________________
८७
तृतीयं पर्व-द्वितीयः सर्गः सहस्रा, वादलब्धिमतामेकादश सहस्राणि, श्रावकाणामष्टाशीतिसहस्त्रयुग् लक्षद्वयं, श्राविकाणां सप्तविंशतिसहस्रयुक् पञ्चलक्षी चाऽजायन्त। ____ अथ केवलादष्टाङ्ग्याऽष्टादशाब्द्योने पूर्वलक्षे गते प्रभुनिर्वाणकालं ज्ञात्वा सम्मेताद्रिमुपेत्य मुनिसहस्रेण समं प्रपन्नानशनः सुरेन्द्रादिभिः सेव्यमानो मासं स्थितवान् । भवोपग्राहिकर्मभिच्छैलेशीध्यानमास्थाय सिद्धानन्तचतुष्को वैशाखमासस्य सिताष्टम्यां पुष्यस्थे चन्द्रे मुनिसहस्रेण समं परमं पदं प्राप।
तदेवं प्रभोरभिनन्दनस्य कौमारे सार्धद्वादश पूर्वलक्षाः, राज्येऽष्टाङ्गयुतानि सार्धषट्त्रिंशद् लक्षाणि, प्रव्रज्यायामष्टाङ्गोनं पूर्वलक्षमगमन् । तदेवं प्रभोः पञ्चाशत् पूर्वलक्षाणि यावदायुरभवत् । सम्भवस्वामिनिर्वाणाच्च दशसु सागरोपमकोटिलक्षेषु व्यतीतेषु भगवतोऽभिनन्दनस्य निर्वाणमभूत् । शक्रादयश्च स्वामिनो व्रतिनामपि चाऽङ्गसंस्कारं विधाय पूजनाय दंष्ट्रादि गृहीत्वा नन्दीश्वरान्तः शाश्वतार्हत्प्रतिमाष्टाह्निकां कृत्वा स्वं स्वं धाम जग्मुः ॥ २ ॥ इति तृतीयपर्वणि श्रीअभिनन्दनस्वामिचरितवर्णनात्मको
द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः
श्रीसुमतिस्वामिचरित्रम् नन्दनः सर्वसत्त्वानां मङ्गलामेघयोरिव । सुमतिं वितरन् जीयात् सुमत्याख्यो जिनेश्वरः ॥१॥
अथाऽत्रैव जम्बूद्वीपे प्राग्विदेहेषु पुष्कलावत्यां विजयेऽतिसुन्दरे शङ्खपुरे पुरे विजयी विजयसेनो नाम नृपो बभूव । स चेन्दुलेखयेव सुदर्शनया सुदर्शनानाम्न्या प्रियया सह रत्या काम इव रममाण: कालं निनाय । एकदा सर्वोऽपि नागरजनः सपरीवारः कस्मिंश्चिदुत्सवे समागते उद्यानं ययौ । सुदर्शनाऽपि हस्तिनीमारुह्य तत्र गता । अष्टभिर्वधूभिरुपास्यमानां कामपि स्त्रियं दृष्ट्वा चित्ते भृशं विस्मिता "केयम् ? पारिपार्श्विक्यश्चैतस्याः का" इति ज्ञातुं कञ्चुकिनं समादिशत् । कञ्चुक्यपि तत् पृष्ट्वा समेत्य व्यजिज्ञपत्-"इयं श्रेष्ठिनो नन्दिषेणस्य प्रेयसी सुलक्षणा, तस्याश्च द्वौ पुत्रौ, तयोः प्रत्येक चतस्रो वध्वः, ताभिरुपास्यते सा" ।
तच्छ्रुत्वा सा सुदर्शनाऽचिन्तयत्-"धन्येयं, या पुत्रमुखमीक्षते, वधूभिश्च सेव्यते । सूनुस्नुषाविरहितां मामपुण्यां धिक् । योषितो हि तनयं विनाऽतोया नद्य इव निन्दनीयाः शोचनीयाचे''ति । एवं बहु विचिन्त्य म्लानमुखी सा सुदर्शना सखेदा निजं सदनमेत्य प्रियसखीविसृज्य शयनीये मुक्तनि:श्वासा पपात । भोजनादिकमपि त्यक्त्वा शून्यमनस्का तस्थौ । परिवारमुखाच्च तां तथावस्थितां श्रुत्वा नृप उपेत्य प्रेमपूर्णया गिरा खेदकारणं पप्रच्छ। ततो निःश्वस्य
७रिष.भा-२