Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ ॥ अर्हम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ।। त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीसम्भवजिनादि - शीतलजिनपर्यन्त-जिनाष्टकचरितप्रतिबद्धं तृतीयं पर्व प्रथमः सर्गः जितारिसम्भवं नौमि जितारिं सम्भवं जिनम् । सेनाजातं विना सेनां नित्याऽनित्यविवेकदम् ॥१॥ अथ धातकीखण्डे ऐरावतक्षेत्रे क्षेमपुर्यां पुर्यां विपुलवाहनो नाम नृपो बभूव । स च प्रजापालको नीतिज्ञ उपायचतुष्टयप्र गुणपूजको निरभिमानः सर्वज्ञभक्तो देव - गुरुसेवकञ्श्चाऽऽसीत् । तथा सदा स्वाध्यायनिरतो द्वादशविध श्रावकधर्मपरिपालकः सप्तक्षेत्र्यां द्रविणप्रयोक्ताऽर्थिकामदः शत्रून्मूलकश्च बभूव । तस्मिंश्च महीनाथे शासति भवितव्यतावशाद् महादुर्भिक्षमभवत् । तस्मिन् कल्पान्तकल्पे दुष्काले चतुर्विधं सङ्घ क्षीयमाणं प्रेक्ष्य नृपो दध्यौ - "मयेयं सकला धरित्री त्रातव्या । परं किं करोमि ? कालो न स्ववश: । तथाऽपि सङ्घस्त्रातव्य एव" । एवं चिन्तयित्वा स सूदान् समादिशत्-"अतः परं सङ्घभुक्तावशेषमहं भोक्ष्ये । मत्कृते कृतमन्नादि व्रतिनां दातव्यम् । श्रावकाश्च पृथक् सिद्धौदनेन त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः भोजयितव्याः” । तथेति प्रतिपद्य ते सूदास्तथैव नित्यं विदधुः । राजा च स्वयं तदैक्षिष्ट । तथा स्वयमेषणीयकल्पनीयप्रासुकानि महामुनीनां ददौ । एवं स महामना यावद् दुर्भिक्षकालं सकलसङ्घाय यथाविधि भोजनादि ददौ। तेन सर्वसङ्घस्य वैयावृत्त्यं समाधिं च कुर्वता नृपेण तीर्थकृन्नामकर्मोपार्जितम् । अथैकदा स चन्द्रशालान्तर्निषण्णो नभसि समन्तादुन्नतं वारिदं दृष्टवान् । स च वारिदः समुत्थितेन महता समीरणेनाऽर्कतूलमिवोद्भूय दिशो दिशमनीयत । एवं क्षणाद् दृष्टनष्टं मेघं प्रेक्ष्य सोऽचिन्तयत्“संसारेऽन्यदपि मेघवत् क्षणाद् दृष्टनष्टम् । लोका हि यथाकाममाचरन्तो गृहे वा बहिर्वा कालवशगेन सर्पेण दश्यन्ते, विद्युता निपात्यन्ते, मतङ्गजेन पिष्यन्ते, जीर्णप्राकारादिभित्त्या वा विनिपत्य संचूर्ण्यन्ते, व्याघ्रादिभिर्भक्ष्यन्ते, दुश्चिकित्स्येन दोषेण गृह्यन्ते, तुरगादिना वा पात्यन्ते, चौरादिना वा क्षुरिकादिना हन्यन्ते वह्निना दह्यन्ते, नदीपूरादिवेगेन कृष्यन्ते, वातदोषेण सर्वाङ्गं भज्यन्ते, श्लेष्मणाss श्लिष्यन्ते, पित्तदोषेण विलुप्यन्ते, सन्निपातेन परिभूयन्ते, लूतया भक्ष्यन्ते, अन्येन च विविधेन रोगेण कदर्थ्यन्ते । एवं सदा सन्निहितैः कृतान्तस्य दूतैरिव दोषैरनेकशो जन्तवः पञ्चत्वमाप्यन्ते । एवं सत्यपि मन्दमतिर्लोकः शाश्वतम्मन्यो जीविततरोः फलं ग्रहीतुं न प्रवर्त्तते । पिता पुत्रादिकं पाल्यं जनं च निरन्तरं चिन्तयति, अतृप्तश्च कामेष्वन्तकाले पश्चात्तापं करोति । धर्मो मया न चक्रे इत्येवं मनागपि नाऽनुशेते । आधि-व्याधि-राग-द्वेषादिषु सदोद्यतेष्विह न किञ्चन सुखाय । आः ! तथाऽपि प्राणी न विरज्यति । सुखाभासविमूढस्य तस्य कालपाश आशु पतति । तस्मात् सिद्धान्नस्य भोजनमिवाऽमुष्य नश्वरस्य शरीरस्य फलं धर्माचरणम् । तदद्याऽनेन शरीरेण निर्वाणसम्पदं क्रेतुमेषोऽहमुत्थास्ये, राज्यं चाऽऽत्मजे निधास्ये" । ७६

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67