Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ ८० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नत्वा कृताञ्जलयोर्भक्त्या स्तुत्वा च प्रभुं स्मरन्तो निजनिजस्थान जग्मुः । तृतीयं पर्व-प्रथमः सर्गः ७९ नृपकन्या: परिणीयोद्यानादिषु ताभिः करिणीभिः करीव रेमे । एवं प्रभुः कौमारे पञ्चदश पूर्वलक्षाणि गमयामास । अथ जितारिर्भवनिविण्णः सम्भवस्वामिनं राज्ये निधाय परिव्रज्यामादाय स्वार्थमसाधयत् । सम्भवस्वामी च राज्यमादाय पृथिवीं पुष्पदामवद् ररक्ष । राज्ये च तत्प्रभावात् प्रजाः सुखिन्योऽभवन् । राज्यं शासतश्च तस्य पूर्वाङ्गचतुष्टयसहिता चतुश्चत्वारिंशत्पूर्वलक्षी व्यतिक्रान्ता । तदानीं च ज्ञानत्रयधरो भगवान् भवस्वरूपं दध्यौ"संसारे सविषभोज्यवदापातमधुरं परिणामेऽनर्थदं विषयास्वादसुखम् । मूढैः पादशौचेन सुधारस इव दुर्लभं प्राप्तं मानुषत्वं विषयसेवया मुधा निर्गम्यते"। तदानीमेव चाऽऽगत्य लोकान्तिकैर्देवैः "स्वामिन् ! तीर्थ प्रवर्त्तये"ति विज्ञप्तस्तेषु गतेषु दीक्षादानोत्सवोत्सुकः सांवत्सरिकदानं दातुमारेभे स्वामी । जृम्भकदेवैश्च स्वर्णादिष्वानीतेषु साष्टलक्षां स्वर्णकोटीं ददानो वत्सरेण कोटिशतत्रयमष्टाशीतिकोटीर्लक्षाशीतिश्च स्वर्णस्य दत्तवान् । अन्ते च वासवरेत्य यथोपचारं यथाविधि च सम्भवस्वामिनो दीक्षाकल्याणकस्नानं विदधे । नरेन्द्राद्यैरपि च तस्य पवित्रैरम्बुभिः स्नात्रं विदधे । ततो वस्त्र-भूषणाद्यलङ्कृतो भगवानाभियोगिकैविकृतायां सिद्धार्थाख्यायां शिबिकायामिन्द्रदत्तहस्तोऽधिरुह्य सुरा-ऽसुरादिभिरन्वीयमानः श्रावस्तीमध्यतः सहस्राम्रवणं प्राप । शिबिकात उत्तीर्य माल्या-ऽलङ्करणादिकं परित्यज्य मार्गशीर्षपूर्णिमायां मृगशिरःस्थे चन्द्रे दिवसस्य पश्चिमे भागे कृतषष्ठतपा मूर्ध्नः पञ्चभिर्मुष्टिभिः पूर्वाजितान् क्लेशानिव केशानुत्पाटयामास । शक्रश्च तान् केशान् स्वकीयवसनाञ्चल आदाय क्षीरोदेऽक्षिपत् । प्रभुश्च देवादिपर्षत्समक्षं 'सर्वसावद्ययोगं प्रत्याख्यामी'त्युदीरयन् चारित्रं शिश्रिये । तदैव च प्रभोश्चतुर्थं मनःपर्यायज्ञानमुत्पेदे । भगवता सह सहस्रं पृथिवीभुजोऽपि तृणवद् राज्यमुत्सृज्य स्वयं दीक्षामाददिरे। ततः शक्रादयो भगवन्तं द्वितीयदिने च प्रभुस्तस्यामेव पुर्यां राज्ञः सुरेन्द्रदत्तस्य गृहे पारणेच्छया जगाम । स चाऽभ्युत्थाय प्रभुं नमस्कृत्य परमान्नमुपादाय गृह्यतामित्यभाषत । प्रभुश्च पाणिपात्रेण तदादाय दातुः कल्याणकारणं प्राणमात्रधारणं पारणं चकार । तदानीं च दिवि दुन्दुभयो नेदुः । दिव्या वसुधारा अपतन् । पुष्पवृष्टिर्गन्धाम्बुवृष्टिश्चाऽभवत् । प्रभुपारणस्थाने च सुरेन्द्रदत्तो मणिपीठं विधाय त्रिसन्ध्यं पूजयामास । ततः स्थानाच्च प्रभुामादिषु विहरन् विविधाभिग्रहोद्यतो, द्वाविंशतिं परीषहान् सहमानस्त्रिगुप्तः, पञ्चसमितो, निर्भय, एकाग्रदृष्टिश्चतुर्दश वत्सराणि विहृत्य सहस्राम्रवणे सालतरोस्तले द्वितीयशुक्लध्यानस्थ: प्रतिमया तस्थौ । ध्यानान्तरेण च तस्य शुष्कपत्रवद् घातिकर्मचतुष्टयमत्रुट्यत् । ततश्च कार्तिके मासि कृष्ण पक्षे मृगशिरःस्थे चन्द्रे कृतषष्ठस्य स्वामिन: केवलज्ञानमुत्पेदे । कम्पितासनाः सुरादयश्च प्रभोः केवलज्ञानमहिमानं कर्तुं तत्र समाययुः । ततश्च देवैर्निर्मिते समवसरणे सुरकोटीपरिवृतः प्रभुः पूर्वद्वारा प्रविश्य प्राङ्मुखो नमस्तीर्थायेति वदन् सिंहासनमलञ्चकार । एवं सर्वेषु सुरा-ऽसुरादिषु यथास्थानं निविष्टेषु शक्रो रचिताञ्जलिनमस्कृत्य प्रभुमस्तौत् । ततो विश्वस्योपचिकीर्षया प्रभुर्देशनां विदधे "अस्मिन् संसारे सर्वमपि वस्त्वनित्यम् । शरीरिणां सुखबुद्ध्या तत्र मूर्छा मुधा । सर्वतश्चाऽऽपत्स्वागच्छत्सु जन्तवः कष्टं जीवन्ति । मन्त्र-तन्त्रादीन्यपि न त्राणसमर्थानि । जरा-मृत्य्वादिभिश्च शरीरिणो ग्रस्यन्ते । बुबुद्वद्धि शरीरिणां शरीराणि क्षणेनैव विपद्यन्ते । कृतान्तो ह्यविशेषेण सर्वान्

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67