Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ षष्ठः सर्गः श्रीचन्द्रप्रभजिनचरित्रम् महासेनसुतः श्रीमान् लक्ष्मणाकुक्षिजो जिनः । चन्द्रप्रभो भवतमस्ततौ चन्द्रप्रभोऽवतु ॥ १ ॥ अथ धातकीखण्डद्वीपे प्राग्विदेहेषु मङ्गलावत्यां विजये रत्नसञ्चयायां पुरि लक्ष्मीविलासभूमिः पद्मो नाम नृपोऽभवत् । स नयेन प्रजाः पालयन् संसारविरक्तो भवच्छेदाय युगन्धरमुनेः प्रव्रज्यामग्रहीत । दान्तो जितेन्द्रियो निर्ममो व्रतं पालयन् स कैश्चित् स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य क्षीणायुर्मृत्वा वैजयन्तं विमानं जगाम । इतश्च जम्बूद्वीपे भरतक्षेत्रे चन्द्राननायां पुर्यां महासेनो नाम प्रतापी राजाऽऽसीत् । तस्य च लावण्यवत्या गुणग्रामसमग्राया लक्ष्मणानाम्न्या महिष्याः कुक्षौ त्रयस्त्रिंशत्सागरोपममायुः पूरयित्वा पद्मजीवो वैजयन्ताच्च्युत्वा चैत्रकृष्णपञ्चम्यामनुराधास्थे चन्द्रेऽवततार । तदानीं च सा लक्ष्मणा देवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् ददर्श । यथोचिते समये पूर्णे च सा पौषकृष्णद्वादश्यामनुराधास्थे चन्द्रे चन्द्राङ्कं चन्द्रवर्णं च पुत्ररत्नमसूत । तदानीं च षट्पञ्चाशद् दिक्कुमार्यस्तत्रैत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्चैत्य प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रैः सह यथाविधि स्नात्रं विधाय पुनर्लक्ष्मणादेव्याः पार्श्वे मुमोच । महासेननृपश्च समहोत्सवं गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रवर्णश्चैष इति च तस्य चन्द्रप्रभ इति नामाऽकरोत् । क्रमेण च स षष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः चन्द्रप्रभप्रभुर्बाललीलया शैशवमतिक्रम्य सार्धधन्वशतोत्तुङ्गी यौवनं प्रपद्य जन्मतः सार्धपूर्वलक्षद्वये गते पित्रोरुपरोधाद् नृपकन्याः परिणीय ताभी रममाणः प्रजाः पालयन् सार्धाः षट् पूर्वलक्षा अनैषीत् । *带来 १०८ अथ लोकान्तिकामरैः प्रार्थितो दीक्षेच्छुर्वार्षिकदानं प्रदायेन्द्रकृतदीक्षाभिषेको मनोरमां शिबिकामारुह्य सुरादिभिरन्वीयमानः सहस्त्राम्रवणं प्राप । पौषकृष्णत्रयोदश्यामनुराधास्थे चन्द्रे कृतषष्ठो नृपसहस्रेण समं प्रव्रज्यामादायोत्पन्नचतुर्थज्ञानो द्वितीयदिने पद्मखण्डपुरे सोमदत्तनृपसद्मनि परमान्नेन पारणं व्यधात् प्रभुः । शीतवाताऽऽतपादिपरीषहान् सहमानो मौनी निर्ग्रन्थस्त्रीन् मासान् महीं विहृत्य सहस्त्राम्रवणं प्राप्य पुन्नागतरुतले प्रतिमास्थस्तस्थौ । द्वितीयशुक्लध्यानान्ते च तस्य चन्द्रप्रभप्रभोः प्रणष्टेषु घातिकर्मसु फाल्गुनासितसप्तम्यामनुराधास्थे चन्द्रे कृतषष्ठस्योज्ज्वलं केवलमुत्पन्नम् । ततो देवैः कृते समवसरणे यथाविधि सिंहासनमध्यास्य शक्रस्तुतो भगवान् देशनां दातुमारेभे-"अनन्तक्लेशतरङ्ग एष भवसागरो जन्तून् प्रतिक्षणमितस्ततः क्षिपति । तन्निबन्धनं चाऽशुचावस्मिन् शरीरे प्रीति: । रसा - ऽसृगाद्यशुचिपदं हि कुतः शुचि ? नवद्वारै: स्रवल्लोहितस्य, गर्भे जरायुसञ्छन्नस्य, शुक्र- शोणितसम्भूतस्य, मलनि:स्यन्दवर्धितस्य, दोषधातुमलाद्याकीर्णस्य, कृम्याद्यास्पदस्य रोगार्त्तस्य चाऽस्य शरीरस्य कः शुचितां वदेत् ? यत्र च स्वादून्यप्यन्नादीनि भुक्तानि विष्ठायै जायन्ते, यक्षकर्दमोऽपि मलीभवति, गन्ध-धूपादयो दौर्गन्ध्यं यान्ति, तत् कथं शुचीभवेत् ? कायो हि सुराघट इव न केनाऽप्युपायेन शुचीभवति । तदनेनाऽसारेण शरीरेण सारं मोक्षफलं तपः कुर्यात्” । श्रुत्वा च प्रभोर्धर्मदेशनामेतां सहस्रशो नरा नार्यश्च प्रबुद्धाः प्राव्रजन् । दत्तादयस्त्रिनवतिर्गणधराश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीम

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67