्रविश्य भस्मसादभवत् । राजा च तस्या निवापादि कृत्वा शोकसमाकुलो निजं धाम जगाम ।
यावत् स्वपरिषदि नृपतिः सशोक आसाञ्चक्रे, तावन्नभस्त: फलका-ऽसिभृत् स पुमानागत्य सर्वैः सविस्मयं वीक्ष्यमाण: पुरोभूयाऽब्रवीत्-"देव ! दिष्ट्या वर्धसे, तव शरणे दारान् न्यस्योत्पतितो
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नभस्तले साटोपं समापतन्तं तं भरतवत् पराक्रमेण षटखण्डमकार्षम् । तच्च न्यासीभूतं कलत्रं त्रायमाणेन त्वयैव कृतम्। सम्प्रति तन्न्यासीकृतं मे कलत्रं समर्पय, स्वां क्रीडाभूमि गमिष्यामि, त्वत्प्रसादाद् निराशङ्कश्च विहरिष्यामि" । ततो युगपल्लज्जा-चिन्तादिभिराक्रान्तो नृपस्तमुवाच"सा त्वया पातितानि तान्यङ्गानि तवेतिकृत्वा पुत्रीप्रेम्णा वार्यमाणाऽपि तैरङ्गैः सह चितां प्रविष्टा, सम्प्रति च संशयेनाऽज्ञानमुद्रितमुखा वयं किमिह ब्रूमहे ?" तेन च कुपितेन तेन परुषं भाषमाणेन "प्रियां मे देही"ति याचितो नृपः पुन:-तवाऽङ्गान्युपलक्ष्य सा पौरादिसमक्ष चितां प्रविष्टवती, तत्र न संशयः । तस्मात् परुषं मा वद । एषु कमपि साक्षिणं प्रमाणीकुर्वि"त्युक्तवान् ।
"सति प्रत्यक्षे प्रमाणे न प्रमाणान्तरप्रयोजनं, तव पश्चादियं का स्थिता ? तत् प्रेक्ष्यता"मिति तेनोक्तो नृपो वलितग्रीवस्तां तत्प्रियां दृष्ट्वा पारदारिकदोषशङ्कया महती ग्लानि प्रपेदे । ततस्तं ग्लानं निर्दोषं नृपं बद्धाञ्जलि: स पुमानुवाच-"कपटनाटकं कृत्वा रूपं परावर्त्य मया त्वया निषिद्धेन मायां दर्शितोऽसि । कृतार्थोऽस्मि, मयि प्रसीद । व्रजिष्यामि, समादिश"। ततस्तं भूयिष्ठेरथैः कृतार्थीकृत्य विसृज्य किञ्चिच्चिन्तयित्वाऽब्रवीत्-"मायाप्रयोगवत् संसारः, अस्मिन् सर्वं वस्तु बुबुदवद् दृष्टनष्टम्" । ततो नृपो भववासतो विरक्तो राज्यमुत्सृज्य प्रव्रज्यां जग्राह । तदत्र शोकविवशो मा भूः, स्वार्थसिद्धये यतस्व" ।
ततो भवनिविण्णश्चक्री सगर उदाजहार-"युष्माभिविवेकि भिर्युक्तमुक्तम्। स्वकर्मणा जन्तूनां जन्म-मरणादयः । तस्मात् प्रव्रज्याद्वाराय स्वार्थाय यतामहे"।
एवमाभाषमाणे नृपेऽष्टापदाभ्यर्णजनपदवासिनस्त्रायस्व त्रायस्वेति पूत्कारकारिणो वेत्रिणा प्रवेशिता नमस्कृत्य सम्भूय व्यजिज्ञपन्
Page #41
--------------------------------------------------------------------------
________________
द्वितीयं पर्व-षष्ठः सर्गः "देव ! अष्टापदाद्रिपूरणाय दण्डरत्नेन तव पुत्रैराकृष्टा सरित् क्षणेन तां पूरयित्वा कुलटा कुलद्वयमिव कूलद्वयमतिक्रम्य ग्राम-पुरादिकमाप्लावयितुमारब्धा । तदादिश, वयं कुत्र निरुपद्रवास्तिष्ठाम: ?" ततश्चक्रिणा सगरेण "तां सरितं दण्डेन समाकृष्य पूर्वपयोनिधौ क्षिप। पयो ह्यदर्शितपथमन्धवदुत्पथे याति । आपदास्पदं विद्याबल-कुलैश्वर्यादपि दर्प मा कृथाः । यथापात्रं विनीतैर्भवितव्यम् । सुरादीनां च यथाक्षेत्रमुपचारः कार्य" इत्युपदिष्टो निजपौत्रो भगीरथः । ततस्स: तत्प्रतिपद्य नृपार्पितदण्डरत्नमुपादाय नृपं प्रणम्य निर्गत्य सैन्यैर्जनपदैश्च परिवृतो मन्दाकिन्या वलयितमष्टापदाद्रिमाससाद । ___ ज्वलनप्रभकुमारमुद्दिश्य कृतेनाऽष्टमतपसोपस्थितं प्रसन्नं तं गन्धादिभिः पूजयित्वा "त्वदाज्ञया जनपदोपद्रवकारिणीमिमां मन्दाकिनी दण्डेनाऽऽकृष्य पूर्वाब्धौ क्षिपामी"ति सम्प्रार्थितो भगीरथः । तदा ज्वलनप्रभो "निजसमीहितं कुर्याः, तवाऽविघ्नमस्तु, नागेभ्यो मा भैषी"रित्युक्तवान् । रसातलं गते नागेन्द्रे पारणं विधाय दण्डरलमादाय मन्दाकिनीमाकृष्य कुरुमध्यादितो नीत्वा पूर्वाब्धि प्रापयत् भगीरथः । ततः प्रभृति तत् तीर्थं गङ्गासागर इति प्रसिद्धम्। भगीरथेन कृष्टेति गङ्गा भागीरथीति ख्याता । यत्र च गङ्गाप्रवाहेण नागभवनानि भग्नानि, तत्र तत्र भगीरथो नागेभ्यो बलि ददौ । तेन प्रवाहेण च सगरपुत्राणां शरीरास्थीनि पूर्वाब्धि निन्यिरे । ततो भगीरथो दध्यौ-"साधु जातमिदं, यद् गङ्गया पित्रस्थीनि पयोनिधिमीयुः" । एवं चिन्तयंश्च स लोकैलॊकम्पृणोऽसीति पुनः पुनः प्रशशंसे । भगीरथेन पितॄणामस्थीनि जले क्षिप्तानीत्यद्यापि लोकस्तत् क्षिपति ।
ततः परावृत्तो रथारूढो भगीरथः पथि केवलज्ञानिनं मुनि दृष्ट्वा स्यन्दनादवतीर्य नत्वा पुरः स्थित्वा पप्रच्छ-"मम पितरो
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युगपत् केन कर्मणाऽम्रियन्त ?" ततस्त्रिकालज्ञो भगवानुवाच-"पुरा तीर्थयात्राकृते एकः सङ्घश्चचाल । सायमेकं प्रत्यन्तग्राममासाद्य निशायामुपकुम्भकारगृहमध्युवास च । समृद्धं तं सङ्कं दृष्ट्वा हृष्टो ग्रामजनस्तल्लुण्टनाय दण्डाद्यादाय समुपस्थितः । कुम्भकारेण चाटुवचनैः प्रबोध्य निवारितस्तं सङ्घममुचत् ।।
तत एकदा स ग्राम: सबालवृद्धस्तद्वास्तव्यदस्युदोषाद् महीभुजा दाहितः । स कुम्भकारश्च मित्रेणाऽऽमन्त्रितो ग्रामान्तरं गतो दाहादवशिष्टोऽभूत् । स कालयोगेन विपद्य विराटदेशे वणिगभूत् । ग्रामजनश्च मृत्वा तत्रैव जानपदो जज्ञे। कुम्भकारजीवश्च मृत्वा तत्र नृपोऽभूत् । ततोऽपि कालेन मृत्वा परमद्धिको देवोऽभूत् । देवसदनाच्च च्युत्वा त्वं भगीरथोऽसि । ग्राम्याश्च भवं भ्रान्त्वा जनुप्रभृतयोऽभूवन् । मनसिकृतेन सङ्घोपद्रवरूपेण कर्मणा च भस्मसादभवन् । यत्र ज्वलनप्रभो निमित्तम् । तन्निवारणरूपेण शुभकर्मणा च त्वं तस्मिन्निवाऽत्राऽपि भवे न दग्धोऽसि"। तदाकर्ण्य विवेकी भगीरथः परं संसारनिर्वेदमाप्तवान्। किन्तु पितामहस्य दुःखं मा भूदिति स तदैव न प्रावाजीत् । तत: केवलज्ञानिनः पादौ वन्दित्वा रथमारुह्य स भगीरथः साकेतनगरं ययौ ।
तत्र चाऽऽज्ञां परिपाल्य समागतं प्रणमन्तं भगीरथं पितामहः सगरो मुहुः शिरस्याघ्राय पाणिना पृष्ठे स्पृष्ट्वा च स्नेहगौरवादवोचत-"बालोऽपि त्वं स्थविराणामग्रणीरसि, नो राज्यभारं गृहाण । येन निर्भारो भूत्वा संसारसागरं तरामि । मत्पूर्वैस्तीर्णः स संसार इति ममाऽपि तत्र श्रद्धाऽस्ति । वत्स ! ततो महीं पाल्यतां ध्रियतां च"। ततो भगीरथो नत्वोचे-"प्रव्रज्यामादित्सते तातस्तद्युक्तम् । किन्त्वयमपि जनस्तदुत्सुकः" । ततः सगर उवाच-"अस्मत्कले व्रतं युक्तम् । ततोऽपि गुर्वाज्ञापालनव्रतमभ्यधिकम्। अत: स्वापत्ये
Page #42
--------------------------------------------------------------------------
________________
द्वितीय पर्व-षष्ठः सर्गः
७१ कवचहरे महीं निधाय समये परिव्रज्यां गृह्णीयाः" । तच्छ्रुत्वा भगीरथो गुर्वाज्ञाभङ्गभिया मौन्यस्थात् । सगरश्च तं भगीरथं सिंहासने समुपवेश्य परया मुदा राज्येऽभ्यषिञ्चत् ।
तदानीमुद्यानपालका अभ्येत्य चक्रिणे बाह्योद्याने समवसृतमजितप्रभुं शशंसुः । तदा पौत्रराज्याभिषेकेणाऽजितस्वाम्यागमनेन च चक्रिणो यथोत्तरं हर्षोत्कर्षोऽजनि । स चोत्थाय जगत्पति नत्वा शक्रस्तवैर्वन्दित्वा स्वाम्यागमनशंसिभ्योऽर्धत्रयोदशसुवर्णकोटीर्ददौ । सामन्तादिपरिवृतश्चक्री भगीरथेन समं समवसरणमागत्योत्तरद्वारेण प्रविश्य धर्मचक्रिणं त्रि: प्रदक्षिणीकृत्य नत्वा पुरोभूय स्तुत्वा यथास्थानमुपविश्य धर्मदेशनां सोऽश्रौषीद् । ततः पुनः प्रभुं नत्वा बद्धाञ्जलि:-'प्रसीद, मे दीक्षां देही'त्युक्त्वा स्थितो दीक्षार्थं भगवताऽनुज्ञातः। ततो भगीरथ उत्थाय भगवन्तं प्रणम्य निष्क्रमणोत्सवानन्तरं ताताय दीक्षां देयेति सम्प्रार्थ्य तदनुज्ञातो जगद्गुरुं प्रणम्य सगरेण सह नगरी गत्वा सिंहासनासीनस्य सगरस्य दीक्षाभिषेकं कृतवान् ।
तत्र सगरं गन्धकाषाय्योन्मृज्य, गोशीर्षचन्दनैरुपलिप्य, दिव्यवाससी परिधाप्य, देवोपनीतैर्दिव्यालङ्करणैरलङ्कृतवान् । सगरश्चाऽथिभ्यो यथाकाममर्थं प्रदाय सच्छत्रचामर: शिबिकामारुह्य तोरणादिभिरलङ्कृते नगरे पौरादिभिः कृतानेकमङ्गलो जनैरन्वीयमानो जिनसमीपमागात् । तत्र जिनं प्रदक्षिणीकृत्य प्रणम्य च भगीरथोपनीतं यतिवेषमुपादाय सङ्घसमक्षं स्वामिवाचनया सामायिकं पठन् चतुर्यामां दीक्षामाददे । नृप-सामन्त-मन्त्रिणश्च भवोद्विग्नाः सगरेण समं प्रवव्रजुः । तीर्थकृच्च तस्य चक्रिमुनेरनुशिष्टिमयीं धर्मदेशनां विधाय
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रथमपौरुष्यां पूर्णायामुत्थाय देवच्छन्दमलञ्चक्रे । ततो गणधरः स्वामिपादपीठमध्यास्य द्वितीयस्यां पौरुष्यां पूर्णायां देशनां समापयामास। तत: प्रभुस्तत: स्थानादन्यत्र विहत्तुं प्राचलत् । भगीरथाद्याश्च निजं निजं स्थानं ययुः ।
अथ स्वामिना सार्धं विहरन् सगरो द्वादशाङ्गान्यध्येष्ट । चारित्रमातृका: पञ्चसमितीस्तिस्रो गुप्तीश्च सम्यगाराधयामास । स्वामिशुश्रूषामग्नश्च परीषहक्लेशं न विवेद । संयतेषु सदा विनयं चक्रे । एवं क्रमेण घातिकर्मक्षयात् तस्य केवलमुत्पन्नम् ।
केवलोत्पत्तेरारभ्यो| विहरतोऽजितस्वामिनः परीवारे पञ्चनवतिर्गणभृतः, मुनीनां लक्षं, साध्वीनां त्रिंशत्सहस्रयुग्लक्षत्रयं, पूर्विणां सप्तत्रिंशच्छतानि, सार्धचतुःशता द्वादश मनःपर्ययिसहस्राः, अवधिभाजां चतुर्णवतिशती, उत्पन्नकेवलानां द्वाविंशतिसहस्री, वादलब्धिमतां सचतुःशता द्वादशसहस्राः, सचतुःशता विंशतिर्वैक्रियलब्धिमत्सहस्राः, श्रावकाणां सहस्रद्वयोना त्रिलक्षी, श्राविकाणां पञ्चचत्वारिंशत्सहस्राधिका पञ्चलक्षी चाऽभवन् ।
ततो दीक्षाकल्याणकादेकाङ्गोने पूर्वलक्षे गते निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं गतः प्रभुस्तमधिरुह्य द्वासप्ततिपूर्वलक्षसङ्ख्यायुः श्रमणानां सहस्रेण समं पादपोपगमं नामाऽनशनं प्रत्यपद्यत । तत आसनकम्पतोऽवधि प्रयुज्य ज्ञातप्रभुनिर्वाणसमया इन्द्राः सम्मेतगिरिमुपेत्य प्रभुं प्रदक्षिणीकृत्ये शुश्रूषमाणास्तस्थुः । ___ तत: पादपोपगमस्य मासे पूर्णे चैत्रस्य शुक्लपञ्चम्यां मृगशिरःस्थिते चन्द्रे बादरे काययोगे पर्यङ्कस्थो बादरौ चित्त-वाग्योगौ निरुध्य सूक्ष्मेण काययोगेन बादरं काययोगं रुध्वा सूक्ष्मे काययोगे स्थितः सूक्ष्मौ वाक्-चित्तयोगी निरुरोध । सूक्ष्मक्रियं ध्यानं प्रपद्य चतुर्थे
६ शिष.भा-२
Page #43
--------------------------------------------------------------------------
________________
द्वितीयं पर्व - षष्ठः सर्गः
७३
शुक्लध्याने पञ्चलघ्वक्षरोच्चारमात्रकालं शैलेशीकरणं समाश्रित्य क्षीणावशिष्टकर्मा सिद्धानन्तचतुष्टय ऋजुना पथा लोकाग्रं प्राप । तेऽपि पादपोपगमस्थिताः सहस्रं मुनय उत्पन्नकेवला रुद्धयोगाः शिवं ययुः । महामुनिः सगरोऽपि च समुद्घातं कृत्वा स्वामिप्राप्तं पदं प्राप । स्वामिनिर्वाणाच्च नारकाणामपि क्षणं सुखमजायत ।
जगत्पतेरजितस्य कौमारेऽष्टादश पूर्वलक्षी, राज्ये पूर्वाङ्गसंयुतास्त्रिपञ्चाशत्पूर्वलक्षा:, व्रते छद्मस्थभावे द्वादशाब्दी, केवले च द्वादशाब्द्या पूर्वाङ्गेण च वर्जितं पूर्वलक्षमगात् । ततश्चर्षभनिर्वाणात् सागराणां पञ्चाशत्कोटिलक्षेषु गतेष्वजितप्रभोर्निर्वाणमभूत् ।
अथ शक्रः स्वामिनोऽङ्गं दिव्यैर्जलैः स्नपयित्वा गोशीर्षचन्दनरसैरनुलिप्य विचित्रैर्भूषणैर्भूषितवान् । मुन्यन्तराङ्गाणां च देवाः स्नानादि कारयामासुः । ततः स्वामिदेहं दिव्यशिबिकामारोप्य पुरन्दरः अन्यमुन्यङ्गानि च देवाः शिबिकामारोप्य गोशीर्षचन्दनरचितां चितां निन्युः । ततोऽग्निकुमाराश्चितान्तरग्निं चक्रुः । वायुकुमाराच तमज्वालयन् । शक्रादेशेन च देवा: कर्पूरादीन् घृतकुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः । अस्थीनि विमुच्य स्वामिनोऽन्यधातुषु दग्धेषु मेघकुमारश्चितावह्निं व्यध्यापयन् । ततः शक्रेशानौ दक्षिण-दक्षिणेतरे स्वामिदंष्ट्रे ऊर्ध्वस्थे, चमर-बली अधः स्थितं, अपराँश्चऽपरे इन्द्रा जगृहु: । अन्ये देवाश्च कीकसानि विभज्य जगृहुः । ततस्तत्रत्यं सर्वं विधेयं विधाय नन्दीश्वरं समधिगम्य शाश्वतार्हदष्टाह्निकां कृत्वा निजनिजसदनं गत्वा शक्रा मध्येसुधर्मं माणवकाभिधेषु स्तम्भेषु वज्रमयवृत्तसमुद्गकान्तर्विन्यस्य ता जिनदंष्ट्रा दधिरे । ताश्च दंष्ट्राः सततं गन्धादिभिः पूजयन्ति । तत्प्रभावाच्च तेषां विजयमङ्गलमव्याहतं
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
७४
जायते । तदेवं सगरचक्रिचरित्रगर्भमजितनाथचरितं श्रोतृसामाजिकानामैहिकामुष्मिकाणि सुखानि प्रवितरतु ॥ ६ ॥
इति द्वितीयपर्वणि अजितस्वामि-सगरदीक्षा- निर्वाणवर्णनात्मकः षष्ठः सर्गः ॥६॥
इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज- राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार
समयज्ञ - शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि- प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ - कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे द्वितीयपर्वणि
समाप्तम् अजितस्वामि सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्व ॥ २ ॥
Page #44
--------------------------------------------------------------------------
________________
॥ अर्हम् ॥
॥ श्रीनेमि-विज्ञान-कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ।।
त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः
श्रीसम्भवजिनादि - शीतलजिनपर्यन्त-जिनाष्टकचरितप्रतिबद्धं तृतीयं पर्व
प्रथमः सर्गः
जितारिसम्भवं नौमि जितारिं सम्भवं जिनम् । सेनाजातं विना सेनां नित्याऽनित्यविवेकदम् ॥१॥
अथ धातकीखण्डे ऐरावतक्षेत्रे क्षेमपुर्यां पुर्यां विपुलवाहनो नाम नृपो बभूव । स च प्रजापालको नीतिज्ञ उपायचतुष्टयप्र गुणपूजको निरभिमानः सर्वज्ञभक्तो देव - गुरुसेवकञ्श्चाऽऽसीत् । तथा सदा स्वाध्यायनिरतो द्वादशविध श्रावकधर्मपरिपालकः सप्तक्षेत्र्यां द्रविणप्रयोक्ताऽर्थिकामदः शत्रून्मूलकश्च बभूव ।
तस्मिंश्च महीनाथे शासति भवितव्यतावशाद् महादुर्भिक्षमभवत् । तस्मिन् कल्पान्तकल्पे दुष्काले चतुर्विधं सङ्घ क्षीयमाणं प्रेक्ष्य नृपो दध्यौ - "मयेयं सकला धरित्री त्रातव्या । परं किं करोमि ? कालो न स्ववश: । तथाऽपि सङ्घस्त्रातव्य एव" । एवं चिन्तयित्वा स सूदान् समादिशत्-"अतः परं सङ्घभुक्तावशेषमहं भोक्ष्ये । मत्कृते कृतमन्नादि व्रतिनां दातव्यम् । श्रावकाश्च पृथक् सिद्धौदनेन
त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः भोजयितव्याः” । तथेति प्रतिपद्य ते सूदास्तथैव नित्यं विदधुः । राजा च स्वयं तदैक्षिष्ट । तथा स्वयमेषणीयकल्पनीयप्रासुकानि महामुनीनां ददौ । एवं स महामना यावद् दुर्भिक्षकालं सकलसङ्घाय यथाविधि भोजनादि ददौ। तेन सर्वसङ्घस्य वैयावृत्त्यं समाधिं च कुर्वता नृपेण तीर्थकृन्नामकर्मोपार्जितम् ।
अथैकदा स चन्द्रशालान्तर्निषण्णो नभसि समन्तादुन्नतं वारिदं दृष्टवान् । स च वारिदः समुत्थितेन महता समीरणेनाऽर्कतूलमिवोद्भूय दिशो दिशमनीयत । एवं क्षणाद् दृष्टनष्टं मेघं प्रेक्ष्य सोऽचिन्तयत्“संसारेऽन्यदपि मेघवत् क्षणाद् दृष्टनष्टम् । लोका हि यथाकाममाचरन्तो गृहे वा बहिर्वा कालवशगेन सर्पेण दश्यन्ते, विद्युता निपात्यन्ते, मतङ्गजेन पिष्यन्ते, जीर्णप्राकारादिभित्त्या वा विनिपत्य संचूर्ण्यन्ते, व्याघ्रादिभिर्भक्ष्यन्ते, दुश्चिकित्स्येन दोषेण गृह्यन्ते, तुरगादिना वा पात्यन्ते, चौरादिना वा क्षुरिकादिना हन्यन्ते वह्निना दह्यन्ते, नदीपूरादिवेगेन कृष्यन्ते, वातदोषेण सर्वाङ्गं भज्यन्ते, श्लेष्मणाss श्लिष्यन्ते, पित्तदोषेण विलुप्यन्ते, सन्निपातेन परिभूयन्ते, लूतया भक्ष्यन्ते, अन्येन च विविधेन रोगेण कदर्थ्यन्ते । एवं सदा सन्निहितैः कृतान्तस्य दूतैरिव दोषैरनेकशो जन्तवः पञ्चत्वमाप्यन्ते ।
एवं सत्यपि मन्दमतिर्लोकः शाश्वतम्मन्यो जीविततरोः फलं ग्रहीतुं न प्रवर्त्तते । पिता पुत्रादिकं पाल्यं जनं च निरन्तरं चिन्तयति, अतृप्तश्च कामेष्वन्तकाले पश्चात्तापं करोति । धर्मो मया न चक्रे इत्येवं मनागपि नाऽनुशेते । आधि-व्याधि-राग-द्वेषादिषु सदोद्यतेष्विह न किञ्चन सुखाय । आः ! तथाऽपि प्राणी न विरज्यति । सुखाभासविमूढस्य तस्य कालपाश आशु पतति । तस्मात् सिद्धान्नस्य भोजनमिवाऽमुष्य नश्वरस्य शरीरस्य फलं धर्माचरणम् । तदद्याऽनेन शरीरेण निर्वाणसम्पदं क्रेतुमेषोऽहमुत्थास्ये, राज्यं चाऽऽत्मजे निधास्ये" ।
७६
Page #45
--------------------------------------------------------------------------
________________
तृतीयं पर्व - प्रथमः सर्गः
७७
एवं निश्चित्य स नृपो द्वारपालेन विमलकीर्ति नाम सुतमाजूहवत् । ततः स कुमारो भक्त्या नत्वा बद्धाञ्जलिरवदत्-"प्रसीद, महताऽपि निदेशेन मामनुगृहाण । असौ बाल इति शङ्कां मा कृथाः । युष्माकं यत् किञ्चन शल्यायते, तत् सर्वमहमुत्खनामि" । ततो राजोवाच" वत्स ! एको भववास एव ममाऽनिशं शल्यायते, तद्धराभारमुद्धर, यथाऽऽत्तदीक्षोऽहं भववासं त्यजामि । ततस्तथाऽस्त्विति तेनोक्ते नृपः स्वपाणिना तमादाय सराज्याभिषेकमहोत्सवं राज्ये निदधे । राजाऽपि च विमलकीर्तिना कृतदीक्षाभिषेकोऽधिरुह्य शिबिकां स्वयंप्रभं नाम सूरिमुपेत्य सर्वसावद्यप्रत्याख्यानपुरस्सरं प्राव्राजीत् । तथा विधिवत् परिव्रज्यां प्रतिपाल्याऽऽयुः क्षपयित्वा विहितानशनो मृत्वाऽऽनतं कल्पं प्रापत् ।
इतश्च जम्बूद्वीपेऽपाग्भरतार्धे श्रावस्त्यां नगर्यामिक्ष्वाकुवंशे यथार्थनामा जितारिर्नृपो बभूव । तस्य च रूपसम्पदाऽनुरूपा सेनादेवी महिषी बभूव । तया च सह स इतरपुरुषार्थाबाधया रोहिण्या चन्द्र इव यथासुखमरंस्त । तदानीं विपुलवाहनजीवो निजमायुः पूरयित्वाऽऽनताच्च्युत्वा फाल्गुनस्य सिताष्टम्यां मृगशिरः स्थिते चन्द्रे सेनादेवीकुक्षाववातरत् । तदानीं च क्षणं नारकाणामपि सुखं त्रैलोक्ये महानुद्योतश्चाऽभवत् । रात्रिशेषे शयानया सेनादेव्या च मुखे प्रविशन्तश्चतुर्दशमहास्वप्ना ददृशिरे । ततः प्रबुद्धया देव्या तदाऽख्य नृप" स्त्रैलोक्यवन्द्यस्ते पुत्रो नूनं भविते - "त्याख्यत् ।
इन्द्राश्चाऽऽसनकम्पेन ज्ञात्वोपेत्य च सेनादेवीं नमस्कृत्य 'स्वामिनि ! एतस्यामवसर्पिण्यां तृतीयस्तीर्थकरस्तव पुत्रो भविष्यती 'ति स्वप्नार्थमाहुः । सा च तेन मुदिता जाग्रत्येव निशाशेषमनैषीत् । अरणिरग्निमिव च महासारं गर्भं बभार । ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च मार्गशुक्लचतुर्दश्यां मृगशिरःस्थे चन्द्रे प्राची
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः सूर्यमिवाऽश्वलाञ्छनं सुतं सुखं सुषुवे । तदानीं च सर्वत्र सुखमुद्योतश्चाऽभवत् । ग्रहाः स्वोच्चं स्थानं ययुः । दिशः प्रसेदुः वायुः सुखं ववौ, गन्धाम्बुवृष्टिरभवत् दिवि दुन्दुभिर्दध्वान ।
७८
अथाऽधोलोकतो भोगङ्कराद्या अष्टौ दिक्कुमारिका, ऊर्ध्वलोक्श्च मेघङ्कराद्या अष्टौ, प्राग्रुचकाच्च नन्दोत्तरादयोऽष्टौ अपाग्रुचकात् समहारादयोऽष्टौ प्रत्यग्रुचकादिलादयोऽष्टौ उदग्रुचकादलम्बुसाद्या अष्टौ विदिचकतश्चित्राद्याश्चतस्रः, रुचकमध्यतश्च रूपाद्याश्चतस्त्रश्च दिक्कुमार्यो यथाक्रमं समेत्य नालच्छेदादिनोपचर्य प्रथमतीर्थकरवत्सूतिगृहेऽर्हन्तं तन्मातरं च शय्यायामवस्थाप्य मङ्गलानि गायन्त्योऽवतस्थिरे ।
शक्रश्चाऽऽसनकम्पतो ज्ञात्वा विहितयथोचितोपचार: पालकं विमानमधिरुह्य नन्दीश्वरेण तीर्थकृगृहमाययौ । अवस्वापनिकादिविधिपूर्वकं स्वामिनं गृहीत्वा मेरुमागत्याऽतिपाण्डुकम्बलायां शिलायामाभियोगिकैः सामग्र्यां समानीतायां प्रथमतीर्थकरवद् यथाविधि यथोचितमागतैरन्यैश्चेन्द्रादिभिः सह स्वामिनः स्नात्रं विधाय सोऽस्तवीत् । यथाविधि स्वामिनं वस्त्रा - ऽलङ्कारादिभूषितं सेनादेव्याः पार्श्वे मुक्त्वाऽवस्वापनिकादि संहृत्य यथापूर्वं प्रभो रक्षाघोषणादि कृत्वा धात्रीकर्मार्थं पञ्चाऽप्सरसो धात्रीः समादिश्य नन्दीश्वरमुपेत्य शाश्वत्प्रतिमाष्टाह्निकोत्सवं विधाय सर्वैः सह निजं स्थानं जगाम ।
प्रातश्च जितारिणा पुत्रत्वमापन्नस्याऽर्हतो जन्मोत्सवश्चक्रे । तस्मिन् गर्भस्थे सर्वत्र शमभवदिति तस्य प्रभोः 'शम्भवः' 'सम्भव'श्चेति नाम चक्रे । प्रभुश्च पञ्चभिर्धात्रीभिर्लाल्यमानः, पित्रा पाल्यमानो बालक्रीडया परिजनान् प्रमोदं कुर्वन् चन्द्रमाः प्रदोषमिव शैशवमलङ्घयत् । चतुर्धन्वशतोत्तुङ्गः, स्वर्णवर्णो, निसर्गसर्वाङ्गसुभगः, शरदा पार्वणचन्द्रवद् यौवनेनाऽधिकं शोभमानः पित्रोराज्ञया समहोत्सवं
Page #46
--------------------------------------------------------------------------
________________
८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नत्वा कृताञ्जलयोर्भक्त्या स्तुत्वा च प्रभुं स्मरन्तो निजनिजस्थान जग्मुः ।
तृतीयं पर्व-प्रथमः सर्गः
७९ नृपकन्या: परिणीयोद्यानादिषु ताभिः करिणीभिः करीव रेमे । एवं प्रभुः कौमारे पञ्चदश पूर्वलक्षाणि गमयामास ।
अथ जितारिर्भवनिविण्णः सम्भवस्वामिनं राज्ये निधाय परिव्रज्यामादाय स्वार्थमसाधयत् । सम्भवस्वामी च राज्यमादाय पृथिवीं पुष्पदामवद् ररक्ष । राज्ये च तत्प्रभावात् प्रजाः सुखिन्योऽभवन् । राज्यं शासतश्च तस्य पूर्वाङ्गचतुष्टयसहिता चतुश्चत्वारिंशत्पूर्वलक्षी व्यतिक्रान्ता । तदानीं च ज्ञानत्रयधरो भगवान् भवस्वरूपं दध्यौ"संसारे सविषभोज्यवदापातमधुरं परिणामेऽनर्थदं विषयास्वादसुखम् । मूढैः पादशौचेन सुधारस इव दुर्लभं प्राप्तं मानुषत्वं विषयसेवया मुधा निर्गम्यते"।
तदानीमेव चाऽऽगत्य लोकान्तिकैर्देवैः "स्वामिन् ! तीर्थ प्रवर्त्तये"ति विज्ञप्तस्तेषु गतेषु दीक्षादानोत्सवोत्सुकः सांवत्सरिकदानं दातुमारेभे स्वामी । जृम्भकदेवैश्च स्वर्णादिष्वानीतेषु साष्टलक्षां स्वर्णकोटीं ददानो वत्सरेण कोटिशतत्रयमष्टाशीतिकोटीर्लक्षाशीतिश्च स्वर्णस्य दत्तवान् । अन्ते च वासवरेत्य यथोपचारं यथाविधि च सम्भवस्वामिनो दीक्षाकल्याणकस्नानं विदधे । नरेन्द्राद्यैरपि च तस्य पवित्रैरम्बुभिः स्नात्रं विदधे । ततो वस्त्र-भूषणाद्यलङ्कृतो भगवानाभियोगिकैविकृतायां सिद्धार्थाख्यायां शिबिकायामिन्द्रदत्तहस्तोऽधिरुह्य सुरा-ऽसुरादिभिरन्वीयमानः श्रावस्तीमध्यतः सहस्राम्रवणं प्राप । शिबिकात उत्तीर्य माल्या-ऽलङ्करणादिकं परित्यज्य मार्गशीर्षपूर्णिमायां मृगशिरःस्थे चन्द्रे दिवसस्य पश्चिमे भागे कृतषष्ठतपा मूर्ध्नः पञ्चभिर्मुष्टिभिः पूर्वाजितान् क्लेशानिव केशानुत्पाटयामास । शक्रश्च तान् केशान् स्वकीयवसनाञ्चल आदाय क्षीरोदेऽक्षिपत् । प्रभुश्च देवादिपर्षत्समक्षं 'सर्वसावद्ययोगं प्रत्याख्यामी'त्युदीरयन् चारित्रं शिश्रिये । तदैव च प्रभोश्चतुर्थं मनःपर्यायज्ञानमुत्पेदे । भगवता सह सहस्रं पृथिवीभुजोऽपि तृणवद् राज्यमुत्सृज्य स्वयं दीक्षामाददिरे। ततः शक्रादयो भगवन्तं
द्वितीयदिने च प्रभुस्तस्यामेव पुर्यां राज्ञः सुरेन्द्रदत्तस्य गृहे पारणेच्छया जगाम । स चाऽभ्युत्थाय प्रभुं नमस्कृत्य परमान्नमुपादाय गृह्यतामित्यभाषत । प्रभुश्च पाणिपात्रेण तदादाय दातुः कल्याणकारणं प्राणमात्रधारणं पारणं चकार । तदानीं च दिवि दुन्दुभयो नेदुः । दिव्या वसुधारा अपतन् । पुष्पवृष्टिर्गन्धाम्बुवृष्टिश्चाऽभवत् । प्रभुपारणस्थाने च सुरेन्द्रदत्तो मणिपीठं विधाय त्रिसन्ध्यं पूजयामास । ततः स्थानाच्च प्रभुामादिषु विहरन् विविधाभिग्रहोद्यतो, द्वाविंशतिं परीषहान् सहमानस्त्रिगुप्तः, पञ्चसमितो, निर्भय, एकाग्रदृष्टिश्चतुर्दश वत्सराणि विहृत्य सहस्राम्रवणे सालतरोस्तले द्वितीयशुक्लध्यानस्थ: प्रतिमया तस्थौ । ध्यानान्तरेण च तस्य शुष्कपत्रवद् घातिकर्मचतुष्टयमत्रुट्यत् । ततश्च कार्तिके मासि कृष्ण पक्षे मृगशिरःस्थे चन्द्रे कृतषष्ठस्य स्वामिन: केवलज्ञानमुत्पेदे ।
कम्पितासनाः सुरादयश्च प्रभोः केवलज्ञानमहिमानं कर्तुं तत्र समाययुः । ततश्च देवैर्निर्मिते समवसरणे सुरकोटीपरिवृतः प्रभुः पूर्वद्वारा प्रविश्य प्राङ्मुखो नमस्तीर्थायेति वदन् सिंहासनमलञ्चकार । एवं सर्वेषु सुरा-ऽसुरादिषु यथास्थानं निविष्टेषु शक्रो रचिताञ्जलिनमस्कृत्य प्रभुमस्तौत् ।
ततो विश्वस्योपचिकीर्षया प्रभुर्देशनां विदधे "अस्मिन् संसारे सर्वमपि वस्त्वनित्यम् । शरीरिणां सुखबुद्ध्या तत्र मूर्छा मुधा । सर्वतश्चाऽऽपत्स्वागच्छत्सु जन्तवः कष्टं जीवन्ति । मन्त्र-तन्त्रादीन्यपि न त्राणसमर्थानि । जरा-मृत्य्वादिभिश्च शरीरिणो ग्रस्यन्ते । बुबुद्वद्धि शरीरिणां शरीराणि क्षणेनैव विपद्यन्ते । कृतान्तो ह्यविशेषेण सर्वान्
Page #47
--------------------------------------------------------------------------
________________
८२
तृतीयं पर्व-प्रथमः सर्गः नृपान् रङ्कादींश्च संहर्तुं प्रवर्त्तते । कायो हि न केनाऽप्युपायेन निरपाय: कर्तुं शक्यते । महाबला अपि मृत्योस्त्रातुं न प्रभवन्ति । यौवनमपि जरसा गृह्यते । यौवने च स्त्रीभिः सेविता वार्धक्ये त्यज्यन्ते । क्लेशैरप्युपार्जितं धनिनां धनं क्षणेन नश्यति । सुहृदादिभिरपि समागमाः सापगमाः । अनित्यतां ध्यायन् मृतं पुत्रमपि न शोचति । नित्यमतिश्च भित्तिभङ्गेऽपि रोदिति । न केवलं शरीराद्येवाऽनित्यं, किन्तु सचराचरमेतद्भुवनमपि । तदेवं सर्वमनित्यं विदन् देही नित्याय पदायैव प्रयतेत" ।
प्रभोर्देशनामिमां श्रुत्वा प्रबुद्धा बहवो नरा नार्यश्च दीक्षामाददिरे । तदा प्रभुश्चारुप्रभृतीनां गणभृतां स्थित्युत्पाद-व्ययात्मिकां त्रिपदीमुपदिदेश । व्यधिकशतं ते गणधराश्च तदनुसारतः सचतुर्दशपूर्विका द्वादशाङ्गीमसूत्रयन् । ततश्च प्रभुरुत्थाय शक्रोपनीतं चूर्णमादाय क्षिपन्ननुयोग-गणानुज्ञां तेषां ददौ । पुनश्च सिंहासनमध्यास्य तेषामनुशिष्टिमयीं धर्मदेशनां विदधे । प्रथमपौरुष्यां पूर्णायां च प्रभुर्देशनं व्यस्राक्षीत् । तत उत्थायोत्तरद्वारेण निर्गत्य प्रभुर्देवच्छन्दे विशश्राम । ततश्चारुर्गणधराग्रणी: प्रभुपादपीठमध्यास्य संशयच्छिदं देशनां विधाय द्वितीयस्यां पौरुष्यां पूर्णायां देशनातो व्यरंसीत् । सुरादयश्च प्रभुं नत्वा मुदिता निजनिजस्थानं ययुः । ___ तत्र तीर्थे च त्रिनेत्रस्त्रिमुख: श्यामः षड्बाहुर्मयूरवाहनो दक्षिणैः करैर्नकुलधर-गदाभृदभयप्रदैः मातुलिङ्ग-नागा-ऽक्षिसूत्रि-भिर्युतस्त्रिमुखो नाम यक्षराट्, चतुर्भुजा गौरवर्णा मेषवाहना दक्षिणाभ्यां बाहुभ्यां वरदा-ऽक्षसूत्रधरा वामाभ्यां च फण्यभयधरा दुरितारिश्चोत्पन्नौ शासनदेवते प्रभोः सन्निहिते अभूताम् । ततश्च प्रभुस्ततः स्थानाच्चतुस्त्रिंशदतिशयान्वितः साधुभिः परिवारितोऽन्यतो विजहार।
विहरतश्च प्रभोः परिवारे व्रतिनां द्वे लक्षे, व्रतिनीनां त्रीणि लक्षाणि षट्त्रिंशत्सहस्राणि च, पूर्वभृतां सार्धेकविंशतिशतम्,
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अवधिज्ञानिनां षण्णवतिशतानि, चतुर्थज्ञानिनां सार्धशताधिकद्वादशसहस्राणि, केवलज्ञानिनां पञ्चदशसहस्त्राणि, जातवैक्रियलब्धीनां द्विशतोनविंशतिसहस्राणि, वादलब्धिमतां द्वादशसहस्राणि, श्रावकाणां सहस्रसप्तकन्यूना त्रिलक्षी, श्राविकाणां च सषट्त्रिंशत्सहस्रा षड्लक्षी चाऽभवन् । तथा केवलादारभ्य प्रभुश्चतुर्दशाब्द्या चतुःपूर्वाङ्गया च वर्जितं पूर्वलक्षं व्यहरत । ___ अथ सर्वज्ञो भगवान् सम्भवप्रभुरात्मनो मोक्षकालं ज्ञात्वा सपरिच्छदः सम्मेतशिखरमागत्य मुनिसहस्रेण समं पादपोपगमं नामाऽनशनं प्रत्यपद्यत । सुरेन्द्रादयश्च सपरिच्छदास्तत्रैत्य भक्तित: प्रभुं सेवमानास्तस्थुः । मासान्ते च प्रभुः सर्वयोगनिरोधिनी शैलेशी प्रपेदे । चैत्रस्य सितपञ्चम्यां चन्द्रे मृगशिर:स्थे च सिद्धानन्तचतुष्क: परमं पदं प्राप । सहस्रं मुनयश्च ते तेनैव विधिना तदेव परमं पदं प्रापुः ।
तदेवं प्रभोः कुमारभावे पञ्चदश पूर्वलक्षाः, राज्ये च सपूर्वाङ्गचतुष्टयाश्चतुश्चत्वारिंशत् पूर्वलक्षाः, प्रव्रज्यायां च चतुष्पूर्वाङ्गवर्जितं पूर्वलक्षमगमन् । एवं श्रीसम्भवप्रभोः षष्टिपूर्वलक्षाण्यायुः । सम्भवप्रभोनिर्वाणं चाऽजितस्वामिनिर्वाणात् सागराणां त्रिंशतिकोटिलक्षेषु गतेष्वासीत् । तत इन्द्रादयः सम्भवजिनपते: शरीरसंस्कारमन्यदपि च यथोचितं विधाय दंष्ट्रादीन् विभज्याऽऽदाय स्वं स्वं स्थानमागम्योच्चैर्माणवकस्तम्भमूर्ति स्थापयामासुः । तीर्थेशानां किं वा नाऽर्चनीयम् ? ॥ १ ॥ इति तृतीयपर्वणि श्रीसम्भवस्वामिचरित्रवर्णनात्मक:
प्रथमः सर्गः ॥१॥
Page #48
--------------------------------------------------------------------------
________________
द्वितीयः सर्गः श्रीअभिनन्दनजिनचरित्रम् सांवरिः संवृतः श्रीमान् सिद्धार्थाकुक्षिजो जिनः । विपन्नशरणं जीयात् सिद्धार्थः सोऽभिनन्दनः ॥ १ ॥
अथाऽस्मिन् जम्बूद्वीपे मङ्गलावत्यां विजये रत्नसञ्चयायां पुरि महाबलो नाम महाबलो नृपो बभूव । स चोत्साहादिशक्तिमानुपायचतुष्टयज्ञो, जिनवचनाश्रितो, दानादिचतुर्विधधर्मपरायणो, देशविरतावतुष्यन् विमलसूरिपादान्ते सर्वविरतिव्रतमग्रहीत् । निन्दापूजयोरनाकारो, ग्रीष्मातप-शीतादिपरीषहान् सहमान, एकावल्यादितपोलीनो विंशतिस्थानकैस्तीर्थकृन्नामकर्मोपार्जनं कृत्वा प्रपन्नानशनो मृत्वा विजयाख्ये विमाने महद्धिकः सुरोऽभवत् ।
इतश्च जम्बूद्वीपे भरतक्षेत्रेऽयोध्यानगर्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमा: संवरो नाम नृपो बभूव । गुणग्रामसमग्रस्य तस्य शीलादिगुणसम्पन्ना सिद्धार्था नाम्नी महिषी बभूव । तस्या एव कुक्षौ विजये विमाने त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा ततश्च्युत्वा महाबलजीवो वैशाखशुक्लचतुर्थ्यामभीचिनक्षत्रे समवातरत् । तत्राऽवतीर्णे च तस्मिन् जगत्त्रयेऽपि सुखमुद्योतश्चाऽभवत् ।
सिद्धार्था च सुखसुप्ता रात्रेरन्तिमे प्रहरे मुखे प्रविशतः प्रसिद्धांश्चतुर्दशमहास्वप्नान् ददर्श । नृपश्च तस्यास्तान् स्वप्नान्
८४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ज्ञात्वा 'त्रिभुवनेश्वरस्तव पुत्रो भविते'त्यवोचत् । इन्द्रोऽपि च समेत्य चतुर्थस्तीर्थनाथस्ते पुत्रो भविष्यतीति स्वप्नार्थमुवाच । तत: प्रमुदिता सा देवी जाग्रत्येव तां निशामत्यवाहयत् । तस्याः स गर्भश्च दिने दिने गूढमवर्धत । सा च सिद्धार्था जगत्सुखालयं तं गर्भ सुखेनाऽधारयत् । ततो नवसु मासेषु सार्धाष्टमदिनेषु चाऽतीतेषु माघशुक्लद्वितीयायामभीचिस्थे चन्द्रे सिद्धार्था तेजसा रवितुल्यं स्वर्णवर्णं प्लवगलाञ्छनं पुत्रं सुखेन सुषुवे ।
अथ षट्पञ्चाशद् दिक्कुमार्यः स्वस्वस्थानादेत्य देव्याः सूनोश्च यथोचितं सूतिकर्म विदधुः । शक्रश्च सपरिवार: पालकमधिरुह्य तत्र समेत्य विमानादुत्तीर्य सूतिकागृहं प्रविश्य जिनं जिनमातरं च नमस्कृतवान् । देव्या अवस्वापनी दत्त्वाऽर्हत्प्रतिबिम्बं निधाय पञ्चधा भूत्वाऽर्हन्तमादाय मेरावतिपाण्डुकम्बलायामङ्कारोपितजिनः शक्रः सिंहासनमध्यास्य सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रं विचक्रे । वस्त्रा-ऽलङ्करणादिभिर्विभूष्य भक्तित: स्तुत्वा च क्षणाद् यथाविधि स्वामिगृहमेत्याऽवस्वापनीमहत्प्रतिच्छन्दं च संहृत्य देव्याः पार्श्वेऽर्हन्तं निधाय स्वं स्वं धाम ययुः ।
राज्ञी राजा च प्रातः सूनोर्महान्तं जन्मोत्सवं विधाय "अस्मिन् गर्भस्थे कुलं राज्यं पुरी चाऽभ्यनन्दद्" इति तस्याऽभिनन्दन इति नामाऽकरोत् । प्रभुश्च शक्रसङ्क्रमितां सुधां स्वाङ्गुष्ठात् पिबन्, धात्रीभिः पाल्यमानः क्रमेण ववृधे । सुरा-ऽसुरकुमारैः सह बालक्रीडां कुर्वन् शैशवमत्यवाहयत् । क्रमेण यौवनं प्राप्य सार्धधन्वत्रिशत्युच्च, आजानुभुजः, सर्वसामुद्रिकलक्षणोपेतः, कर्मणोऽवश्यभोक्तव्यतया पितृभ्यां प्रार्थितो राजपुत्री: परिणीय क्रीडोद्यानादिषु ताराभिश्चन्द्रमा इव समं ताभी रमाभी रेमे । इत्थं च जन्मतः सौख्यमग्नः सार्ध पूर्वलक्षद्वादशकं गमयामास । ततः संवरोऽनुनीयाऽभिनन्दनविभुं
Page #49
--------------------------------------------------------------------------
________________
८५
तृतीयं पर्व-द्वितीयः सर्गः राज्ये निधाय प्रव्रज्यामाददे । स्वामी च लीलयाऽवनी पालयन् सार्धानष्टाङ्गसंयुतान् षट्त्रिंशतं पूर्वलक्षान् निनाय ।
ततो दीक्षां जिघृक्षुर्लोकान्तिकैर्देवैस्तीर्थं प्रवर्त्तयेति प्रार्थितः शक्रादिष्टकुबेरप्रेरितजृम्भकदेवैः पूरितेन द्रविणेन वार्षिकदानं विधाय वासवैः कृतदीक्षाभिषेकः सर्वालङ्कारभूषितः शिबिकामारोहत् । सहस्राम्रवणमागत्योत्तीर्य भूषणादिकं त्यक्त्वा च स्कन्धस्थापितवासवदत्तदेवदूष्यो माघशुक्लद्वादश्यामभीचिस्थे चन्द्रेऽपराह्ने कृतषष्ठः पञ्चभिर्मुष्टिमिः केशानुद्दधे । शक्रश्च तदादाय क्षीराब्धावक्षिपत् । स्वामी च सामायिकं पठन् चारित्रं प्रतिपेदे । तदानीमेव च प्रभोश्चतुर्थं ज्ञानमुत्पेदे । सहस्रं नृपाश्च राज्यममङ्गलवत् त्यक्त्वा स्वामिना साध प्रव्रज्यां जगृहुः । शक्रादयश्च प्रभुं नत्वा सपरिच्छदाः स्वं स्वं धाम ययुः । द्वितीयेऽह्नि च स्वामी साकेतपुरे इन्द्रदत्तनृपसद्मनि परमान्नेन पारणं चकार । देवादयश्च मुदितास्तद्दानं प्रशशंसुः । प्रभुश्चाऽन्यत्र विजहार । इन्द्रदत्तश्च स्वामिपादस्थाने पूजयितुं रत्नपीठं व्यघात् ।
ततः स्वामी विविधाभिग्रहोद्यत: परीषहान् सहमानोऽष्टादश वर्षाणि यावद् विजहार । एकदा च सहस्त्राम्रवणमागत्य कृतषष्ठः प्रियालतरोरधः प्रतिमयाऽस्थात् । ततश्च द्वितीयशुक्लध्यानान्ते घातिकर्मक्षये सति पौषशुक्लचतुर्दश्यामभीचिस्थे चन्द्रे प्रभोरमलं केवलमुत्पन्नम् । इन्द्रादिभिश्चाऽऽगत्य विहिते समवसरणे देवैः सञ्चार्यमाणेषु स्वर्णाब्जेषु पादन्यासं कुर्वन् प्रारद्वारा समवसरणं प्राविशत् स्वामी । चैत्यवृक्षं प्रदक्षिणीकृत्य नमस्तीर्थायेति वदन् देवच्छन्दस्य मध्यतः प्राङ्मुखः सिंहासनमलङ्कृत्य ससुरासुरादिचतुर्विधसङ्केषु यथास्थानमुपविष्टेषु भगवन्तं नमस्कृत्य शक्रो रचिताञ्जलिः स्तुतवान् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्च स्वामी गम्भीरया गिरा देशनां विदधे-"विपदास्पदेऽस्मिन् संसारे पित्रादयः केपि न शरणम् । इन्द्रादयोऽपि यत्र मृत्युवशं यान्ति, तत्र शरीरिणां कः शरण्यः ? जन्तुहि पित्रादिभिररक्षित: कर्मणा यमसद्मनि नीयते । मूढबुद्धय एव स्वकर्मभिर्नीयमानान् स्वजनान् शोचन्ति । आत्मानं तु तैर्नेष्यमाणं न शोचन्ति । मृत्युह्येप्रतीकारः, धर्मोऽपि शुभां गतिं ददानो न मरणं प्रति प्रभवति। तस्मात् प्रव्रज्यालक्षणोपायमादाय शाश्वतसुखाय चतुर्थपुरुषार्थाय यतितव्यम्" । तया देशनया च प्रबुद्धा बहवो नरा नार्यश्च प्रवव्रजुः। ततो विभुर्वज्रनाभादीनां षोडशाधिकशतगणधराणामनुयोग-गणानुज्ञे यथाविधि दत्त्वाऽनुशिष्टिमयीं धर्मदेशनां विधाय स्थित्युत्पादव्ययात्मिकां त्रिपदी जगौ । ते च गणधराः त्रिपद्यनुसारेण द्वादशाङ्गी जग्रन्थुः । ततः प्रभुः पौरुष्यां पूर्णायां देशनां विसृज्य राजानीतं बलि क्षिप्त्वोत्थाय मध्यप्राकारमुपेत्येशानदिक्स्थे देवच्छन्दे समुपाविशत् । वज्रनाभो गणधरश्च स्वाम्यविपीठस्थो द्वितीयस्यां पौरुष्यां व्यतीतायां देशनां व्यसृजत् । सुरादयश्चाऽर्हन्तं नमस्कृत्य स्वं स्वं स्थानं ययुः । ___ तत्र तीर्थे च समुत्पन्ने श्यामवर्णो गजवाहनो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्गा-ऽक्षिसूत्रे वामाभ्यां च नकुला-ऽङ्कुशौ धारयन् यक्षेश्वरः, श्यामवर्णाऽम्बुजासना दक्षिणाभ्यां हस्ताभ्यां वरद-पाशौ वामाभ्यां च नागा-ऽङ्कुशौ धारयन्ती कालिकादेवी च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् । ____ ततश्चतुस्त्रिशदतिशयान्वितो ग्रामादिषु जन्तून् बोधयन् प्रभुर्विजहार । तदानीं च विहरत: प्रभोः परीवारे साधुत्रिलक्षी, त्रिंशत्सहस्रयुक् साध्वीषड्लक्षी, अवधिज्ञानिनामष्टनवतिः शतानि, पूर्वविदां साधं सहस्रं, मन:पर्ययिणामेकादश सहस्राणि सपञ्चाशत् षट्शती च, केवलज्ञानिनां चतुर्दश सहस्राणि, वैक्रियलब्धिमतामेकोनविंशतिः
Page #50
--------------------------------------------------------------------------
________________
८७
तृतीयं पर्व-द्वितीयः सर्गः सहस्रा, वादलब्धिमतामेकादश सहस्राणि, श्रावकाणामष्टाशीतिसहस्त्रयुग् लक्षद्वयं, श्राविकाणां सप्तविंशतिसहस्रयुक् पञ्चलक्षी चाऽजायन्त। ____ अथ केवलादष्टाङ्ग्याऽष्टादशाब्द्योने पूर्वलक्षे गते प्रभुनिर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनिसहस्रेण समं प्रपन्नानशनः सुरेन्द्रादिभिः सेव्यमानो मासं स्थितवान् । भवोपग्राहिकर्मभिच्छैलेशीध्यानमास्थाय सिद्धानन्तचतुष्को वैशाखमासस्य सिताष्टम्यां पुष्यस्थे चन्द्रे मुनिसहस्रेण समं परमं पदं प्राप।
तदेवं प्रभोरभिनन्दनस्य कौमारे सार्धद्वादश पूर्वलक्षाः, राज्येऽष्टाङ्गयुतानि सार्धषट्त्रिंशद् लक्षाणि, प्रव्रज्यायामष्टाङ्गोनं पूर्वलक्षमगमन् । तदेवं प्रभोः पञ्चाशत् पूर्वलक्षाणि यावदायुरभवत् । सम्भवस्वामिनिर्वाणाच्च दशसु सागरोपमकोटिलक्षेषु व्यतीतेषु भगवतोऽभिनन्दनस्य निर्वाणमभूत् । शक्रादयश्च स्वामिनो व्रतिनामपि चाऽङ्गसंस्कारं विधाय पूजनाय दंष्ट्रादि गृहीत्वा नन्दीश्वरान्तः शाश्वतार्हत्प्रतिमाष्टाह्निकां कृत्वा स्वं स्वं धाम जग्मुः ॥ २ ॥ इति तृतीयपर्वणि श्रीअभिनन्दनस्वामिचरितवर्णनात्मको
द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः
श्रीसुमतिस्वामिचरित्रम् नन्दनः सर्वसत्त्वानां मङ्गलामेघयोरिव । सुमतिं वितरन् जीयात् सुमत्याख्यो जिनेश्वरः ॥१॥
अथाऽत्रैव जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजयेऽतिसुन्दरे शङ्खपुरे पुरे विजयी विजयसेनो नाम नृपो बभूव । स चेन्दुलेखयेव सुदर्शनया सुदर्शनानाम्न्या प्रियया सह रत्या काम इव रममाण: कालं निनाय । एकदा सर्वोऽपि नागरजनः सपरीवारः कस्मिंश्चिदुत्सवे समागते उद्यानं ययौ । सुदर्शनाऽपि हस्तिनीमारुह्य तत्र गता । अष्टभिर्वधूभिरुपास्यमानां कामपि स्त्रियं दृष्ट्वा चित्ते भृशं विस्मिता "केयम् ? पारिपार्श्विक्यश्चैतस्याः का" इति ज्ञातुं कञ्चुकिनं समादिशत् । कञ्चुक्यपि तत् पृष्ट्वा समेत्य व्यजिज्ञपत्-"इयं श्रेष्ठिनो नन्दिषेणस्य प्रेयसी सुलक्षणा, तस्याश्च द्वौ पुत्रौ, तयोः प्रत्येक चतस्रो वध्वः, ताभिरुपास्यते सा" ।
तच्छ्रुत्वा सा सुदर्शनाऽचिन्तयत्-"धन्येयं, या पुत्रमुखमीक्षते, वधूभिश्च सेव्यते । सूनुस्नुषाविरहितां मामपुण्यां धिक् । योषितो हि तनयं विनाऽतोया नद्य इव निन्दनीयाः शोचनीयाचे''ति । एवं बहु विचिन्त्य म्लानमुखी सा सुदर्शना सखेदा निजं सदनमेत्य प्रियसखीविसृज्य शयनीये मुक्तनि:श्वासा पपात । भोजनादिकमपि त्यक्त्वा शून्यमनस्का तस्थौ । परिवारमुखाच्च तां तथावस्थितां श्रुत्वा नृप उपेत्य प्रेमपूर्णया गिरा खेदकारणं पप्रच्छ। ततो निःश्वस्य
७रिष.भा-२
Page #51
--------------------------------------------------------------------------
________________
८९
९०
तृतीयं पर्व-तृतीयः सर्गः सुदर्शनाऽवोचत्-"पुत्रं विना सर्वसौख्यानि वृथा, पुत्रहीनानस्मान् धिक्, नाऽन्यत् किमपि खेदकारणम्" । ___ तच्छ्रुत्वा नृप उवाच-"देवि ! धीरा भव, देवताराधनेन तव मनोरथं पूरयिष्ये"। एवं राज्ञीमाश्वास्य निजधामतो निर्गत्य कृतशौच: शुचिवेष: कुलदेव्या निकेतनं गत्वा देवतां पूजयित्वाऽऽपुत्रलाभं त्यक्तान्नपानवृत्तिर्दृढनिश्चय उपाविशत् । ततः षष्ठे उपवासे प्रसन्ना देवता प्रत्यक्षीभूय 'वरं वृणु' इति व्याजहार । ततो राजाऽपि नत्वा, 'सर्वपुरुषोत्कृष्टं पुत्रं मे देही'त्यब्रवीत् । देवी च 'दिवः सुरवरश्च्युत्वा तव सूनुर्भविष्यती'ति वरं दत्त्वा तिरोदधे । सुदर्शना च तत् सर्व वरप्रदानं देव्या नृपाज्ज्ञात्वाऽत्यन्तं मुमुदे ।
अथाऽन्यदा ऋतुस्नातायाः सुदर्शनायाः कुक्षौ दिवो महर्द्धिको देवश्च्युत्वाऽवातरत् । ततस्तया रात्रौ सुप्तया स्वप्ने मुखे प्रविशन् सिंहो दृष्टः । तेन च प्रबुद्धा भीतभीता सत्वरं शय्यात उत्थाय राज्ञे तन्निवेदितवती । राजा च तच्छ्रुत्वा-"सिंह इव विक्रमी तव पुत्रो भविष्यती"ति स्वप्नार्थमुवाच । ततो राज्ञी तच्छ्रुत्वा हृष्टमानसा जाग्रती शुभकथापरा रात्रिशेष निनाय । क्रमशः समुत्पन्नान् 'सर्वदेहिनामभयं ददामि, पुरादिष्वमारिमुद्घोषयितुमिच्छामि, अष्टाह्निका निखिलायतनेषु चिकीर्षामी'ति दोहदान् राजे शशंस । राजा च तदभिनन्द्य सद्यो भीतानामभयममारिं च डिण्डिमवादन-पूर्वकमाघोषयामास । प्रतिचैत्यमष्टाह्निकोत्सवांश्चोच्चैश्चकार । तैर्दोहदैश्च हृष्टा देवी पूणे समये वल्ली फलमिव पुत्ररत्नमसूत । राजा च ततोऽत्यन्तं मुदितोऽथिभ्यो यथाकाममर्थं ददौ । राज्ञा पौरैरपि च महोत्सवश्चक्रे। स्वप्नानुसारेण च कुमारस्य "पुरुषसिंह" इति नाम चक्रे । कुमारश्च स धात्रीभिाल्यमानः क्रमाद् वर्धमान: सकला: कला जग्राह । यौवनं प्राप्तश्चाऽष्टौ नृपकन्या: परिणीय ताभी रममाणो वैषयिकं सुखमन्वभूत् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा च क्रीडितुमुद्यानं गतः स समवसृतं विनयनन्दनसूरिमपश्यत् । तमवलोक्य विस्मितो दध्यौ "वेश्यायाः सामीप्ये सतीत्वस्य पालनमिव यौवनेऽमुष्य व्रतधारणमाश्चर्यम् । तदद्याऽयं दिष्ट्या पुण्यदृष्टः" । एवं विचिन्त्य सत्वरमुपसृत्य मुनि वन्दित्वा मुनिना धर्मलाभाशिषाऽभिनन्दितो भूयस्तं नत्वाऽपृच्छत्-"नवयौवनेऽपि व्रतधरश्चित्रीयसे । अत्र संसारे न किञ्चन सारं मन्ये, यतो भवादृशास्तत्परिहाराय प्रयतन्ते । ततो ममाऽपि संसारतरणोपायं समादिश, मामपि स्वेन पथा नय" ।
तच्छ्रुत्वा सूरिरुवाच "यौवनादीनि मदस्थानानि न शान्तये । संसारसिन्धुतरणे यतिधर्मो दृढं यानपात्रं भगवद्भिः समाम्नातः । स च धर्मः संयम-सूनृत-शौच-ब्रह्मा-ऽऽकिञ्चन्य-तप:-क्षान्ति-मार्दवजूता-मुक्तिमेदा दृशविधः । तत्र प्राणातिपातव्यावृत्तिः संयमः । मृषावादपरिहारः सूनृतम् । अदत्तादानवर्जनात् संयमसंशुद्धिः शौचम् । उपस्थसंयमो नवगुप्तिसमन्वितो ब्रह्म । शरीरादावपि निर्ममत्वमकिञ्चनता । अनशनमूनोदरता वृत्तिसक्षेपो रसत्यागस्तनुक्लेशो लीनतेति च बहिस्तपः, प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयो व्युत्सर्गः शुभध्यानमिति चाऽऽभ्यन्तरं तपः । शक्तावशक्तौ वा क्रोधनिग्रहात् सहनं क्षान्तिः । माननिर्जयाद् मददोषपरिहारो मार्दवम् । मायाजयाद् वाग्-मन:-कायैरवक्रतर्जुता । बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो मुक्तिः । एवं च दशविधो धर्मो जगति पुण्यैरवाप्यते"।
तच्छ्रुत्वा पुरुषसिंहः सविनयमुवाच "रङ्कस्य निधानमिवाऽयं धर्मः साधु दर्शितः । किन्तु गृहस्थैरयं धर्मोऽनुष्ठातुं न शक्यते । तन्मे धर्मराजराजधानी प्रव्रज्यां प्रयच्छ, भववासादुद्विग्नोऽहम्" । ततः सूरिरुवाच-"पुण्यसम्पदां साधकस्तव मनोरथः साधुः । त्वं व्रतभारस्य योग्योऽसि, त्वत्समीहितं दास्यामः । किन्तु गत्वा पितरावापृच्छस्व, यतस्तावेव नृणां जगति प्रथमतो गुरू" ||
Page #52
--------------------------------------------------------------------------
________________
९२
तृतीयं पर्व-तृतीयः सर्गः
९१ ततः स गत्वा पितरौ प्रणम्य कृताञ्जलि:-"मां व्रतायाऽनुजानीथा''मित्युच्चैर्व्यजिज्ञपत् । तच्छ्रुत्वा पितरावूचतुः-"वत्स ! प्रव्रज्या युक्ता, किन्तु पञ्चमहाव्रतभारोऽतिदुर्वहः । स्वदेहेऽपि निर्ममत्वं, रात्रिभोजनाद् विरतिः, द्विचत्वारिंशता दोषैर्मुक्तस्य पिण्डस्य भोजनं, नित्योद्युक्तत्वं, निर्ममत्वम्, आकिञ्चन्यं, गुणतत्परता, सर्वदा समितिपञ्चकस्य गुप्तित्रयस्य च धारणं, यथाविधि मासादिक प्रतिमाविधानं, द्रव्याद्यनुसारेणाऽभिग्रहाः, यावज्जीवितमस्नानं भूशय्या केशलुञ्चनं शरीरस्याऽप्रतिकर्म च, गुरुकुले सदा वासः, परीषहोपसर्गाणां सानुमोदनं सहनम्, अष्टादशानां शीलाङ्गसहस्राणां धारणं चैते प्रव्रज्यायामुपात्तायां निरन्तरं चर्वणीया लोहचणकाः । गृहीतायाः प्रव्रज्याया आजन्माऽपि पालनं महत् सत्त्वं, महद्धैर्य, महती बुद्धिर्महद् बलम्" ।
कुमारोऽपि तदाकोवाच-"पूज्यपादा यदभाषिषत, एवमेतत् । किन्तु यदिह दृश्यते, स भववाससमुत्थानां कष्टानां शततमोऽप्यंशः किमु ? तावद् दुर्वचा दुःश्रवणाश्च नरकवेदना दरे तिष्ठन्त, इहाऽपि लोकेऽकृतागसामपि बन्धनच्छेदादिकं, व्याधयो वियोग-पराभवौ गुप्तिवासाद्याश्च दुःसहा:" । तेनैवमुक्तौ पितरौ साधु साध्विति वादिनौ मुदितौ व्रतादानाय तमनुमेनाते । ___ततः सप्रमोदं पित्रा कृतनिष्क्रमणोत्सवो दीक्षार्थी स मुनिमुपगम्य पुरुषसिंहः सामायिकमुदीरयन् प्रव्रज्यामाददे । तथा प्रमादपरिहारेण प्रव्रज्यां दृढं पालयामास । विंशतिस्थानकानां च कतिपयैः स्थानकैः स तीर्थकृन्नामकर्माऽर्जयामास । चिरं च विहृत्याऽनशनेन कालं कृत्वा वैजयन्ते विमाने महर्द्धिकोऽमरोऽभवत् ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सह महेन्द्रस्य पौलोम्येव भोगानुपभुञ्जानस्याऽक्षया प्रीतिरभवत् । तस्याश्च मङ्गलादेव्याः कुक्षौ श्रावणशुक्लद्वितीयायां मघास्थे चन्द्रे पुरुषसिंहजीवस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा वैजयन्तविमानाच्च्युत्वाऽवातरत् । तदानीं च सा रात्रौ सुप्ता स्वप्ने गजादींश्चतुर्दश महास्वप्नान् ददर्श । मेदिनी निधानमिव निगूढं गर्भं दधार च ।
अथ कश्चिदाढ्यस्तस्या नगर्या वणिज्यया सहग्भार्याद्वययुतो दूरदेशान्तरं ययौ । तस्य च मार्गस्थस्यैवैकस्यां पत्न्यां पुत्रोऽभवत् । स च पुत्रो द्वाभ्यामपि पत्नीभ्यां निर्विशेषमवय॑त । क्रमाच्च स धनमर्जयित्वा देशान्तरात् परावर्त्तमानो मार्ग एव विपेदे । तस्य च द्वे अपि भार्ये शोकसन्तप्ते अग्निसंस्कारं विधायौदैहिकं चक्राते । अनन्तरं च पुत्रो वित्तं च मदीये इति भाषिणी पुत्रजनन्या सहाऽन्या मायिनी कलहायमानाऽयोध्यामीयतुः । तत्र च स्वा-ऽन्यकुलयोर्धर्माधिकरणेऽपि चोभे जग्मतुः । किन्तु तयोविवादो न मनागपि छिन्नः । ततस्ते परस्परं विवदन्त्यौ नृपमुपतस्थाते । राज्ञा च सभायामुपवेश्य विवादकारणं पृष्टे । ___ ततो विमातोचे-"सकले पुरे वादोऽयमाख्यातः । किन्तु कोऽप्येनं नाऽच्छिदत् । ततो भवन्तमुपस्थिताऽस्मि । अयं तनयो ममौरसो मम सहग्, मया वर्धितः, वित्तं चैतद् मम । यतो यस्याः पुत्रस्तस्या धनादिकम्"। पुत्रमातोवाच "पुत्रोऽसौ मे, धनं च मम, सपत्नी मेऽनपत्या लोभेन कलहायते। तद् निर्णेतुं चेष्टस्व, विवादस्त्वय्येव तिष्ठते" । ___ ततो द्वाभ्यां विज्ञप्तो नृपो जगाद-"द्वे अप्येते सदृश्यौ, एष पुत्रश्च द्वयोः सदृशः । बालश्चाऽसौ का माता विमाता वेति वक्तुमपि न जानाति, तदद्य विवादो दुनिर्णयः । इत्थं राज्ञो मध्याह्रो जज्ञे । तत: पारिषद्याश्च-"षड्भिर्मासैरपि विवादोऽस्माभिर्नाऽभेदि । इदानीं च नित्यकृत्यानां क्षणो माऽतिवर्त्ततामिति स्वामिना क्षणान्तरेऽयं
इतश्च जम्बूद्वीपे भरतक्षेत्रे विनीतायां नगर्यामिक्ष्वाकुवंशे मेघो नाम नृपो बभूव । तस्य च मङ्गलास्पदभूतया मङ्गलाख्यया महिष्या
Page #53
--------------------------------------------------------------------------
________________
तृतीयं पर्व - तृतीयः सर्गः
९३
विवादो विचार्यः पुनः" इत्यवोचन् । राजाऽप्येवमस्त्विति निगद्य सभां विसृज्याऽन्तःपुरं ययौ। तत्र च मङ्गलादेवी राज्ञस्तयोर्विवादवृत्तान्तं ज्ञात्वा “स्त्रीणां विवादो निर्णेतुं स्त्रीभिरेव युज्यते, तदहं तयोर्विवादच्छेदनं करिष्यामि', एवमुक्तवती ।
ततः सा सविस्मयेन राज्ञा समं पर्षदमागत्य तयोः पूर्वपक्षमुत्तरपक्षं कथितं विचार्याऽवोचत्–“ममोदरे ज्ञानत्रयधरस्तीर्थकरोऽस्ति तस्मिन् प्रसूते सति अमुष्याऽशोकतरोस्तले निर्णयं दास्यति । तस्मात् तावदुभे अपि प्रतीक्षेथाम्' । ततो विमाता 'ओम्' इत्यूचे । "माता त्वहं न प्रतीक्षितुं क्षमा, भवती सर्वज्ञमाताऽद्यैव निर्णयं करोतु । स्वमात्मजं नेयत्कालं सपत्नीसात् करिष्यामि । ततो मङ्गलादेव्युवाच"कालक्षेपासहत्वेनाऽस्या एवाऽयं सुतः । विमाता हि कालहरणं सहते, न तु जननी । ततस्तव पुत्रोऽयं गृहाण, स्वगृहं व्रज" । गर्भप्रभावाद् देव्यैवं निर्णये विहिते सा परिषद् विसिष्मिये ।
अथ देव्या बाधामजनयन् गर्भः शुक्लपक्षे शशीव क्रमेण ववृधे। ततो नवसु मासेषु सार्धाष्टमदिनेषु चाऽतीतेषु वैशाखशुक्लाष्टम्यां मघास्थे चन्द्रे मङ्गलादेवी सुवर्णवर्णं क्रौञ्चाङ्कं सूनुं सुखेन सुषुवे । ततो दिक्कुमार्यस्तत्रैत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्च मङ्गलातल्पात् प्रभुं सुमेरुं नीत्वा यथोचितं यथाविधि च तत्रेन्द्रादिभिः सह स्नात्रं विधायाऽनुलिप्य वस्त्रा - ऽलङ्करणादिभिः पूजयित्वाऽऽरात्रिकं प्रोत्तार्य भक्त्याऽस्तवीत् । तत आगत्य मङ्गलास्वामिनीपार्श्वे मुक्त्वा च स्वं धाम जगाम शक्रः ।
पिता प्रभोर्गर्भस्थेऽस्मिन् जनन्या सुमतिभावात् सुमतिरिति तस्य नामाऽकरोत् । शक्रादिष्टाभिर्धात्रीभिर्लाल्यमानः प्रभुः शैशवमतीत्य धनुःशतत्रयोत्तुङ्ग आजानुबाहुयौवनं प्रपन्नः कर्मणोऽवश्य भोक्तव्यतया पित्रोरुपरोधाच्च नृपकन्याः पर्यणैषीत् । जन्मतो दशसु पूर्वलक्षेषु
९४
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः गतेषु नृपेण राज्ये निवेशित: सद्वादशाङ्गिकानेकोनत्रिंशतं पूर्वलक्षाननैषीत् प्रभुः । ततः स्वयंबुद्धो लोकान्तिकामरैश्च बोधितो दीक्षेच्छुर्वार्षिकं दानं प्रदाय शक्रादिभिः कृतदीक्षाभिषेकोऽभयङ्करां शिबिकामारुह्य सहस्राम्रवणं प्राप्य वैशाखसितनवम्यां मघासु पूर्वाह्णे कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् । तदानीमेव च प्रभोश्चतुर्थं ज्ञानमुत्पन्नम् । द्वितीये दिने च विजयपुरे पद्मनृपस्य सदने परमान्नेन पारणं विदधे । तत्र च देवैर्वसुधारादीनि पञ्चाद्भुतदिव्यानि चक्रिरे, पद्मश्चाऽर्चायै रत्नपीठं निरमात् । ततः प्रभुर्विविधाभिग्रहपरः परीषहान् सहमानो विंशति वर्षाणि महीं विजहार ।
***
अथाऽन्यदा ग्राम - पुरादिषु विहरन् प्रभुर्दीक्षाग्रहणस्थानं सहस्त्राप्रवणं समागतः । तत्र च ध्यानस्थस्य तस्याऽपूर्वकरणात् क्षपकश्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः । चैत्रशुक्लैकादश्यां मघास्थे चन्द्रे च कृतषष्ठस्य प्रभोः केवलमुत्पेदे । ततो देवैर्विकृते समवसरणे प्राग्द्वारा प्रविश्य चैत्यवृक्षं प्रदक्षिणीकृत्य 'तीर्थाय नम' इत्युक्त्वा प्राङ्मुखः सिंहासनमध्यास्त । देवा ऽसुरादयश्चाऽपि यथास्थानमुपविविशुः । ततः शक्रे भक्तितः स्तुत्वा विरते सुमतिप्रभुर्देशनां ददौ -"शरीरिणा ज्ञानवता स्वकार्यमूढेन न स्थातव्यम् । शरीरादिसत्कारश्च परकार्यं, न स्वकार्यम् । जन्तुरेक एवोत्पद्यते, विपद्यते, भवान्तरोपार्जितानि कर्माण्यनुभवति च । एकेन चोपार्जितं धनमन्यैर्भुज्यते । स त्वेक एव नरके स्वकर्मभिः क्लिश्यते । एक एव च भवे कर्मवशगो भ्रमति । यथा हि बान्धवादयो न जन्तो: सहायास्तथा शरीरमपि, तद्धि न पूर्वभवत आयाति, न वा परभवं याति । धर्माऽधर्मावपि मोक्षे न सहायौ । यत एक एव मोक्षमादत्ते, न तत्र कस्याऽपि सम्बन्धस्य सम्भवः । भवसम्बन्धिदुःखं मोक्षसुखं चैक
Page #54
--------------------------------------------------------------------------
________________
९५
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः __तदेवं सुमतिप्रभोः कौमारे दश पूर्वलक्षाः, राज्ये सद्वादशाङ्गिका पूर्वलक्षकोनत्रिंशद्, व्रते द्वादशाङ्गन्यूनं पूर्वलक्षं गतानि । तदेवं मिलित्वा चत्वारिंशत्पूर्वलक्षाः प्रभोरायुः । अभिनन्दनस्वामिनिर्वाणाच्च सागराणां नवसु कोटिलक्षेषु गतेषु सुमतिस्वामिनिर्वृतिरभूत् । इन्द्राश्च सुमतिप्रभोः सहस्राणां मुनिपुङ्गवानां चाऽग्निसंस्कारादि विधिवद् विधाय नन्दीश्वरेऽष्टाह्निकां च कृत्वा पुनः स्वधाम जग्मुः ॥३॥ इति तृतीयपर्वणि श्रीसुमतिस्वामिचरितवर्णनात्मकः
तृतीयः सर्गः ॥३॥
तृतीयं पर्व-तृतीयः सर्गः एव भुङ्क्ते । यथा चैकस्तरन् सिन्धुपारं व्रजति, न तु बद्धपाणिपादादिः । तथा धन-दारादिपरिग्रहरहित एव भवं तरति । तस्मात् सांसारिकसम्बन्धं विहायैकाकिनैव मोक्षाय यतितव्यम्"।
इत्थं प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो नरा नार्यश्च सङ्गं विहाय व्रतमाददिरे । चमराद्याः शतं गणभृतश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् । ततः प्रथमपौरुष्यां व्यतीतायां प्रभुर्देशनां व्यसृजत् । गणधरश्च देशनां ददद् द्वितीयपौरुष्यन्ते विरतो बभूव । ततोऽर्हन्तं नत्वा सुरादयः सर्वे स्वं स्वं स्थानं ययुः।
तत्तीर्थे च समुत्पन्ने श्वेताङ्गो गरुडवाहनो दक्षिणाभ्यां बाहुभ्यां वर-शक्ती बिभ्राणो वामाभ्यां च गदा-पाशौ धारयन् तुम्बुरुर्नाम यक्षः, स्वर्णकान्तिः पद्मवाहना दक्षिणौ बाहू वरद-पाशिनौ वामौ च मातुलिङ्गा-ऽङ्कशधरौ दधाना महाकाली च शासनदेवते प्रभोः सदा सन्निहिते अभूताम् ।
प्रभुश्च पञ्चत्रिंशता वचनातिशयै राजितो भव्यभविनो बोधयन् महीं विजहार । तस्य च प्रभोविहरमाणस्य परीवारे साधूनां त्रीणि लक्षाणि विशतिसहस्राणि च, साध्वीनां सत्रिंशत्सहस्त्रिका पञ्चलक्षी, पूर्विणां सचतुःशते द्वे सहस्रे, अवधिज्ञानिनामेकादश सहस्राणि, मन:पर्ययिणामयुतं सार्धा चतुःशती, केवलिनां त्रयोदश सहस्राणि, जातवैक्रियलब्धीनामष्टादश सहस्राणि चतुःशती च, वादलब्धिमतामयुतं सार्धा चतुःशती, श्रावकाणां सैकाशीतिसहस्रकं लक्षद्वयं, श्राविकाणां पञ्च लक्षाणि षोडश सहस्राणि चाऽभवन्। तथा सुमतिप्रभुः केवलोत्पत्तेरारभ्य द्वादशाङ्गया विंशत्यब्दया च रहितं पूर्वलक्षं विजहार ।
ततः स्वमोक्षकालं ज्ञात्वा सम्मेताद्रिमागत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते क्षीणभवोपग्राहिकर्मा सिद्धानन्तचतुष्क: शैलेषीध्यानमास्थितश्चैत्रशुक्लनवम्यां पुनर्वसुगते चन्द्रे तैर्मुनिभिः सममव्ययं पदं प्रपेदे प्रभुः ।
Page #55
--------------------------------------------------------------------------
________________
चतुर्थः सर्गः श्रीपद्मप्रभस्वामिचरित्रम्
पद्मप्रभः पद्मकान्तिः सुसीमा-धरयोः सुतः । अस्मादसारसंसाराद् मोचकः श्रेयसे जिनः ॥ १ ॥
अथेह धातकीखण्डद्वीपे प्राग्विदेहेषु वत्साख्ये विजये सुसीमाख्यायां पुर्यां द्विषद्भिरपराजितोऽपराजितनामा गुणध जितेन्द्रियो नृपो बभूव । एकदा च सोऽर्हत्परायणश्चिन्तयामास"रूप- सम्पदादीनि शरीरिणां दुस्त्यजानि, दुर्दशो मृतो वैभिस्त्य - ज्यते । तेषु च स्नेहं कुर्वन् स्वार्थाद् भ्रश्यति । अहो ! धिग् मन्दमतिजनम् । ततः पौरुषमालम्ब्यैतान् त्यजामि " । एवं सुचिरं विचिन्त्य धाराधिरूढवैराग्यो राज्यं पुत्राय प्रदाय पिहितास्त्रवसूरिमुपेत्य परिव्रज्यामुपाददे सः । चिरं यथाविधि व्रतं पालयित्वा विंशतिस्थानकेभ्यः कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य शुभध्यानपरः स्वमायुः क्षपयित्वा नवमे ग्रैवेयके महर्द्धिरमरोऽभवत् ।
इतश्च जम्बूद्वीपे भरते वत्सदेशमण्डने सर्वसम्पन्ने कौशाम्बीनगरेऽखण्डिताज्ञो गुणराशिः पराक्रमी धरो नाम भूभृद् बभूव । तस्य च सतीशिरोमणिः सर्वाङ्गमनोहरा गुणसम्पन्ना सुसीमानाम्नी पल्यासीत् । तस्याः कुक्षौ माघकृष्णषष्ट्यां चित्रास्थे चन्द्रे ग्रैवेयकादेक त्रिंशत्सागरोपममायुः पूरयित्वा च्युत्वाऽपराजितजीवोऽवतार । तदा च सुसीमा मुखे प्रविशतश्चतुर्दश महास्वप्नांस्तीर्थकृज्जन्मसूचकान्
९८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः दृष्टवती । क्रमाच्च तस्मिन् गर्भे वर्धमाने देव्याः पद्मशय्यासु दोहदो नृपेण तत्क्षणं पर्यपूरि । ततो नवसु मासेषु सार्धाष्टमदिनेषु च व्यतीतेषु सुसीमा कार्तिककृष्णद्वादश्यां चित्रास्थे चन्द्रे पद्मवर्णं पद्मचिह्नं सुतमसूत | दिक्कुमार्यश्च तदानीमेत्य सूतिकर्म चक्रुः । शक्रश्चैत्य प्रभुं सुमेरुं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथाविधि स्नात्रादि विधाय भक्तितः स्तुत्वा द्रुतमादाय पुनः सुसीमापार्श्वे मुमोच ।
अथ प्रभुः पञ्चभिर्धात्रीभिर्लाल्यमानः सुरकुमारैः सह क्रीडन् प्रथमं वयोऽतीत्य क्रमेण द्वितीयं वयः प्रपन्नः सार्धधन्वद्विशत्युच्चः पित्रोरुपरोधाल्लोकानुवर्त्तनाच्च दारपरिग्रहं चक्रे । प्रभुर्जन्मतोऽर्धाष्टमेषु पूर्वलक्षेषु गतेषु पितुरनुरोधाद् राज्यभारमुपाददे । तत्र प्रजाः पालयन् पूर्वलक्षैकविंशतिं षोडशपूर्वाङ्गाणि चाऽतीत्य लोकान्तिकामरैः प्रार्थितो दीक्षेच्छुर्वार्षिकदानं ददौ । ततः प्रभुर्देवेन्द्रादिभिर्विहितदीक्षाभिषेकः शिबिकां निर्वृतिकराख्यामारुह्य सहस्त्राम्रवणं प्राप्तवान् । तत्र च कृतषष्ठः कार्तिककृष्णत्रयोदश्यां चित्रास्थे चन्द्रे नृपसहस्रेण समं प्राव्राजीत् । द्वितीयदिवसे ब्रह्मस्थले सोमदेवनृपगृहे परमान्नेन पारणं चकार । देवाश्च तत्र पञ्च दिव्यानि चक्रुः । नृपश्च प्रभुपादस्थाने रत्नपीठमकरोत् ।
***
ततः प्रभुः षण्मासान् छद्मस्थो विहत्य भूयः सहस्त्राम्रवणं प्राप्तो वटतरोस्तले षष्ठेन प्रतिमास्थस्तस्थौ । तेन च विनष्टे घातिकर्मणि चैत्रपूर्णिमायां चित्रास्थे चन्द्रे प्रभोरमलं केवलमुत्पन्नम् । ततो देवैः कृते समवसरणे यथाविधि रत्नसिंहासनमध्यास्य शक्रेण भक्त्या स्तुतो भगवान् धर्मदेशनां प्रारेभे - " एष संसारः पारावार इवाऽपार: प्राणिनश्चतुरशीतिलक्षयोनिषु पातयन् घोरश्च । हन्त ! इह देही नानोपाधि प्राप्नुवन् नटवच्चेष्टते । कर्मसम्बन्धाच्च प्राणी कां योनिं
Page #56
--------------------------------------------------------------------------
________________
तृतीयं पर्व - चतुर्थः सर्गः
न याति मुञ्चति वा ? समस्तलोकाकाशेऽपि वालाग्रमपि तद् नाऽस्ति यत् प्राणिभिः स्वकर्मवशगैर्न स्पृष्टम् । ते च संसारिणश्चतुर्विधा नारक - तिर्यङ् नरा - ऽमरा दुःखबहुलाः कर्मपीडिता: ।
आद्येषु त्रिषु नरकेषूष्णं परेषु च शीतं चतुर्थे तु शीतमुष्णं क्षेत्रोद्भवं दुःखम् । शीतोष्णेषु च नरकेषु लोहपर्वतमपि पतेच्चेत् तदपि विलीयेत विशीर्येत वा, न तु भुवं प्राप्नुयात् । एवमुदीरितमहादुःखाः क्षेत्रान्योन्यासुरकृतत्रिविधदुःखार्त्ता नरकावनौ वसन्ति । तत्र समुत्पन्नाश्च जीवाः परमाधार्मिकसुरैर्घटीयन्त्रेष्वाकृष्यन्ते, पाणिपादादौ गृहीत्वा वज्रकण्टके समास्फाल्यन्ते, क्रकचैर्दारुदारं विदार्यन्ते, चित्रयन्त्रैस्तिलपेषं पिष्यन्ते, पिपासार्त्तास्तप्तत्रपु-सीसकवाहिनीं वैतरणी नदीमवतार्यन्ते । छायेच्छवोऽसिपत्रवनं गताः पतद्भिः पत्रशस्त्रैस्तिलशोऽसृच्छिद्यन्ते । वज्रकण्टकाः शाल्मल्यस्तप्तायः पुत्रिकाश्च पारदारिकं संस्मार्य संश्लेष्यन्ते । मांसलोलत्वं संस्मार्य स्वाङ्गजं मांसमाश्यन्ते । मधुलौल्यं च प्रख्याप्य तापितं त्रपु पाय्यन्ते । तथा भ्राष्ट्रादिवेदना अनवरतमनुभाव्यन्ते । बकादिभिर्नेत्राद्यङ्गानि कृष्यन्ते । एवं सुखांशेनाऽपि वर्जिता महादुःखहता आ त्रयस्त्रिंशत्सागरोपमं कालं गमयन्ति ।
तिर्यञ्चोऽप्येकेन्द्रियादयः पृथिवीकाया हलादिशस्त्रैः पाट्यन्ते, अश्वादिभिर्मृद्यन्ते, वारिपूरैः प्लाव्यन्ते, दवाग्निना दह्यन्ते, लवणादिजलैर्व्यथ्यन्ते, उष्णवारिणा लवणक्षारतां प्राप्ताः क्वथ्यन्ते, कुम्भकाराद्यैः कुम्भेष्टकादिसात् कृत्वा पच्यन्ते, कर्दमरूपतां नीत्वा भित्तिमध्ये चीयन्ते च । अप्कायतां प्राप्ताश्च सूर्यांशुभिस्ताप्यन्ते, हिमैर्घनीक्रियन्ते, पांसुभिः शोष्यन्ते, पिपासितैः पीयन्ते, अनेकधा विपच्यन्ते च । तेज:कायतामाप्ताश्च जलादिभिर्विध्याप्यन्ते, घनादिभिः प्रकुट्यन्ते, काष्ठादिभिर्ज्याल्यन्ते च । वायुकायाश्च व्यजनादिभिर्हन्यन्ते, शीतादि
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः द्रव्यसम्बन्धात् क्षणे क्षणे विपद्यन्ते च । कन्दादिभेदतो दशधा वनस्पतित्वं प्राप्ताश्च च्छिद्यन्ते भिद्यन्ते पच्यन्ते पिष्यन्ते खाद्यन्ते भज्यन्ते भस्मसात् क्रियन्ते चेति सर्वदा क्लेशसन्ततिमनुभवन्ति ।
द्वीन्द्रिया अपि च पूतरादयस्ताप्यन्ते पीयन्ते च । कृयश्च चूर्ण्यन्ते, चटकादिभिः पक्षिभिर्भक्ष्यन्ते, शङ्खादयो निखन्यन्ते निष्कृष्यन्ते च । गण्डूपदाद्या जठरादौषधादिभिः पात्यन्ते च । त्रीन्द्रिया अपि षट्पदी- मत्कुणादयो देहेन विपद्यन्ते, उष्णवारिणा ताप्यन्ते, पिपीलिकाद्याः पादादिभिस्तुद्यन्ते, अदृश्यमानाः कुन्थ्वाद्याश्चाऽऽसनादिभिर्मथ्यन्ते च । चतुरिन्द्रियाश्च सरघादयो मधुभक्षादिभिस्ताड्यन्ते, दंश-मशकादयस्तालवृन्ताद्यैस्ताड्यन्ते, मक्षिकादयो गृहगोधिकाद्यैर्भक्ष्यन्ते च । पञ्चेन्द्रियाश्च जलचरा अन्योन्यं खाद्यन्ते, धीवरादिभिः परिभूयन्ते, विपच्यन्ते च । स्थलचराश्चाऽबला बलवद्भिर्हन्यन्ते, क्षुदादिवेदनां चाऽनुभवन्ति । खेचराश्च तित्तिर- शुकादयः श्येन गृध्रादिभि: शाकुनिकैश्च ग्रस्यन्ते सङ्गृह्य हन्यन्ते च । एवं जलादिभवमपि तिरश्चां भयं कियद् वर्ण्यते ?
१००
मनुष्याश्चाऽनार्यास्तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम्। चाण्डालादयश्चाऽपि तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च । दारि-व्याधि- जरादिभिश्च मानवा दुःखदशां प्रतिपद्यन्ते । गर्भवासश्च घोरनरकावासतुल्यः, यतस्तप्ताभिः सूचीभिः प्रतिरोम भिन्नस्य यद्दुःखं तदष्टगुणं दुःखं गर्भवासिनः । तन्निष्क्रमणे चाऽनन्तगुणं दुःखम् । बाल्ये च मूत्रादिभिर्यौवने रतचेष्टादिभिर्वार्धक्ये च श्वास-कासादिभिर्जनः पीड्यते । पूर्वं पुरीषसूकरस्ततो मदनगर्दभः, पश्चाच्च जराजरद्गवः । ततश्च पुमान् न कदाऽपि पुमान् । बाल्ये च मातृमुखस्तारुण्ये तरुणीमुखो वार्धक्ये सुतमुखः, तदेवं जीवो न कदाऽप्यन्तर्मुखो भवति । धनाशाविह्वलाश्च सेवादिभिरफलमेव जन्म
Page #57
--------------------------------------------------------------------------
________________
१०१
१०२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽऽसन्नं मोक्षकालं ज्ञात्वा प्रभः सम्मेताद्रिमपेत्य मासिकमनशनं व्यधात् । मार्गशीर्षे कृष्णैकादश्यां चित्रास्थे चन्द्रे क्षीणाशेषकर्मा सिद्धानन्तचतुष्कोऽनशनिनामष्टोत्तरशतत्रय्या सह चतुर्थाद् ध्यानाच्चतुर्थं पुमर्थमगमत् ।
तदेवं प्रभोः कौमारे सार्धाष्टमा: पूर्वलक्षाः, राज्ये षोडशाङ्गयुक् पूर्वलक्षाणां सार्धेकविंशतिः, व्रते षोडशाझ्या न्यूनं पूर्वलक्षम्, एवं मिलित्वा च त्रिंशत् पूर्वलक्षाण्यायुः पद्मप्रभोः । सुमतिस्वामिनिर्वाणाच्च सागरोपमकोटीनां सहस्रनवतौ गतायां पद्मप्रभोर्मोक्षोऽभूत् । इन्द्राश्चोपेत्य प्रभोर्मुनीनां च शरीरसंस्कारं निर्वाणकल्याणमहोत्सवं च चक्रुः ॥४॥ इति तृतीयपर्वणि पद्मप्रभुस्वामिचरितवर्णनात्मकः
चतुर्थः सर्गः ॥४॥
तृतीयं पर्व-चतुर्थः सर्गः क्षपयन्ति जनाः । चौर्यादिभिश्च पुन: पुनर्भवं भ्रमन्ति । सुखित्वे च कामचेष्टितैर्दुःखित्वे च दैन्य-रोदनैर्जन्म नयन्ति, न तु धर्मकर्मभिः । कर्मनाशक्षमं मानुषत्वं प्राप्तोऽपि जन: पापानि करोति ।
देवेष्वपि च शोकादिभिर्हतमतिषु दुःखसाम्राज्यमनुवर्तत एव । पुण्यतः स्वर्ग प्राप्ता अपि सुरा: कामक्रोधाद्यातुरा न स्वस्थास्तिष्ठन्ति, च्यवनचिह्नानि च दृष्ट्वा शोचन्ति । तथाहि तेषामम्लाना अपि माला मुखैः समं म्लानीभवन्ति, निश्चितच्यवनाश्च स्वर्लोकवस्तूनि स्मार स्मारं सर्वतो विलपन्तः क्वाऽपि नन्दनादिषु रति न लभन्ते । तदेवं संसारमसारं विचार्य शुभमतिर्जनः प्रव्रज्योपायेन विमुक्तये प्रयतेत"।
प्रभोस्तया देशनया प्रतिबुद्धाः सहस्रशो दीक्षां सम्यक्त्वं च प्रतिपेदिरे। सप्तोत्तरं शतं सुव्रताद्या गणभृतश्च प्रभोस्त्रिपदीं प्रपद्य द्वादशाङ्गी जग्रन्थुः । प्रभौ च देशनाविरते सुव्रतो देशनां ददौ । तस्मिन्नपि च विरते देवादयः प्रभुं प्रणम्य निजनिजस्थानं ययुः ।
तस्मिस्तीर्थे च समुत्पन्ने नीलाङ्गो मृगवाहन: फला-ऽभयधरौ दक्षिणी बाहू, वामौ च नकुला-ऽक्षिसूत्रधरौ धारयन् कुसुमो नाम यक्षः, श्यामाङ्गी नरवाहना वरद-पाशिनौ दक्षिणी बाहू कार्मुकाऽभयधरौ वामौ च धारयन्त्यच्युता च शासनदेवते प्रभोः पद्मप्रभस्य सदा सन्निहिते अभूताम् । ततो जगत्स्वामी ग्राम-पुरादिषु विजहार। __ तदानीं च प्रभोः परीवारे साधूनां त्रीणि लक्षाणि त्रिंशत् सहस्राश्च, साध्वीनां च चतुर्लक्षी विंशतिः सहस्राणि च, पूर्विणां द्वे सहस्र शतत्रयम्, अवधिज्ञानिनां दश सहस्राणि, मनःपर्ययिणां त्रीणि शतान्ययुतं च, केवलज्ञानिनां द्वादश सहस्राणि, जातवैक्रियलब्धीनां षोडश सहस्राणि शतमष्टोत्तरं च, वादलब्धिमतां नव सहस्राणि षट्शती च, श्रावकाणां लक्षद्वयं षट्सप्ततिसहस्त्री च, श्राविकाणां पञ्च लक्षाणि पञ्च सहस्री चाऽभवन् । प्रभुश्च केवलज्ञानकालतः षण्मास्या षोडशाङ्या चोनं पूर्वलक्षं विजहार ।
Page #58
--------------------------------------------------------------------------
________________
पञ्चमः सर्गः
श्रीसुपार्श्वनाथचरित्रम् ममत्वच्छेदनिपुणः सुपार्श्वः पार्श्ववर्तिनाम् । पृथ्वीप्रतिष्ठनेत्राब्ज-बोधको बोधकोऽस्तु वः ॥१॥
अथ धातकीखण्डद्वीपस्य प्राग्विदेहेषु रमणीये विजये क्षेमपुर्या पुर्यां वीतरागभक्तो धर्मपरायणो दीना-ऽनाथपालको नन्दिषेणो नाम नृपो बभूव । स च कियता कालेन भवोद्विग्नोऽरिदमनाचार्यमुपगम्य दीक्षामादाय व्रतं पालयन् कैश्चित् स्थानकैस्तीर्थकृन्नामकर्मोपार्ष्याऽनशनं विधाय मृत्वा षष्ठे ग्रैवेयके महर्द्धिरमरोऽभवत् ।
इतश्च जम्बूद्वीपस्य भरतक्षेत्रे काशिदेशमण्डनभूतायां वाराणस्यां पर्या पराक्रमी प्रतिष्ठो नाम न्यायनिष्ठो नृपो बभूव । तस्य च रूपशीलगुणादिसमन्विता सर्वाङ्गसुन्दरी पृथ्वीनाम्नी महिषी बभूव । तस्याश्च कुक्षौ नन्दिषणजीवः स्वमष्टाविंशतिसागरोपममायुः पूरयित्वा ग्रैवेयकाच्च्युत्वा भाद्रकृष्णाष्टम्यां विशाखास्थे चन्द्रेऽवातरत् । पृथ्वीदेवी च सुखसुप्ता निशाशेषे चतुर्दश महास्वप्नान् दृष्टवती । तथा स्वमेकफणे पञ्चफणे नवफणेऽपि च नागतल्पे सुप्तां ददर्श । पूर्णे च समये ज्येष्ठशुक्लद्वादश्यां विशाखास्थे चन्द्रे स्वर्णवर्णं स्वस्तिकाङ्क सुतमसूत । ततः षट्पञ्चाशद् दिक्कुमार्यः समुपेत्य सूतिकर्म विदधुः। शक्रश्च समुपेत्य प्रभुं समादाय मेरावतिपाण्डुकम्बलायां शिलायां सर्वैरिन्द्रैः सह स्नात्रादि यथाविधि विधाय विलिप्य वस्त्रादिभिः पूजयित्वा भक्त्या स्तुत्वा च ततः प्रभुमादाय समेत्य ८ शिष.भा-२
१०४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पृथ्वीदेव्याः पार्श्वे यथास्थिति मुमोच । नृपश्च महोत्सवपुरस्सरं गर्भस्थेऽस्मिन् जननी सुपार्वाऽभूदिति तस्य सुपार्श्व इति नामाऽकरोत् । ततः प्रभुः शक्रसङ्क्रमितागुष्ठसुधां पिबन् वर्धमानो बालक्रीडया शैशवमतीत्य सर्वलक्षणलक्षितो धनु:शतद्वयोत्तुङ्गो यौवनं प्रपद्य पित्रोरुपरोधाद् नृपपुत्री: परिणीय भोग्यं कर्म क्षपयितुं ताभिर्यथासुखमरंस्त ।
* ** ततो लोकान्तिकैर्देवस्तीर्थं प्रवर्तयेति प्रार्थितः स्वयंबुद्धो भगवान् दीक्षाग्रहणोत्सुको वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेको मनोहरां शिबिकामारुह्य सुरा-ऽसुरादिभिरन्वीयमानः सहस्राम्रवणं जगाम । भूषणादिकं मुक्त्वा शक्रन्यस्तं देवदूष्यं स्कन्धे बिभ्राणो ज्येष्ठशुक्लत्रयोदश्यां विशाखास्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्रवव्राज । तदानीमेव च प्रभोस्तुर्य ज्ञानमुत्पेदे । नारकाणामपि च क्षणं सुखमजायत । द्वितीयेऽह्नि च पाटलीखण्डनगरे महेन्द्रनृपगृहे परमान्नेन पारणं चक्रे । देवाश्च वसुधारादि दिव्यपञ्चकं विदधुः । महेन्द्रनृपश्च प्रभुपादस्थाने रत्नपीठं व्यधात् । ततः प्रभुः परीषहान् सहमानो मौनी विविधाः प्रतिमाः कुर्वन् ध्यानमास्थितश्छद्मस्थो नव मासान् महीं विजहार ।
ततः सहस्राम्रवणमेत्य शिरीषमूले षष्ठेन प्रतिमाधरोऽस्थात् । द्वितीयशुक्लध्यानान्ते च घातिकर्मसु क्षीणेषु फाल्गुनकृष्णषष्ठयां विशाखास्थे चन्द्रे सुपार्श्वस्वामिनोऽमलकेवलमुत्पेदे । तत: सुरैः समेत्य कृते समवसरणे प्राग्द्वारा प्रविश्य चैत्यप्रदक्षिणां कृत्वा 'तीर्थाय नम' इति वदन् प्राङ्मुख: सिंहासनमलङ्कृतवान् । पृथ्वीदेव्या स्वप्ने दृष्टं महोरगं च शक्रोऽपरं छत्रमिव प्रभोर्मूनि विचक्रे ।
Page #59
--------------------------------------------------------------------------
________________
१०६
तृतीयं पर्व-पञ्चमः सर्गः
१०५ तत्प्रभृति चाऽपरेष्वपि समवसरणेष्वेकफण: पञ्चफणो नवफणो वा नागोऽभूत् । ततः सर्वस्मिन् विधौ यथाविधि सम्पन्ने सङ्के देवादिषु च यथास्थानमुपविष्टेषु सौधर्मेन्द्रः प्रभुं प्रणम्य मूनि रचिताञ्जलिर्भक्त्या स्तुत्वा यथास्थानमुपाविशत् ।।
ततो भगवान् देशनां प्रारेभे-"आत्मनः सर्वमप्येतदन्यत् । अबुधो जनस्तत्कृते कर्म कृत्वा स्वं भवाब्धौ पातयति । यो हि देहादिभ्यो भिन्नमात्मानं पश्यति, तस्य कुतः शोकादिः ? आत्मदेहादिभेदश्च साक्षादेव प्रतीयते । देहप्रहारादिनाऽऽत्मपीडा च तेषां, येषामात्म-देहादावभेदबुद्धिर्नाऽन्येषां विवेकिनाम् । भेदं जानानो हि पितृदुःखेऽपि न पीड्येत । आत्मीयत्वाभिमानेन च भृत्यदु:खेऽपि मुह्यति । तस्मात् सर्वमप्येतद् भिन्नं ज्ञात्वा कस्याऽपि विनाशाद् न मुह्येत् । ममत्वं त्यक्त्वा हि शुद्धात्मा परिव्रज्याधरो नरः सुखेन भवं तरति" । तामेतां प्रभोर्देशनां श्रुत्वा प्रबुद्धा बहवो जनाः परिव्रज्या श्रावकत्वं च जगृहुः । विदर्भाद्याः पञ्चनवतिर्गणभृतश्च स्वामिनस्त्रिपदी प्रपद्य द्वादशाङ्गी चक्रुः । स्वामिनो देशनान्ते च विदर्भो गणभृत् स्वाम्यज्रिपीठस्थो धर्मदेशनां विदधे । तदन्ते च सुरादयः प्रभु नमस्कृत्य स्वं स्वं स्थानं ययुः ।
तत्तीर्थे च समुत्पन्ने नीलाङ्गो गजवाहनो बिल्व-पाशधरौ दक्षिणी करौ नकुला-ऽङ्कशधरौ वामौ च बिभ्राणो मातङ्गो नाम यक्षः, स्वर्णकान्तिर्गजवाहना वरदा-ऽक्षसूत्रधरौ दक्षिणौ करौ शूला-ऽभयधरौ वामौ च बिभ्राणा शान्तादेवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ततः स्वामी पङ्कजानि सूर्य इव भव्यभविनो बोधयन् भुवं विजहार ।
तदानीं च प्रभोः परीवारे साधूनां त्रिलक्षी, साध्वीनां सत्रिंशत्सहस्रिका चतुर्लक्षी, पूर्विणां त्रिंशदन्वितौ सहस्रो, अवधिज्ञानिनां नव सहस्राणि, मनःपर्ययिणां साधैकनवतिशती, केवलिनामेकादश
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सहस्राणि, जातवैक्रियलब्धीनां पञ्चदश सहस्राणि त्रिशती च, वादलब्धिमतां सचतुःशता अष्टौ सहस्राः, श्रावकाणां वे लक्षे सप्तपञ्चाशत् सहस्राणि च, श्राविकाणां पञ्चलक्षी सप्तभिः सहस्रैः रहिता चाऽभूवन् ।
केवलात् प्रभृति नवमास्या विंशत्यड्या च वजिते पूर्वलक्षे गते प्रभुः सम्मेतादिमुपेत्य मुनीनां पञ्चभिः शतैः सममनशनं प्रपद्य सुराऽसुरैः सेव्यमानो मासान्ते फाल्गुनकृष्णसप्तम्यां मूलस्थे चन्द्रे तैर्मुनिभिः सममव्ययं पदं जगाम ।
तदेवं प्रभोः कौमारे पञ्च पूर्वलक्षाणि, राज्ये विंशतिपूर्वाङ्ग्या युक्ताश्चतुर्दश पूर्वलक्षाः, व्रते च विंशतिपूर्वाङ्गीन्यूनं पूर्वलक्षमिति विशतिः पूर्वलक्षाण्यायः । श्रीपद्मप्रभजिननिर्वाणाच्च सागरोपमकोटीनां नवसु सहस्रेषु गतेषु सुपार्श्वस्वामिमोक्षोऽभूत् । अच्युतादयश्चेन्द्राः स्वामिनो मुनीनां चाऽग्निसंस्कारपूर्वकं मोक्षपर्वमहिमानं चक्रुः, यथाऽऽगतं स्वं स्वं धाम ययुश्च ॥ ५ ॥ इति तृतीयपर्वणि श्रीसुपार्श्वस्वामिचरितवर्णनात्मकः
पञ्चमः सर्गः ॥५॥
Page #60
--------------------------------------------------------------------------
________________
षष्ठः सर्गः श्रीचन्द्रप्रभजिनचरित्रम्
महासेनसुतः श्रीमान् लक्ष्मणाकुक्षिजो जिनः । चन्द्रप्रभो भवतमस्ततौ चन्द्रप्रभोऽवतु ॥ १ ॥ अथ धातकीखण्डद्वीपे प्राग्विदेहेषु मङ्गलावत्यां विजये रत्नसञ्चयायां पुरि लक्ष्मीविलासभूमिः पद्मो नाम नृपोऽभवत् । स नयेन प्रजाः पालयन् संसारविरक्तो भवच्छेदाय युगन्धरमुनेः प्रव्रज्यामग्रहीत । दान्तो जितेन्द्रियो निर्ममो व्रतं पालयन् स कैश्चित् स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य क्षीणायुर्मृत्वा वैजयन्तं विमानं जगाम ।
इतश्च जम्बूद्वीपे भरतक्षेत्रे चन्द्राननायां पुर्यां महासेनो नाम प्रतापी राजाऽऽसीत् । तस्य च लावण्यवत्या गुणग्रामसमग्राया लक्ष्मणानाम्न्या महिष्याः कुक्षौ त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा पद्मजीवो वैजयन्ताच्च्युत्वा चैत्रकृष्णपञ्चम्यामनुराधास्थे चन्द्रेऽवततार । तदानीं च सा लक्ष्मणा देवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । यथोचिते समये पूर्णे च सा पौषकृष्णद्वादश्यामनुराधास्थे चन्द्रे चन्द्राङ्कं चन्द्रवर्णं च पुत्ररत्नमसूत ।
तदानीं च षट्पञ्चाशद् दिक्कुमार्यस्तत्रैत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्चैत्य प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रैः सह यथाविधि स्नात्रं विधाय पुनर्लक्ष्मणादेव्याः पार्श्वे मुमोच । महासेननृपश्च समहोत्सवं गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रवर्णश्चैष इति च तस्य चन्द्रप्रभ इति नामाऽकरोत् । क्रमेण च स
षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः चन्द्रप्रभप्रभुर्बाललीलया शैशवमतिक्रम्य सार्धधन्वशतोत्तुङ्गी यौवनं प्रपद्य जन्मतः सार्धपूर्वलक्षद्वये गते पित्रोरुपरोधाद् नृपकन्याः परिणीय ताभी रममाणः प्रजाः पालयन् सार्धाः षट् पूर्वलक्षा अनैषीत् । *带来
१०८
अथ लोकान्तिकामरैः प्रार्थितो दीक्षेच्छुर्वार्षिकदानं प्रदायेन्द्रकृतदीक्षाभिषेको मनोरमां शिबिकामारुह्य सुरादिभिरन्वीयमानः सहस्त्राम्रवणं प्राप । पौषकृष्णत्रयोदश्यामनुराधास्थे चन्द्रे कृतषष्ठो नृपसहस्रेण समं प्रव्रज्यामादायोत्पन्नचतुर्थज्ञानो द्वितीयदिने पद्मखण्डपुरे सोमदत्तनृपसद्मनि परमान्नेन पारणं व्यधात् प्रभुः । शीतवाताऽऽतपादिपरीषहान् सहमानो मौनी निर्ग्रन्थस्त्रीन् मासान् महीं विहृत्य सहस्त्राम्रवणं प्राप्य पुन्नागतरुतले प्रतिमास्थस्तस्थौ । द्वितीयशुक्लध्यानान्ते च तस्य चन्द्रप्रभप्रभोः प्रणष्टेषु घातिकर्मसु फाल्गुनासितसप्तम्यामनुराधास्थे चन्द्रे कृतषष्ठस्योज्ज्वलं केवलमुत्पन्नम् ।
ततो देवैः कृते समवसरणे यथाविधि सिंहासनमध्यास्य शक्रस्तुतो भगवान् देशनां दातुमारेभे-"अनन्तक्लेशतरङ्ग एष भवसागरो जन्तून् प्रतिक्षणमितस्ततः क्षिपति । तन्निबन्धनं चाऽशुचावस्मिन् शरीरे प्रीति: । रसा - ऽसृगाद्यशुचिपदं हि कुतः शुचि ? नवद्वारै: स्रवल्लोहितस्य, गर्भे जरायुसञ्छन्नस्य, शुक्र- शोणितसम्भूतस्य, मलनि:स्यन्दवर्धितस्य, दोषधातुमलाद्याकीर्णस्य, कृम्याद्यास्पदस्य रोगार्त्तस्य चाऽस्य शरीरस्य कः शुचितां वदेत् ? यत्र च स्वादून्यप्यन्नादीनि भुक्तानि विष्ठायै जायन्ते, यक्षकर्दमोऽपि मलीभवति, गन्ध-धूपादयो दौर्गन्ध्यं यान्ति, तत् कथं शुचीभवेत् ? कायो हि सुराघट इव न केनाऽप्युपायेन शुचीभवति । तदनेनाऽसारेण शरीरेण सारं मोक्षफलं तपः कुर्यात्” ।
श्रुत्वा च प्रभोर्धर्मदेशनामेतां सहस्रशो नरा नार्यश्च प्रबुद्धाः प्राव्रजन् । दत्तादयस्त्रिनवतिर्गणधराश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीम
Page #61
--------------------------------------------------------------------------
________________
१०९
तृतीयं पर्व-षष्ठः सर्गः सूत्रयन् । प्रभोर्देशनान्ते च गणधरो दत्तो धर्मदेशनां विदधे । तदन्ते च प्रभुं नमस्कृत्य सुरादयः स्वं स्वं धाम ययुः ।
तत्तीर्थे च समुत्पन्ने हंसवाहनो दक्षिणे चक्रं वामे च भुजे मुद्गरं दधानो विजयो यक्षः, हंसवाहना पीताङ्गी दक्षिणौ बाहू खड्गमुद्गरधारिणौ वामौ च फलक-परशुधारिणौ दधाना भृकुटी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ततश्चन्द्रप्रभप्रभुः सपरिवारश्चन्द्रो गगनमिव भुवं विजहार ।
तदानीं च प्रभोः परिवारे साधूनां सार्धा द्विलक्षी, साध्वीनां साशीतिसहस्रा लक्षत्रयी, पूर्विणां द्वे सहस्रे, अवधिमतामशीतिशतं, मनःपर्ययिणां च तावदेव, केवलज्ञानिनां दश सहस्राणि, जातवैक्रियलब्धीनां चतुर्दश सहस्राणि, वादलब्धिमतां सप्तसहस्री षट्शतानि च, श्रावकाणां सार्धलक्षद्वयं, श्राविकाणां नवभिः सहस्रन्यूँनं लक्षपञ्चकमभवन् । __अथ प्रभुस्त्रिमासोनं चतुर्विशत्यङ्गवर्जितं पूर्वलक्षं विहत्य सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपेदे । मासान्ते सर्वयोगनिरोधपूर्वकनिष्कम्पध्यानमास्थितः क्षीणसर्वकर्मा भाद्रपदकृष्णसप्तम्यां श्रवणस्थे चन्द्रे तैर्मुनिभिः समं परमं धाम जगाम प्रभुः ।
तदेवं प्रभोः कौमारे सार्धपूर्वलक्षद्वयं, राज्ये चतुर्विशत्यङ्गसंयुताः सार्धाः षट् पूर्वलक्षाः, व्रते च चतुर्विशत्यङ्गहीनं पूर्वलक्षमिति दश पूर्वलक्षाणि चन्द्रप्रभजिनस्याऽऽयुः । सुपार्श्वजिननिर्वाणाच्च सागरोपमकोटीनां नवसु शतेषु गतेषु चन्द्रप्रभप्रभुनिर्वृतिरभूत् । शक्राश्च प्रभोर्मुनीनां चाऽग्निसंस्कारं विधाय विधिवद् यथापूर्व त्रिदिवं प्रपेदिरे ॥ ६॥ इति तृतीयपर्वणि श्रीचन्द्रप्रभस्वामिचरितवर्णनात्मकः
षष्ठः सर्गः ॥६॥
सप्तमः सर्गः
श्रीसुविधिनाथचरित्रम् दुर्विधानां सुविधिकृत्सुविधिः सुविधिर्जिनः । भव्यानां सद्धियै भूयाद् रामा-सुग्रीवनन्दनः ॥ १ ॥
अथ पुष्करद्वीपार्धे प्राग्विदेहेषु पुष्कले क्षेत्रे पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यामाजन्मस्वीकृतधर्मो महापद्मो नाम नृपो बभूव । स च न्यायेन प्रजाः पालयन् श्रावकधर्मनिरतो भवपारं यियासुर्जगन्नन्दमुनेः पुरः परिव्रज्यां जग्राह । दृढं व्रतं पालयंश्चैकावल्यादिभिस्तपोभिः कतिपयैः स्थानकैच तीर्थकृन्नामकर्मोपार्जितवान् । इत्थं च क्षीणायुर्वैजयन्ते विमाने महद्धिकोऽमरोऽभवत् ।
इतश्च जम्बूद्वीपे भरतार्धे दक्षिणे सर्वत: समृद्धायां काकन्द्यां नगर्यामव्याहताज्ञो नीतिमान् ख्यातकीर्तिः सुग्रीवो नाम नृप आसीत्। तस्य चाऽमलैर्गुणैरभिरामाया रामाया: पल्याः कुक्षौ महापद्मजीवस्त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा फाल्गुनकृष्णनवम्यां मूलस्थे चन्द्रे वैजयन्ताच्च्युत्वाऽवातरत् । देवी च तदानीं रात्रौ सुखसुप्ता निशाशेषे मुखे प्रविशतश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे च समये सा देवी मार्गशीर्षकृष्णपञ्चम्यां मूलस्थे चन्द्रे श्वेतवर्णं मकरात पुत्ररत्नमसूत ।
ततश्च दिक्कुमार्यो भोगकरादयः समेत्य यथाविधि सूतिकर्माणि चक्रुः । शक्रश्च समेत्य प्रभुं मेरौ नीत्वा तत्र यथाविधि यथापूर्व सर्वैरिन्द्रादिभिः सह प्रभोः स्नात्रं विधाय वस्त्रादिभिः पूजामारात्रिकं
Page #62
--------------------------------------------------------------------------
________________
तृतीयं पर्व-सप्तमः सर्गः च कृत्वा भक्त्या स्तुत्वा ततो नीत्वा रामास्वामिनीपावें मुक्त्वा निजस्थानं ययौ । पितरौ च शुभे दिने समहोत्सवम्-"अस्मिन् गर्भस्थे जननी सर्वविधिषु कुशलाऽभूदिति पुष्पदोहदतश्चाऽस्य दन्तोद्गमोऽभू"दिति च तस्य प्रभोः सुविधिरिति पुष्पदन्त इति च नामद्वयमकरोत् ।
जन्मतः प्रभृति च वयोऽनुरूपं क्रमशो वर्धमानः प्रभुयौवनं प्राप्य धनुःशतोच्चः पित्रोरनुरोधतो राजकन्या: परिणिन्ये । जन्मत: पूर्वपञ्चाशत्सहस्रयां गतायां च पितृदाक्षिण्याद् राज्यभारमुपाददे । साष्टाविंशतिपूर्वाङ्गं तावन्तं कालं च साम्राज्यं पालयामास ।
ततो लोकान्तिकदेवैर्बोधितो व्रतेच्छुर्भगवान् वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेकः सूरप्रभा नाम शिबिकामारुह्य सुराऽसुरादिभिरनुसृतः सहस्राम्रवणं प्राप । मार्गकृष्णषष्ठयां मूलस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण सहैव प्रव्रज्यामाददे । द्वितीयदिने च श्वेतपुरे पुरे पुष्पनृपगृहे परमान्नेन पारणं चकार । तदा च देवा वसुधारादिपञ्चकं नृपश्च स्वामिपादस्थाने रत्नपीठं विदधुः । ___ तत: प्रभुर्यथाविधि चतुर्मासी यावद् विहृत्य सहस्राम्रवणमागत्य बिल्ववृक्षमूले प्रतिमाधरस्तस्थौ । क्षपकश्रेणिमारूढस्य च तस्याऽपूर्वकरणक्रमेण कार्तिकशुक्लतृतीयायां मूलस्थे चन्द्रे उज्ज्वलं केवलमुत्पन्नम् । ततो देवैः कृते समवसरणे यथाविधि रत्नसिंहासनमध्यास्य शक्रेण स्तुतो भगवान् धर्मदेशनां प्रारेभे-“अयं भवोऽनन्तदुःखनिधानम् । तस्य च विषस्य महासर्प इवाऽऽस्रवः प्रभवः । मनो-वाक्-कायकर्माणि योगाः । यतश्च ते जन्तूनां शुभाशुभं कर्माऽऽस्त्रवन्ति, ततस्ते आस्रवाः कथिताः । मनश्च मैत्र्यादिभावनाभावितं शुभं, विपरीतं चाऽशुभं कर्म सूते । श्रुतज्ञानाश्रितं सत्यं वचश्च शुभं, विपरीतं चाऽशुभं कर्म सूते । सुगुप्तेन शरीरेण च देही शुभं,
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सततारम्भवता जन्तुघातकेन चाऽशुभं कर्म चिनुते । कषाया विषया योगाः प्रमादा-ऽविरती मिथ्यात्वमार्त्त-रौद्रध्याने चाऽशुभकर्महेतवः । तथा च यः कर्मपुद्गलादानहेतुः स आस्रवः ।।
कर्माणि च ज्ञानावरणीयादिभेदादष्टधा । ज्ञान-दर्शनयोस्तद्धेतूनां च विघ्न-निह्नव-पैशुन्या-ऽऽशातना-घात-मत्सरा आवारका आस्रवाः । तथा देवपूजा, गुरूपासना, पात्रदानं, दया, क्षमा, सरागसंयमो देशसंयमोऽकामनिर्जरा, शौचं, बालतपश्च सद्वेद्यस्याऽऽस्रवाः । असद्वेद्यस्य च स्वा-ऽन्यो-भयस्था दुःख-शोक-वध-तापा-ऽऽक्रन्दन-परिदेवनान्यास्रवाः । वीतरागे श्रुते सङ्घ धर्मे सर्वदेवेषु चाऽवर्णवादिता, तीव्रमिथ्यात्वपरिणामः, सर्वज्ञसिद्धि-देवापह्नवो, धार्मिकदूषणमुन्मार्गदेशनाऽनाग्रहोऽसंयतपूजनमसमीक्षितकारित्वं गुर्वाद्यवमाननादयश्च दृष्टिमोहस्याऽऽस्रवाः ।
कषायोदयत आत्मनस्तीव्रः परिणामश्चारित्रमोहनीयस्याऽऽश्रवः । हासस्य चोत्प्रासनं, सकन्दर्पोपहासो, हासशीलता, बहुप्रलापो, दैन्योक्तिश्चाऽऽस्रवाः । रतेश्चाऽङ्गोपाङ्गादिदर्शनौत्सुक्यं चित्रे रमणखेलने, परचित्तावर्जनं चाऽऽस्रवाः । अरतेश्चाऽसूया, पापशीलता, पररतिनाशनमकुशलप्रोत्साहनं चाऽऽस्रवाः। भयस्य च स्वयं भयपरिणामः, परेषां भापनं, त्रासनं, निर्दयत्वं चाऽऽस्रवाः । शोकस्य च परशोकोत्पादनं, स्वशोकोत्पाद-शोचने रोदनादिप्रवृत्तिश्चाऽऽस्रवाः । जगप्सायाश्च सपरिवाद-जगप्सने सदाचारजुगुप्सा चाऽऽस्रवाः । स्त्रीवेदस्य चेा-विषयगायें, मृषावादोऽतिवक्रता, परदारप्रसक्तिश्चाऽऽस्रवाः । पुंवेदस्य च स्वदारमात्रसन्तोषोऽनीा , मन्दकषायताऽवक्राचारशीलता चाऽऽस्त्रवाः। षण्ढवेदस्य च स्त्री-पंसा-ऽनङ्गसेवोनकषायास्तीवकामता, पाखण्डस्त्रीव्रतभ्रंशश्चाऽऽश्रवाः । चारित्रमोहनीयस्य च साधूनां गर्हणा, धर्मोन्मुखानां विघ्नकारिता, मधुमांसादिविरतानामविरत्यभिवर्णनं, विरता-ऽविरतानां मुहुरन्तराय
Page #63
--------------------------------------------------------------------------
________________
तृतीयं पर्व-सप्तमः सर्गः
११३ करणमचारित्रगुणाख्यानं चारित्रदूषणम्, अन्यस्थानां कषायनोकषायाणामुदीरणं चैते सामान्येनाऽऽस्रवाः ।
नरकायुषः पञ्चेन्द्रियप्राणिवधो, बह्वारम्भ-परिग्रहौ, निरनुग्रहता, मांसभोजनं, स्थिरवैरता, रौद्रध्यानं, मिथ्यात्वा-ऽनन्तानुबन्धिकषायते, कृष्ण-नील-कापोतलेश्या, अनृतभाषणं, परद्रव्यापहरणं, मैथुनसेवनमवशेन्द्रियता चाऽऽस्रवाः । तिर्यगायुषश्चोन्मार्गदेशना, मार्गप्रणाशो, गूढचित्तताऽऽर्तध्यानं, सशल्यत्वं माया, आरम्भ-परिग्रहौ, सातिचारे शीलव्रते, नील-कापोत-लेश्यताऽप्रत्याख्यानकषायाश्चाऽऽस्रवाः । मानुषायुषश्चाऽल्पपरिग्रहा-ऽऽरम्भौ, सहजमार्दवा-ऽऽर्जवे, कापोतपीतलेश्यात्वं, धर्मध्यानानुरागिता, प्रत्याख्यानकषायत्वं, मध्यमपरिणामः, संविभागविधायिता, देवतागुरुपूजनं, पूर्वालाप-प्रियालापौ, सुखप्रज्ञापनीयता, लोकयात्रासु माध्यस्थ्यं चाऽऽस्रवाः । देवायुषश्च सरागसंयमो, देशसंयमोऽकामनिर्जरा, कल्याणमित्रसम्पर्को, धर्मश्रवणशीलता, पात्रदानं, तपः, श्रद्धा, रत्नत्रयाविराधना, मृत्युकाले पद्मपीत-लेश्यापरिणामो, बालतपो-ऽग्निजलादिसाधनोल्लम्बनान्यव्यक्तसामायिकता चाऽऽस्रवाः ।
अशुभनाम्नश्च मनो-वाक्-कायवक्रता, परविप्रतारणं, मायाप्रयोगो, मिथ्यात्वं, पैशुन्यं, चलचित्तता, सुवर्णादिप्रतिच्छन्दकरणं, कूटसाक्षिता, वर्णाद्यन्यथापादनान्यङ्गादिच्यावनानि, यन्त्र-पञ्जरकर्म, कूटमान-तुलाकर्म, परनिन्दा-ऽऽत्मप्रशंसनं, हिंसा-ऽनृत-स्तेया-ऽब्रह्म-महारम्भपरिग्रहाः, परुषा-ऽसभ्यवचनं, शुचिवेषादिना मदो, मौखर्या-ऽऽक्रोशौ, सौभाग्योपघातः, कार्मणक्रिया, परकौतूहलोत्पादः, परहास-विडम्बने, वेश्यादीनामलङ्कारदानं, दावाग्निदीपनं, देवादिव्याजाद् गन्धादिचौर्य, तीव्रकषायता, चैत्य-प्रतिश्रया-ऽऽराम-प्रतिमाविनाशनमगारादिक्रिया चाऽऽस्रवाः । शुभनाम्नश्च पूर्वोक्ता अन्यथारूपास्तथा संसारभीरुता, प्रमादहानं, सद्भावार्पणं, क्षान्त्यादयो, धार्मिकाणां दर्शने सम्भ्रमः,
११४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वागतक्रिया चाऽऽस्रवाः । तीर्थकृन्नाम्नश्चाऽर्हत्-सिद्ध-गुरु-स्थविरबहुश्रुत-गच्छ-श्रुतज्ञान-तपस्विषु भक्तिरावश्यके व्रत-शीलेषु चाऽप्रमादो, विनीतता, ज्ञानाभ्यासस्तपस्त्यागौ, ध्यानं, प्रभावना, सङ्घ समाधिजननं, साधुषु वैयावृत्त्यमपूर्वज्ञानग्रहणं, दर्शनविशुद्धिश्चाऽऽस्रवाः । तत्राऽऽद्यन्ततीर्थनाथानामेते विंशतिरास्रवाः, अन्येषां च जिनेश्वराणामेको द्वौ त्रयः सर्वे वा स्पृष्टाः।
नीचैर्गोत्रस्य परनिन्दा-ऽवज्ञोपहासाः, सद्गुणलोपन, सदसद्दोषकथनमात्मप्रशंसा, सदसद्गुणशंसनं, सदोषाच्छादनं, जात्यादिभिर्मदश्चाऽऽस्रवाः । उच्चैर्गोत्रस्य च पूर्वोक्ता एवाऽन्यथारूपा विगतगर्वता, वाक्-काय-चित्तैविनयश्चाऽऽस्त्रवाः । अन्तरायकर्मणश्च दान-लाभवीर्य-भोगोपभोगेषु सव्याजा-ऽव्याजविघ्न आस्रवाः । तादृशास्रवजन्माऽयमपारो भवसागरः प्रव्रज्यायानपात्रेण तरणीयः"।
प्रभोरेवं देशनया च प्रबुद्धाः सहस्रशः प्राव्रजन् । प्रभोश्च वराहाद्या अष्टाशीतिर्गणभृतोऽभवन् । तत्र प्रभोर्देशनान्ते वराहो गणभृद् देशनां ददौ । तदन्ते च सुरादयः प्रभुं प्रणम्य स्वस्वस्थानं ययुः।
तत्तीर्थे च समुत्पन्ने श्वेताङ्गः कूर्मवाहनो मातुलिङ्गा-ऽक्षसूत्रिणी दक्षिणी बाहू वामौ च नकुल-कुन्तधारिणौ धारयन्नजितो यक्षः, गौराङ्गी वृषवाहना वरदा-ऽक्षसूत्रिणौ दक्षिणौ बाहू वामौ च कलशाऽङ्कुशिनौ दधाना सुतारादेवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । प्रभुश्च सपरिवारो भव्यान् बोधयन् महीं विजहार ।
केवलादारभ्याऽष्टाविंशत्यङ्ग्या चतुर्मास्या चोनं पूर्वलक्षं यावद् विहरमाणस्य च प्रभोः परीवारे साधुद्विलक्षी, साध्वीनां विंशतिसहस्रयुग्लक्षम्, अवधिज्ञानिनां सचतुःशता अष्टौ सहस्राः, पूविणां सार्ध सहस्रं, मनःपर्ययिणां केवलिनां च पञ्चसप्ततिशती, जातवैक्रियलब्धीनां त्रयोदश सहस्राणि, वादलब्धिमतां षट् सहस्राणि, श्रावकाणां सैकोनत्रिंशत्सहस्रा द्विलक्षी, श्राविकाणां द्वासप्ततिसहस्रयुक् चतुर्लक्षी चाऽभवन्।
Page #64
--------------------------------------------------------------------------
________________
तृतीयं पर्व-सप्तमः सर्गः
११५ ततो निर्वाणसमयं ज्ञात्वा सम्मेताद्रिं गत्वा मुनिसहस्रेण सममनशनं प्रपन्नो मासान्ते भाद्रपदे कृष्णनवम्यां मूलस्थे चन्द्रे शैलेशीध्यानलीन: प्रभुस्तैर्मुनिभिः सममव्ययं पदं प्राप ।
तदेवं प्रभोः कौमारे पूर्वलक्षार्ध, राज्ये चाऽष्टाविंशत्याऽङ्गैर्युक्तं पूर्वलक्षार्धं, व्रतेऽष्टाविंशत्यङ्गहीनं पूर्वलक्षमिति पूर्वलक्षे द्वे आयुः सुविधिस्वामिनोऽभवत् । श्रीचन्द्रप्रभजिननिर्वाणाच्च सागरोपमकोटीनां नवतौ गतायां सुविधिस्वामिनिर्वृतिरभूत् । शक्राश्च विधिवदर्हतो मुनीनां चाऽग्निसंस्कारं विधाय निर्वाणमहिमानं कृत्वा स्वं स्वं धाम ययुः। ___ततः सुविधिस्वामिनिष्णात् कियत्यपि काले गते हुण्डावसर्पिणीदोषात् साधूच्छेदो जातः । अज्ञाश्च स्थविर श्रावकान् धर्ममपृच्छन् । तथा तेषां श्रावकोचितामर्थपूजां विदधिरे । पूजया च जातगर्द्धास्ते श्रावकास्तत्क्षणं शास्त्राण्यासूत्र्य विविधानि महाफलानि दानान्याचक्षिरे । ते गृध्नवोऽन्वहमत्र चाऽमुत्र च निश्चितं महाफलं कन्यादानादिकं व्याचख्युः । दानस्योचितं पात्रं स्वमपात्रं चाऽपरमूचुः । निर्वक्षे देशे एरण्डस्येव च ते वञ्चका लोकानां गुरुतामीयुः । एवमाशीतलस्वामितीर्थं तीर्थोच्छेदो जज्ञे । आशान्तिजिनेशं च मिथ्यात्वमभूत् । एवमन्येष्वपि षट्सु जिनान्तरेष्वभूत् । तीर्थप्रणाशाच्च तेषु मिथ्यादृशामस्खलितः प्रचारोऽभवत् ॥ ७ ॥ इति तृतीयपर्वणि श्रीसुविधिस्वामिचरितवर्णनात्मकः
सप्तमः सर्गः ॥७॥
अष्टमः सर्गः
श्रीशीतलनाथचरित्रम् भवोग्रतापतप्तानां मुक्तिशीतोपचारतः । शीतल: शीतलो जीयाद् नन्दा-दृढरथात्मजः ॥ १ ॥
अथ पुष्करद्वीपार्धे प्राग्विदेहेषु वत्साख्ये विजये सुसीमायां नगर्यामलध्यशासनो धर्मपरायणः करुणापर: पद्मोत्तराख्यो नृपो बभूव । स च संसारवासविरक्तः प्राज्यमपि राज्यमुत्सृज्य स्रस्ताघसूरिपादान्ते प्रव्रज्यामुपाददे । तथा निरतीचारं व्रतं पालयन् आगमोदितैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ तपोभिः सकलं जन्माऽतीत्य प्राणतेश्वरोऽभवत् ।
इतश्च जम्बूद्वीपे भरतक्षेत्रे प्राकारादिशोभिते समृद्धिप्रचुरे भद्रिलपुरे सकलभूपालनमस्कृतो ज्ञानी दानी च दृढरथो नाम नृपो बभूव । तस्य च सर्वसतीशिरोमणिभूतायाः सर्वसामुद्रिकलक्षणलक्षिताया: नन्दानाम्न्याः पत्न्याः कुक्षौ विंशतिसागरोपममायुः पूरयित्वा पद्मोत्तरजीवो वैशाखकृष्णषष्ठ्यां पूर्वाषाढास्थिते चन्द्रेऽवातरत् । तदानीं च नन्दादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती। पूर्णे च समये माघकृष्णद्वादश्यां पूर्वाषाढास्थे चन्द्रे स्वर्णवर्ण श्रीवत्साकं पुत्ररत्नं सुषुवे ।
तदा च षट्पञ्चाशद् दिक्कुमार्यः समेत्य सूतिकर्म चक्रुः । शक्रश्च स्वामिनं मेरुमुपनीय सर्वैरेवेन्द्रादिभिः सह प्रभोः स्नात्रादि विधाय
Page #65
--------------------------------------------------------------------------
________________
तृतीयं पर्व-अष्टमः सर्गः
११७ नन्दापार्श्वे यथापूर्वममुञ्चत् । दृढरथश्चाऽपि समहोत्सवम् -"तस्मिन् गर्भस्थे राज्ञः सन्तप्तमप्यङ्ग नन्दास्पर्शेन शीतलमभू"दिति तस्य शीतल इति नामाऽकरोत् । दिव्यधात्रीभिः पाल्यमानश्च प्रभुः क्रमेण शैशवमुल्लङ्घ्य यौवनं प्राप्तो नवतिधन्वोच्चो विषयविरक्तोऽपि पितृप्रार्थितो राजकन्या: परिणिनाय । तथा पूर्वसहस्राणां पञ्चविंशतौ गतायां पितृदाक्षिण्याद् राज्यभारमुपादाय पञ्चाशत् पूर्वसहस्रा यावत् प्रजाः पालयामास ।
अथ प्रभुः संसारोद्विग्नो लोकान्तिकामरैस्तीर्थप्रवर्तनाय प्रार्थितो वार्षिकदानं प्रदाय वासवैः कृतदीक्षाभिषेकश्चन्द्रप्रभां शिबिकामारुरोह । सुरा-ऽसुरादिभिरन्वीयमानः सहस्राम्रवणं प्राप्य भूषणादिकं परित्यज्य कृतषष्ठो नृपसहस्रेण समं प्रव्रज्यामुपाददे । द्वितीयदिवसे च रिष्टपुरे पुनर्वसुनृपगृहे परमान्नेन पारणं विधाय परीषहान् सहमानश्छद्मस्थस्त्रीन् मासान् महीं विजहार । पुनः सहस्राम्रवणं प्राप्य प्लक्षतरुतले प्रतिमास्थितो द्वितीयं शुक्लध्यानं प्रपन्नो भगवान् रिपूनिव घातिकर्माण्युदमूमुलत् । ततश्च शीतलप्रभोः पौषकृष्णचतुर्दश्यां पूर्वाषाढास्थे चन्द्रे समुज्ज्वलं केवलमुत्पन्नम् । ___ तत: स्वामी देवैर्विहिते समवसरणे यथाविधि प्रविश्य सिंहासनमध्यास्य सर्वेषु सुरादिषु यथास्थानमुपविष्टेषु शक्रस्तुतो मधुरया गिरा धर्मदेशनां प्रारेभे-"संसारे सर्वं क्षणिकं नानादुःखनिबन्धनं च तस्माद् मोक्षाय यतितव्यम् । मोक्षश्च संवराद् भवति । सर्वात्रवनिरोधरूप: संवरश्च द्रव्य-भावभेदाद् द्विविधः । तत्र कर्मपुद्गलादानच्छेदो द्रव्यसंवरः, भवहेतुक्रियात्यागश्च भावसंवरः । तथा येनोपायेन य आस्रवो निरुध्यते, तन्निरोधाय स एव योजनीयः ।
तत्र क्षमा-मार्दवा-ऽऽर्जवा-उनीहाभिः क्रमशः क्रोध-मानमाया-लोभान् रुन्ध्यात् । विषसन्निभान् विषयांश्चाऽखण्डेन संयमेन
११८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निराकुर्यात् । तिसृभिर्गुप्तिभिर्योगान्, अप्रमादतः प्रमादान्, सावद्ययोगप्रत्याख्यानेनाऽविरति, सद्दर्शनेन मिथ्यात्वं, चेतसः शुभस्थिरतयाऽऽर्तरौद्रध्याने च संवरार्थं कृतोद्यमः साधयेत् । तदेवमास्रवद्वारेषु योगादिषु सर्वतो निरुद्धेषु गृहे इव संवरशालिनि जीवे कर्मद्रव्यप्रवेशो न भवति । संवरादास्रवद्वारनिरोध: क्षान्त्यादिभेदाद् बहुधा प्रतिपादितः। तत्र मिथ्यात्वानुदयाद् मिथ्यात्वसंवरः। देशविरत्यादावविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरः । प्रशान्तक्षीणमोहादौ कषायसंवरः । अयोग्याख्यकेवलिनि योगसंवरश्च जायते। तदेवं संवरेण यानपात्रेण सुधीर्भवाम्बुधेरन्तं व्रजेत्"।
प्रभोश्चैतया देशनया प्रबुद्धा बहवो जना दीक्षां प्रतिपेदिरे, कियन्तश्च श्रावकतां प्रपन्नाः । प्रभोर्देशनान्ते चाऽऽनन्दादिष्वेकाशीतौ गणभृत्स्वानन्दो देशनां विदधे । तदन्ते च सुरादयो जगद्गुरुं नमस्कृत्य स्वं स्वं धाम ययुः ।
तत्तीर्थे च समुत्पन्ने पद्मासनश्चतुर्मुख: श्वेतवर्णश्चतुभिर्दक्षिणैर्भुजैर्मातुलिङ्ग-मुद्गर-पाशा-ऽभयधरो वामैश्च नकुल-गदा-ऽङ्कुशाऽक्षसूत्रधरो ब्रह्मनामा यक्षः, मुद्गवर्णाऽब्दवाहना दक्षिणाभ्यां भुजाभ्यां वरद-पाशधरा वामाभ्यां च फला-ऽङ्कुशधराऽशोका नाम्नी देवी च शासनदेवते दशमाहतः सन्निहिते अभूताम् । ताभ्यामुपास्यमानश्च शीतलो जिनस्त्रिमासोनां पूर्वसहस्राणां पञ्चविंशति विजहे ।
तदानीं च प्रभोः परीवारे मुनीनां लक्षं, साध्वीनां षडुत्तरं लक्षं, पूर्विणां चतुर्दश शतानि, अवधिज्ञानिनां द्वासप्ततिशती, मनःपर्यायिणां सार्धा सप्तसहस्री, केवलिनां सप्ततिशतानि, वैक्रियलब्धिमतां द्वादशसहस्री, वादलब्धिमतामष्टपञ्चाशच्छतानि, श्रावकाणामुभे लक्षे नवाशीतिसहस्री च, श्राविकाणामष्टपञ्चाशत्सहस्रयुक् चतुर्लक्षी चाऽभवन् ।
Page #66
--------------------------------------------------------------------------
________________
तृतीयं पर्व - अष्टमः सर्गः
११९
अथ मोक्षकालं ज्ञात्वा सम्मेताद्रिं प्राप्य मुनिसहस्रेण सममनशनं प्रपन्नो मासान्ते वैशाखकृष्णद्वितीयायां पूर्वाषाढागते चन्द्रे स्वामी मोक्षमगात् ।
तदेवं प्रभोः कौमारे पूर्वसहस्राणां पञ्चविंशतिः, राज्ये पञ्चाशत् पूर्वसहस्राः, व्रते पूर्वसहस्राणां पञ्चविंशतिरिति मिलित्वा पूर्वलक्षमायुः । सुविधिस्वामिनिर्वाणाच्च नवसु सागरोपमकोटिषु व्यतीतासु शीतलप्रभोर्निर्वाणमभूत् । देवादयश्च प्रभोर्मुनीनां चाऽग्निसंस्कारं विधाय निर्वाणमहोत्सवं चक्रुर्निजनिजं लोकं ययुश्च ॥ ८ ॥ इति तृतीयपर्वणि श्रीशीतलस्वामिचरितवर्णनात्मकः अष्टमः सर्गः ॥८॥
श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे । ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥ १ ॥
इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज - राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार
समयज्ञ-शान्तमूर्त्याचार्यवर्य श्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि- प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ - कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे तृतीयपर्वणि
समाप्तं श्रीसम्भवजिनादि-शीतलजिनपर्यन्त-जिनाष्टकचरितप्रतिबद्ध तृतीयं पर्व ॥३॥
९ त्रिप. भा-२
१२०
परिखा प्राकारः
मुखवस्विका
कङ्काल: उपचिकीर्षां
वाजी
अंशुकम्
वारयोषित्
मृगया
दुकूलम्
पङ्किल:
उद्ग्रीवः सार्वजनीनः वीजनम्
अगला
क्लेदः
वदान्यः
अलका
यवनिका
ग्रैवेयकम्
करपल्लवः
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
कठिनशब्दार्थः
द्वितीयं पर्व
प्रथमः सर्गः ખાઈ भेट, वार्ड મુહપત્તિ
भृङ्गारः
હાડપીંજર
कदलीगृहम् ઉપકાર કરવાની उलूलध्वनिः
ઇચ્છા
ઘોડો
વસ્ત્ર
વેશ્યા
શિકાર
ઝીણું વસ્ત્ર
કાદવવાળું ઊંચી ડોકવાળો લોકમાન્ય વીંઝણો, પંખો
આગળીઓ ભીનાશ, આર્દ્રતા द्वितीयः सर्गः
ઉદાર
કુબેરનગરી પડદો
ડોકમાં પહેરવાનો દાગીનો
આંગળી
That Fundator
शालभञ्जी પૂતળી किङ्किणीजालम् धुधरीनो समूह
વજ્રની વેદિકા
वज्रवेदिः
ताम्बूलम्
घर्घरका
उष्णीषः
करेणुः
करी
वैतालिकः
उपहारः
पदातिः
वेत्रासनम्
उत्सेधः
गव्यूतम्
घनवातः
સોનાનું જળપાત્ર
કેળનું ઘર
વિવાહાદિ મહોત્સવમાં સ્ત્રીઓનો હર્ષનો
અવાજ
सोपारी,
નાગરવેલનું પાન
तृतीयः सर्गः
ઘુઘરી, ઘંટડી પાઘડી
હાથણી
હાથી
માર્ગ, રસ્તો
भाट, भारत મેટલું
પગે ચાલનાર નેતરનું આસન
ઊંચાઈ ગાઉ
એક પ્રકારનો કઠિન વાયુ
Page #67
--------------------------------------------------------------------------
________________ कठिनशब्दार्थ 121 122 चिन त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः આનંદદાયક | પુરના ઇન્દ્ર બખ્તર ધારી શકે | કરી કાસમ્ હાડકાં તેવી ઉમરવાળો कवचहर: કુમાર दित्सुः घनोदधिः સઘન પાણી માઈ: કોળું વિજm: વિસ્તાર आयामः લંબાઈ अवगाढः ઊંડાણ अलिञ्जरः માટીનું વિશેષ વાસણનું નામ उत्तोलितः ઊંચે ફેંકાયેલ चूलिका શિખર चङ्गेरी છાબડી अक्षवाटिका શિલ્પની પરિભાષાનો શબ્દ पुष्करिणी નાનું જળાશય कूर्पर: કોણી वासवः ઇન્દ્ર आमयः રોગ बीजपूरः બીજોરું વાર્થ: : ચક્રનો ઉપરનો ઘેરાવો (પરિધિ) स्कन्धावारः છાવણી, પડાવ સૈન્ય વને મ; જંગલી હાથી पारिपाश्चिक: નોકર वाह्याली અશ્વની ક્રીડાભૂમિ સૂનાહ્ય: ઉદ્ધત ઘોડો વેગપૂર્વક झम्पा કૂદકો कञ्चुकी અંતઃપુરનો અધિકારી પશ્ચમ: : द्रविणम् અનૂ: ઘુવડ સમળો પક્ષી ઘોડો अनंलिहः ગગનચુંબી तृणपूल: ઘાસનો પૂળો પE: : આપવાની ઇચ્છાવાળો विदिदीर्घः ફાડી નાંખવાની ઇચ્છાવાળો न्यासधरः થાપણ સાચવનાર जीवातुकल्पा જીવાડનાર તુલ્ય अत्याहितम् અત્યંત બીક પેદા કરે તેવું भूयिष्ठम् ઘણું कुलिश: ઇન્દ્રનું વજ आसनायुक्तः સ્થાન આપવાના અધિકારી उद्यानवीथिका બગીચાની હારમાળા उपायनम् ભેટયું चन्द्रशाला અગાસી પરંત: એક પ્રકારનું વાજિંત્ર शम्बरः દેવ વિશેષ નામ फलकम् હાલ विहायोवद् પક્ષીની જેમ निवापः પિતૃને ઉદ્દેશીને અપાતું દાન. स्यन्दनः રથ भृगु જયાંથી ઝંપાપાત કરી શકાય તેવું ગિરિશિખર लोकम्पृणः જગતને नेमीकः तृतीयं पर्व પ્રથમ: સઃ मत्कुणः માંકડ રસોઈયો पिपीलिका કીડી અવંતૂનવત્ આંકડો અને રૂની सरघा મધમાખી જેમ गृहगोधिका ગરોળી માતુતિઃ બીજોરું ધોવર: માછીમાર તિય: સ: तित्तिरः તેતર પક્ષી પનવ : વાંદરો श्येन: બાજ પક્ષી તૃતીયઃ સf: शाकुनिकः પક્ષીઓને મારનાર स्नुषा પુત્રવધૂ ગીધ પક્ષી દૈવયોગે दिष्टिः સ: ઉધરસ આ : અપરાધ पौलोमी कार्मुकम् ઇન્દ્રાણી और्ध्वदेहिकम् મરેલાની પઝમ: સા: મરણતિથિએ महोरगः મોટો સર્પ ખવાતું પિંડાદિ પ: સf: શધ્યા असृग् લોહી વૈતુર્થ: : સપ્તમ: સ: જd: કરવો यियासुः જવાની शाल्मलिः શીમળાનું ઝાડ ઇચ્છાવાળો તપેલ લોખંડની बिल्वः બિલીનું ઝાડ પૂતળી શઠ, છૂપાવનાર भ्राष्ट्रम् તવીમાં સેકાવું ગુણ ઉપર व्यजनम् વીંઝણો, પંખો દોષારોપણ કરનાર गण्डूपदः જંતુ વિશેષ નામ લોભી पूतरः પોરા पैशुन्यम् ચાડી, ચુગલી षट्पदी જૂ, ભમરી प्लक्षतरुः પીપળાનું ઝાડ अनीकम् तल्यम् निङ्गवः असूया