SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ पद्यात्मकं महाकाव्यप्रौढिसमलकृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सूरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानी फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताभ्यासिनां यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् । ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्रार्थिनो वयमिति शम्। विषयानुक्रमः द्वितीयं पर्व प्रथमः सर्गः विषयः विमलवाहनस्य वैराग्यम् अरिन्दमाचार्यचरितम् विमलवाहनस्य मन्त्रिकुमारादिबोधनम् विमलवाहनस्य व्रतग्रहणादिवृत्तान्तः द्वितीयः सर्गः जितशत्रुनृपकथा अजितजिनस्य गर्भावतारादिवृत्तान्तः सगरजन्मवृत्तान्त: तृतीयः सर्गः अजितजिन-सगरयोर्खाल्यादिवर्णनम् जितशत्रुनृपस्य दीक्षादिवृत्तान्तः अजितजिनस्य वैराग्यम् सगरराज्याभिषेक: अजितजिनदीक्षादिवृत्तान्तः समवसरणवर्णनम् अजितजिनदेशनायां ध्यानादिविवरणम् कर्मप्रकृतिविवरणम् नरकनिरूपणम् भवनपत्यादिवर्णनम् जम्बूद्वीपादिवर्णनम् कल्पादिवर्णनम् सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे - शीलचन्द्रविजयः
SR No.009892
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages67
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy