________________
द्वितीयं पर्व-षष्ठः सर्गः
अत्राऽन्तरे सामन्तादयः उत्तरीयच्छन्नमुखाः खेदेन विवर्णदेहा युगपद् राज्ञः सभामविशन् । नमस्कृत्य च राजानमधोमुखास्तस्थुः । ततस्तां विप्रवाचमाकर्ण्य तांश्च कुमारवर्जमायातान् दृष्ट्वा नृपतिलिखित इव शून्यो निष्पन्दनयनोऽभूत् । ततो विप्रः पुनरुवाच-"राजन् ! त्वं विश्वमोहनाशकस्य ऋषभस्वामिनो वंश्योऽजितप्रभोश्च भ्राताऽसि। त्वया न पृथग्जनेनेव मोहवशंवदेन भवितव्यम्" ।
राजाऽपि दध्यौ-"अयं विप्रः स्वपुत्रमरणव्याजतो मत्पुत्रक्षयनाट्यप्रस्तावनामेव जगौ। अधुना च व्यक्तं मत्पुत्राणां क्षयं वदति । अमी च सामन्तादयः कुमारवर्जमेवाऽऽगताः । तेषां क्षयः कुतः सम्भाव्यते ? महारत्नपरीवारास्ते कथं केनाऽपि निहन्तुं शक्या: ? एवं चिन्तयित्वा किमिदमिति पप्रच्छ। तेऽपि सचिवादयो ज्वलनप्रभवृत्तान्तं शशंसुः। ततः कुलिशेन ताडित इव तेनोदन्तेन भूपतिर्भूमौ मूच्छितः पपात । कुमाराणां मातरश्चाऽपि मूर्च्छया पेतुः । राजवेश्मनि च लोकानां महानाक्रन्दो जातः । मन्त्र्यादयश्चाऽपि सर्वे करुणस्वरं रुरुदुः । विलपन्तं च नृपं विप्रो बोधयितुं पुनरूचे"प्रबोधस्तवाऽन्वये मुख्याधिकारप्राप्तः । अन्यैर्मुधैव बोध्यसे । राजन् ! संसारे पिता-पुत्रादयः स्वप्नदृष्टतुल्याः। त्वं स्वयं तत्त्वविदसि । धैर्यमाधेहि"। नृपश्च तद् विप्रवचनं शृण्वन् पुत्रमृत्युं च मुहुः स्मरन् बोधेन च मोहेन च व्यानशे ।
ततो नृपं बोधयितुं सुबुद्धिर्नाम सचिव उवाच-"राजन् ! त्वादृशा महत्स्वपि व्यसनेषु समुपस्थितेषु मनागपि वैधुर्यं न भजन्ते। विवेकिन: कुटुम्बं क्षणाद् दृष्टनष्टं ज्ञात्वा न कदाऽपि मुह्यन्ति । इहैव जम्बूद्वीपे भरतक्षेत्रे कोऽपि नृपो बभूव । स एकदा सभायां सुखमास्थितो द्वारपालेन निवेदित:-"द्वारि पुष्पमाल्यहस्तः कोऽपि पुरुषः किञ्चिद् विज्ञीप्सुस्तिष्ठति, स चाऽऽकृत्या गुणवान् ज्ञायते"। ततो नृपादेशाद् वेत्रिणा स पुरुष: सभामविशत् । रिक्तहस्तस्य
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वामिदर्शननिषेधात् स भूभुजे सुमनोदाम समर्प्य वेत्रिणा दर्शिते स्थाने आसनायुक्तैर्दत्ते आसने रचिताञ्जलिरुपाविशत् ।
त्वं कोऽसीति नृपेण पृष्टश्च स नमस्कृत्य सादरमवदत्-"ऐन्द्रजालिकोऽहमिन्द्रजालप्रयोगार्थमुपागतोऽस्मि । तथोद्यानवीथिकां, गन्धर्वसङ्गीतमङ्गारभक्षणमदृश्यीभवनं, तप्तायःशलाकाचर्वणं, जलचरादिरूपधारणं, पदार्थाकर्षणं, वर्णान्तराधानमन्यानि चाऽऽश्चर्यभूतानि दृष्ट्वा मम कलाभ्यासं सफलीकुरु" । तच्छ्रुत्वा नृपतिस्तमुवाच-"अहो ! त्वया मूषकार्थं पर्वतखननमिवाऽपविद्यार्थं कियान् श्रमः कृतः ? तवाऽपविद्यामवलोकयतामपि धीभ्रंशो जायते । त्वं याचकोऽसि, अत एवमेव यथेप्सितमर्थं गृहाण" । तच्छ्रुत्वा स गूढरोषमभाषत"योऽस्मि, सोऽस्मि, किन्तु स्वकौशलमदर्शयित्वा कथं किमपि गृह्णामि ? तुभ्यं स्वस्त्यस्तु, अयं च मम नमस्कारोऽस्तु, अहमन्यत्र यास्यामि" । एवमुक्त्वा स उत्थाय नृपेण दीयमानमपि कोपतः परित्यज्य निर्ययौ।
ततोऽन्यदा स एव पुरुषो विप्रवेषमुपादायोपायनकरो वेत्रिणा राज्ञे निवेद्य प्रवेशित: सभामागत्य नृपतेरग्रे आर्यवेदोदितान् मन्त्रान् पठित्वा यथोचितमुपाविशत् । कोऽसीति राज्ञा पृष्टश्च रचिताञ्जलि"नैमित्तिकोऽहं त्रिकालवक्ते"त्युदतरत् । ततो यद् 'अस्मिन् समये भावि, तत् कथये'ति राज्ञा पृष्टः स 'सप्तमे वासरे समुद्रो जगत्प्रलयं प्रापयिष्यती'त्युवाच। तद्वाचा विस्मितेन राज्ञा भ्रूसंज्ञया पृष्टा अन्ये नैमित्तिका ऊचुः-"सूर्यादिग्रहानुमानेन वयं नेदृशं मन्महे। अयं मत्तो वा स्यादन्यो वा, न तु नैमित्तिकः" । ततः स कुपितो नैमित्तिकः प्राह-"राजन ! नेमे शास्त्ररहस्यज्ञाः, यदि मम वचनं तवाऽ श्रद्धेयं, तदा न दूरे सप्तवासरी, तावत् त्वत्पुरुषैधृतोऽहमत्र स्थास्यामि, सप्तमेऽह्नि मद्वचोऽसत्यं चेद् भवेत् तदाऽहं तस्करवत् त्वया निग्राह्यः" ।