Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 41
________________ द्वितीयं पर्व-षष्ठः सर्गः "देव ! अष्टापदाद्रिपूरणाय दण्डरत्नेन तव पुत्रैराकृष्टा सरित् क्षणेन तां पूरयित्वा कुलटा कुलद्वयमिव कूलद्वयमतिक्रम्य ग्राम-पुरादिकमाप्लावयितुमारब्धा । तदादिश, वयं कुत्र निरुपद्रवास्तिष्ठाम: ?" ततश्चक्रिणा सगरेण "तां सरितं दण्डेन समाकृष्य पूर्वपयोनिधौ क्षिप। पयो ह्यदर्शितपथमन्धवदुत्पथे याति । आपदास्पदं विद्याबल-कुलैश्वर्यादपि दर्प मा कृथाः । यथापात्रं विनीतैर्भवितव्यम् । सुरादीनां च यथाक्षेत्रमुपचारः कार्य" इत्युपदिष्टो निजपौत्रो भगीरथः । ततस्स: तत्प्रतिपद्य नृपार्पितदण्डरत्नमुपादाय नृपं प्रणम्य निर्गत्य सैन्यैर्जनपदैश्च परिवृतो मन्दाकिन्या वलयितमष्टापदाद्रिमाससाद । ___ ज्वलनप्रभकुमारमुद्दिश्य कृतेनाऽष्टमतपसोपस्थितं प्रसन्नं तं गन्धादिभिः पूजयित्वा "त्वदाज्ञया जनपदोपद्रवकारिणीमिमां मन्दाकिनी दण्डेनाऽऽकृष्य पूर्वाब्धौ क्षिपामी"ति सम्प्रार्थितो भगीरथः । तदा ज्वलनप्रभो "निजसमीहितं कुर्याः, तवाऽविघ्नमस्तु, नागेभ्यो मा भैषी"रित्युक्तवान् । रसातलं गते नागेन्द्रे पारणं विधाय दण्डरलमादाय मन्दाकिनीमाकृष्य कुरुमध्यादितो नीत्वा पूर्वाब्धि प्रापयत् भगीरथः । ततः प्रभृति तत् तीर्थं गङ्गासागर इति प्रसिद्धम्। भगीरथेन कृष्टेति गङ्गा भागीरथीति ख्याता । यत्र च गङ्गाप्रवाहेण नागभवनानि भग्नानि, तत्र तत्र भगीरथो नागेभ्यो बलि ददौ । तेन प्रवाहेण च सगरपुत्राणां शरीरास्थीनि पूर्वाब्धि निन्यिरे । ततो भगीरथो दध्यौ-"साधु जातमिदं, यद् गङ्गया पित्रस्थीनि पयोनिधिमीयुः" । एवं चिन्तयंश्च स लोकैलॊकम्पृणोऽसीति पुनः पुनः प्रशशंसे । भगीरथेन पितॄणामस्थीनि जले क्षिप्तानीत्यद्यापि लोकस्तत् क्षिपति । ततः परावृत्तो रथारूढो भगीरथः पथि केवलज्ञानिनं मुनि दृष्ट्वा स्यन्दनादवतीर्य नत्वा पुरः स्थित्वा पप्रच्छ-"मम पितरो त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युगपत् केन कर्मणाऽम्रियन्त ?" ततस्त्रिकालज्ञो भगवानुवाच-"पुरा तीर्थयात्राकृते एकः सङ्घश्चचाल । सायमेकं प्रत्यन्तग्राममासाद्य निशायामुपकुम्भकारगृहमध्युवास च । समृद्धं तं सङ्कं दृष्ट्वा हृष्टो ग्रामजनस्तल्लुण्टनाय दण्डाद्यादाय समुपस्थितः । कुम्भकारेण चाटुवचनैः प्रबोध्य निवारितस्तं सङ्घममुचत् ।। तत एकदा स ग्राम: सबालवृद्धस्तद्वास्तव्यदस्युदोषाद् महीभुजा दाहितः । स कुम्भकारश्च मित्रेणाऽऽमन्त्रितो ग्रामान्तरं गतो दाहादवशिष्टोऽभूत् । स कालयोगेन विपद्य विराटदेशे वणिगभूत् । ग्रामजनश्च मृत्वा तत्रैव जानपदो जज्ञे। कुम्भकारजीवश्च मृत्वा तत्र नृपोऽभूत् । ततोऽपि कालेन मृत्वा परमद्धिको देवोऽभूत् । देवसदनाच्च च्युत्वा त्वं भगीरथोऽसि । ग्राम्याश्च भवं भ्रान्त्वा जनुप्रभृतयोऽभूवन् । मनसिकृतेन सङ्घोपद्रवरूपेण कर्मणा च भस्मसादभवन् । यत्र ज्वलनप्रभो निमित्तम् । तन्निवारणरूपेण शुभकर्मणा च त्वं तस्मिन्निवाऽत्राऽपि भवे न दग्धोऽसि"। तदाकर्ण्य विवेकी भगीरथः परं संसारनिर्वेदमाप्तवान्। किन्तु पितामहस्य दुःखं मा भूदिति स तदैव न प्रावाजीत् । तत: केवलज्ञानिनः पादौ वन्दित्वा रथमारुह्य स भगीरथः साकेतनगरं ययौ । तत्र चाऽऽज्ञां परिपाल्य समागतं प्रणमन्तं भगीरथं पितामहः सगरो मुहुः शिरस्याघ्राय पाणिना पृष्ठे स्पृष्ट्वा च स्नेहगौरवादवोचत-"बालोऽपि त्वं स्थविराणामग्रणीरसि, नो राज्यभारं गृहाण । येन निर्भारो भूत्वा संसारसागरं तरामि । मत्पूर्वैस्तीर्णः स संसार इति ममाऽपि तत्र श्रद्धाऽस्ति । वत्स ! ततो महीं पाल्यतां ध्रियतां च"। ततो भगीरथो नत्वोचे-"प्रव्रज्यामादित्सते तातस्तद्युक्तम् । किन्त्वयमपि जनस्तदुत्सुकः" । ततः सगर उवाच-"अस्मत्कले व्रतं युक्तम् । ततोऽपि गुर्वाज्ञापालनव्रतमभ्यधिकम्। अत: स्वापत्ये

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67