Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमः सर्गः
अथाऽन्यदा साकेतनगरोद्यानेऽजितजिनः समवसृत्य देवादिषु यथास्थानं निविष्टेषु देशनां विदधे । तदानीं च वैताढ्ये सहस्त्रनयनः पितृवधस्मरणक्रुद्धः पूर्णमेघमवधीत् । ततस्तदात्मजो घनवाहनो नंष्ट्वा शरणेच्छुः समवसरणे समागत्य यथाविधि जिनं प्रणम्योपविष्टवान् । सहस्त्रनयनश्च तद्वधेच्छयाऽनुपदमेव तत्राऽऽगतः, किन्तु प्रभुप्रभावादुपशान्तकोपस्त्यक्तास्त्रः प्रभुं नत्वा यथास्थानमुपविष्टवान् । ततः सगरः प्रभुं तयोर्वैरकारणं पप्रच्छ ।
ततो भगवानुवाच - " पुराऽऽदित्याभे पुरे भावनो नाम द्रव्यकोटीश्वरो वणिग् बभूव । स च स्वपुत्रस्य हरिदासस्याऽखिलं धनमर्पयित्वा वणिज्यायै देशान्तरं जगाम । तत्र द्वादशाब्दानि स्थित्वा प्रचुरं धनमुपार्ण्य परावृत्त्य नगराद् बहिस्तस्थौ । उत्कण्ठितश्च रात्रौ तत्र परिवारं मुक्त्वैकाक्येव निजगृहमाययौ । गृहं प्रविशश्च हरिदासेन चौरबुद्ध्या खड्गप्रहारेण निहतः । भावनश्च स्वघातकं ज्ञात्वा तत्कालजातद्वेषः कालधर्ममुपेयिवान् । हरिदासश्च पितरं ज्ञात्वा पश्चात्तापयुतः प्रेतकार्याणि कृतवान् । कालक्रमेण स विपन्नवांश्च । ततश्च द्वावपि तौ कतिचिद्भवान् दुःखदान् भ्रमतुः । किञ्चित् सुकृतं कृत्वा च भावनजीव: पूर्णमेघो हरिदासजीवश्च सुलोचनोऽभवत् । इत्येवं प्राग्भवसम्बद्धं तयोर्वैरम्" ।
ततः सगरः पुनस्तत्पुत्रयोर्वैरहेतुं सहस्त्रनयने स्वस्नेहं चाऽपृच्छत् । ततः प्रभुः पुनरुवाच - "त्वं प्राग्भवे रम्भको नाम
५ जिप भा-२
५६
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः दानशील: परिव्राडभूः । इमौ च तव शिष्यौ शश्यावलीनामाऽभूताम्। तयोरावलिरतिविनीतत्वात् तव प्रियो द्रविणं दत्त्वा गोधेनुमेकामक्रीणात् । तदा शशी भेदं कृत्वा गोस्वामिनस्तां धेनुं क्रीणाति स्म । ततस्तयोर्दण्डादण्डि युद्धे प्रवृत्ते शशिनाऽऽवलिर्हतः । ततः शशी चिरं भवं भ्रान्त्वा मेघवाहन आवलिश्च सहस्रनयनो जज्ञे । तत् तयोर्वैरकारणम् । रम्भकोऽपि शुभा गतीर्भ्रान्त्वा दानप्रभावेण चक्री त्वमभूः । प्राग्जन्मभवश्च तव सहस्त्रनयने स्नेहः " ।
ततस्तत्र निषण्णो रक्षः पतिर्भीम उत्थाय रभसाऽऽलिङ्गय मेघवाहनमब्रवीत्-“अहं प्राग्भवे पुष्करद्वीपभरतक्षेत्रे वैताढ्ये काञ्चनपुरे विद्युद्दंष्ट्रो नाम नृपोऽभवम् । तत्र च त्वं मम रतिवल्लभो नाम पुत्रोऽभूः । तेन त्वं ममाऽतिप्रियः साधु दृष्टोऽसि, सम्प्रत्यपि त्वं मम पुत्रोऽसि मम सैन्यमन्यदपि च त्वदीयमेव, तत्सर्वं परिगृहाण । लवणोदे योजनानां सप्तशतीं विस्तृते राक्षसद्वीपे त्रिकूटाद्रौ पञ्चशतं योजनानि विस्तीर्णे नवयोजनोन्नते वलयाकारे महर्द्धिके मया लङ्कानाम्नी पुरी सौवर्णप्राकारादिसमन्विता कारिता । प्राक्तनी च भूमध्यं षड् योजनान्यतिक्रम्य स्फटिकप्राकारा, रत्नमयालया, सपादयोजनशतप्रमाणा मम पाताललङ्काऽतिदुर्गमा। तदिदं पुरीद्वयं गृहाण, तन्नृपतिश्च भव" इत्येवमुक्त्वा स राक्षसपतिस्तस्मै नवभिर्माणिक्यैः कृतं महाहारं राक्षसीं विद्यां च ददौ । घनवाहनश्च तदैव राक्षसद्वीपमागत्य तयोर्लङ्कयो राजाऽभूत् । तदादि तस्य वंशो राक्षसवंशतां ययौ । ततो जिनोऽन्यत्र विजहार । सुरादयोऽपि स्वं स्वं स्थानं ययुः ।
इतश्च सगरश्चतुष्षष्टिसहस्त्रस्त्रीभिरन्वितो विषयान् बुभुजे । स्त्रीरत्नभोगाच्च तस्याऽन्तःपुरसम्भोगजा म्लानिर्ननाश । एवं क्रमेण तस्य जनुप्रभृतयः षष्टिसहस्राः सुता जज्ञिरे । ते च धात्रीभिः पाल्यमानाः क्रमशो वर्धमानाः सर्वाः कला जगृहु: यौवनं च प्रापुः ।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67