Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ द्वितीयं पर्व - षष्ठः सर्गः ७३ शुक्लध्याने पञ्चलघ्वक्षरोच्चारमात्रकालं शैलेशीकरणं समाश्रित्य क्षीणावशिष्टकर्मा सिद्धानन्तचतुष्टय ऋजुना पथा लोकाग्रं प्राप । तेऽपि पादपोपगमस्थिताः सहस्रं मुनय उत्पन्नकेवला रुद्धयोगाः शिवं ययुः । महामुनिः सगरोऽपि च समुद्घातं कृत्वा स्वामिप्राप्तं पदं प्राप । स्वामिनिर्वाणाच्च नारकाणामपि क्षणं सुखमजायत । जगत्पतेरजितस्य कौमारेऽष्टादश पूर्वलक्षी, राज्ये पूर्वाङ्गसंयुतास्त्रिपञ्चाशत्पूर्वलक्षा:, व्रते छद्मस्थभावे द्वादशाब्दी, केवले च द्वादशाब्द्या पूर्वाङ्गेण च वर्जितं पूर्वलक्षमगात् । ततश्चर्षभनिर्वाणात् सागराणां पञ्चाशत्कोटिलक्षेषु गतेष्वजितप्रभोर्निर्वाणमभूत् । अथ शक्रः स्वामिनोऽङ्गं दिव्यैर्जलैः स्नपयित्वा गोशीर्षचन्दनरसैरनुलिप्य विचित्रैर्भूषणैर्भूषितवान् । मुन्यन्तराङ्गाणां च देवाः स्नानादि कारयामासुः । ततः स्वामिदेहं दिव्यशिबिकामारोप्य पुरन्दरः अन्यमुन्यङ्गानि च देवाः शिबिकामारोप्य गोशीर्षचन्दनरचितां चितां निन्युः । ततोऽग्निकुमाराश्चितान्तरग्निं चक्रुः । वायुकुमाराच तमज्वालयन् । शक्रादेशेन च देवा: कर्पूरादीन् घृतकुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः । अस्थीनि विमुच्य स्वामिनोऽन्यधातुषु दग्धेषु मेघकुमारश्चितावह्निं व्यध्यापयन् । ततः शक्रेशानौ दक्षिण-दक्षिणेतरे स्वामिदंष्ट्रे ऊर्ध्वस्थे, चमर-बली अधः स्थितं, अपराँश्चऽपरे इन्द्रा जगृहु: । अन्ये देवाश्च कीकसानि विभज्य जगृहुः । ततस्तत्रत्यं सर्वं विधेयं विधाय नन्दीश्वरं समधिगम्य शाश्वतार्हदष्टाह्निकां कृत्वा निजनिजसदनं गत्वा शक्रा मध्येसुधर्मं माणवकाभिधेषु स्तम्भेषु वज्रमयवृत्तसमुद्गकान्तर्विन्यस्य ता जिनदंष्ट्रा दधिरे । ताश्च दंष्ट्राः सततं गन्धादिभिः पूजयन्ति । तत्प्रभावाच्च तेषां विजयमङ्गलमव्याहतं त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ७४ जायते । तदेवं सगरचक्रिचरित्रगर्भमजितनाथचरितं श्रोतृसामाजिकानामैहिकामुष्मिकाणि सुखानि प्रवितरतु ॥ ६ ॥ इति द्वितीयपर्वणि अजितस्वामि-सगरदीक्षा- निर्वाणवर्णनात्मकः षष्ठः सर्गः ॥६॥ इति कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य तपोगच्छाधिपति शासनसम्राट् - बालब्रह्मचारि - श्रीकदम्बगिरितालध्वज- राणकपुर- कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कार समयज्ञ - शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि- प्राकृतविशारदाचार्यवर्य श्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ - कविरत्न श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे द्वितीयपर्वणि समाप्तम् अजितस्वामि सगरचक्रवर्तिप्रतिबद्धं द्वितीयं पर्व ॥ २ ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67