________________
द्वितीयं पर्व प्रथमः सर्गः
९
चिकित्सां च नैच्छत् । संस्तृतेषु तृणादिषु च तत्स्पर्शजं दुःखं सेहे, मृदूनि तृणादीनि च नैच्छत् ।
अङ्गेषु क्लेदादिभिर्मले जातेऽपि स्नातुं नैच्छत् । नाऽप्युदवर्त्तयत्, न वोद्विविजे । अभ्युत्थानादिषु सस्पृहो नाऽभवत् असत्कारे न व्यषीदत्, सत्कारे वा न मुमोद । स्वस्मिन्नप्रज्ञतां प्रज्ञावतां प्रज्ञां च जानन्न व्यषीदन्न वा मुमोद । ज्ञानचारित्रयुक्तोऽपि छद्मस्थोऽहमित्यज्ञानं विषेहे । सम्यग्दर्शनवांश्च स जिनोक्तजीवादि न मृषेत्यमन्यत । वशी स उक्तप्रकारेण शारीरान् मानसांश्च स्वपरसम्भवान् परीषहान् विषेहे । स सततमर्हध्यानैकतानो बभूव । तथा स सिद्ध-गुरु- बहुश्रुतस्थविर तपस्वि - श्रुतज्ञान- सङ्घादिषु भक्तिमान् बभूव । एवं स दुर्लभानि तीर्थकर कर्मोपार्जनान्यपराण्यपि स्थानकानि निषेवितवान् । एकावल्यादि ज्येष्ठ कनिष्ठं च व्रतं चकार । मासोपवासादारभ्याऽष्टमासोपवासान्तं कर्मनिर्जरार्थमुपवासतपश्चकार ।
एवं समतापरायणः स तीव्रं तपस्तप्त्वा संलेखनाद्वयं कृत्वा प्रान्तसमयेऽनशनं प्रपद्य समाहितः पञ्चपरमेष्ठिनमस्कारं स्मरन् देहत्यागं कृत्वाऽनुत्तरविमानेषु विजयाख्ये विमाने त्रयस्त्रिंशत्सागरोपमायुरमरो जात: । तत्र च चारुभूषणभूषितो, निरहङ्कारश्चन्द्रकरोज्वलो, हस्तमात्रतनुः, सर्वदा निष्प्रतीकारः, सुखशय्यामधिष्ठितः, स्थानान्तरमगाम्यनिर्मितोत्तरवैक्रियोऽवधिज्ञानेन लोकनाडीं पश्यन्नहमिन्द्रो निर्वाणसुखतुल्यमुत्तमं सुखमन्वभूत् । तथा स तत्र त्रयस्त्रिंशता पक्षैर्निःश्वसितं त्रयस्त्रिंशद्वर्षसहस्त्रैश्च भक्ष्येच्छां व्यधात् । मासषट्कायुः शेषे चाऽपरदेववत् तस्य मोहो नाऽभूत्, प्रत्युताऽऽसन्नपुण्यत्वात् तेजो व्यवर्धत । एवमद्वैतसुखसागरमग्नो निजमायुरेकाहवद् निर्गमयाञ्चकार ॥ १ ॥ इति द्वितीयपर्वणि श्री अजितस्वामिपूर्वभववर्णनात्मकः प्रथमः सर्गः ॥ १ ॥
द्वितीयः सर्गः
अथाऽस्य जम्बूद्वीपस्य भरतक्षेत्रे पृथिव्याः शिरोमणिरिव विनीतानाम्नी नगर्यस्ति । तस्यामादीश्वरमोक्षकालानन्तरं सङ्ख्यातीतेष्विक्ष्वाकुवंश्येषु राजसु सिद्धिं सर्वार्थसिद्धं च निरन्तरं गतेषु विश्वसन्तापापहारको जितशत्रुनामा महीपतिर्बभूव । स यशस्वी समुत्साहादिगुणोपेतः श्रीमान् धीरो लोकाह्लादकः सर्वनरदेवमनोज्ञो दिगन्तशासनो जगदुत्तमो वदान्यो धर्ममतिश्चाऽऽसीत् । तस्याऽनुजश्च महापराक्रमः सुमित्रविजयो नाम युवराजोऽभूत्, जितशत्रोश्च भार्या सर्वाङ्गसुन्दरी शीलगुणभूषणा कलावती विजयानाम्नी लक्ष्मीसरस्वतीप्रतिनिधिभूतेवाऽऽसीत् ।
विमलवाहनजीवश्च विजयाच्च्युत्वा विजयागर्भे वैशाखशुक्लत्रयोदश्यां रोहिणीगतचन्द्रे ज्ञानत्रयधरः पुत्रत्वेनोत्पेदे । तस्मिन् समये च क्षणं तद्गर्भप्रभावाद् नारकाणामपि सुखमुत्पेदे । तस्या रात्रेश्चतुर्थे प्रहरे च विजयादेव्या स्वप्ने प्रसिद्धा गजादयश्चतुर्दशाऽम्भोजे भ्रमरा इव मुखे प्रविशन्तो ऽदृश्यन्त । तदानीं च सिंहासनप्रकम्पेन शक्रोऽवधिं प्रयुज्य तीर्थकृतो गर्भावतारं ज्ञात्वा पुलकिततनुर्दध्यौ "अनुत्तरविमानतो विजयाच्च्युत्वेदानीं जम्बूद्वीपे याम्यभरतार्धमध्यखण्डमध्ये विनीतापुर्यां जितशत्रुनृपस्य भार्याया विजयादेव्याः कुक्षाववतीर्णो भगवानेतस्यामवसर्पिण्यां दयालुर्द्वितीयस्तीर्थकरो भविष्यति । एवं ध्यात्वा ससम्भ्रमं सिंहासनादि त्यक्त्वा तीर्थवृद्दिक्सम्मुखं सप्ताष्टपदानि गत्वा कृतोत्तरासङ्गो भुवि दक्षिणं जानु निधाय वामं च किञ्चन विनम्य शिरसा पाणिभ्यां च संस्पृष्टभूमिः शक्रस्तवपूर्वकं जिनमवन्दिष्ट ।