Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ द्वितीयं पर्व-तृतीयः सर्गः किन्तु कर्मभोगफलमत्र विघ्नः । विवेकिनः कस्याऽपि व्रतादाने न विघ्नाः, तातपादानां तु कथैव का ? यः पितुर्भक्त्याऽपि चतुर्थ पुरुषार्थं निषेधति, स पुत्रव्याजेन शत्रुरेव । किन्तु विनयी तव लघुभ्राता राज्यभृदस्तु" । तच्छ्रुत्वा सुमित्रविजयोऽभ्यधात्-"राज्यार्थं स्वामिपादान् त्यक्तुमहं न समर्थः, राज्यादिभ्यः सर्वेभ्योऽपि गुरुसेवा गरीयसी मता" । ततोऽजितनाथः पुनरुवाच-"यदि राज्यं नाऽऽदित्ससि, तर्हि भावयतिर्भूत्वाऽपि नः सुखायाऽऽस्व" | जितशत्रुश्चाऽप्युवाच"बन्धो ! आग्रहिणः सूनोर्वचनं मन्यस्व । यतो भावयतिरपि यतिरेव । अयं चाऽजितः साक्षात् तीर्थकर एव । अस्यैव तीर्थे तवेप्सितं सेत्स्यति, अत्युत्सुको मा भूः, प्रतीक्षस्व । त्वमेकस्य पुत्रस्य धर्मचक्रित्वमपरस्य च चक्रित्वं पश्यन् सर्वसुखाधिकं सुखं लप्स्यसे" । ततो गुर्वाज्ञाया अलझ्यत्वाद् व्रतोत्सुकोऽपि सुमित्रस्तद्वाचं प्रत्यपद्यत । ततः प्रीतो जितशत्रुर्महीयसोत्सवेनाऽजितस्वामिनो राज्याभिषेकमकरोत् । तेन च सर्वमेदिनी मुमुदे । तथा सगरमपि स्वयं यौवराज्ये निधायाऽजितस्वाम्यपि जितशत्रोस्तदैव महा विधिवद् निष्क्रमणोत्सवं चक्रे । ततो जितशत्रुरादीश्वरतीर्थस्थस्थविरान्तिके प्रव्रज्यां प्रपद्य बहिरङ्गानिवाऽन्तरङ्गानरीनपि जयन्नखण्डितं व्रतं परिपाल्योत्पन्नकेवलज्ञान: शैलेशीध्यानमास्थितः क्षीणाष्टकर्मा क्रमेण परमं पदं प्राप । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नाऽकरोत् । प्रत्युत स सर्वाण्येव मदस्थानान्यनित्यानि जानंस्तृणायाऽमस्त । एवं राज्यं शासत् प्रभुः कौमारात् प्रभृति त्रिपञ्चाशत्पूर्वलक्षी सुखेनाऽत्यवाहयत् । अथाऽन्यदा सभां विसृज्य रहसि त्रिज्ञानोऽजितस्वाम्यचिन्तयत्"भुक्तप्रायभोगफलैरस्माभिरद्याऽपि कियद् गृहवासिभिः स्थेयम् ? प्राणी हि 'मयाऽयं देशस्त्रातव्यः, इदं पुरं रक्षणीयम्, अमी ग्रामा वासनीयाः, इमे जनाः पालनीयाः, इमे हस्त्यश्व-भृत्यादयः पोषणीयाः, इमे पण्डित-मित्र-मन्त्र्यादय उपचरणीयाः, दाराः सुतादयश्च रञ्जनीयाश्चे'त्येवं परकार्यैः समाकुलः प्रतिक्षणमप्यखिलं जन्म निष्फलं क्षपयति। तेषु कार्येषु च युक्ता-ऽयुक्तमविचारयन् नाना पापानि विदधाति । येषामर्थे च तानि विधत्ते ते. स्वशरीरमपि च वा, किमपि मृत्युपथे नाऽनुयान्ति । ततः शरीरार्थमपि पापकर्म मुधैव प्राणिभिर्विधीयते । जन्तुषेक एवोत्पद्यते, एक एव च पुराकृतकर्मफलान्यनुभवति, तेनाऽजितं वित्तं चाऽन्योऽनुभवति, स चैको नरकं प्राप्तः क्लिश्यते। कर्मवशगश्च जीवो दुःखदावानलभयङ्करे भवकानने एक एव बम्भ्रम्यते। भवदुःखं मोक्षसुखं वैको निःसहाय एवाऽनुभवति । यथा हि लोक: पाणि-पादादिव्यापारेण तरन् सिन्धुपारं याति, तथा धनादिपरिग्रहपराङ्मुखः स्वस्थो जीवो भवसिन्धुपारमासादयति" । एवं चिन्तयति प्रभौ भवनिविण्णमानसे सारस्वतादयो लोकान्तिकाः सुरास्तमुपेत्याऽब्रुवन्-"भगवन् ! स्वयं बुद्धोऽसि, अस्माभिहिं न बोध्यसे, किन्तु स्मार्यसे 'यत् तीर्थं प्रवर्त्तये'ति" । एवमुक्त्वा स्वामिनं नत्वा ते ब्रह्मलोकं ययुः । तत आत्मचिन्तानुकूलेन तद्वचसा प्रवृद्धभववैराग्यः प्रभुः सगरमाहूय जगाद-"संसाराब्धि तितीर्षतां नः साम्राज्यभारं गृह्यताम्" । तच्छ्रुत्वा बाष्पसम्भृतनयनः सगरोऽब्रवीत्-"किं मया काऽप्यभक्तिविदधे ? येनाऽऽत्मनः पृथक् कर्तुमेवमादिशः ? छायाहीनेन महता शाखिनेव त्वद्विहीनेनाऽनेन इतश्चाऽजितनाथोऽपि सकलद्धिसनाथः स्वापत्यमिव प्रजाः पालयामास । तस्मिन्नवनीं पालयति दण्डादिभिविनैव प्रजा न्यायवर्त्मना ययुः । मानवन्तोऽपि भूभुजस्तस्य पत्तितां भेजिरे । तस्य सैन्ये च पत्तीनां रथानां च वारिधेस्तरङ्गाणामिव सङ्ख्यां कर्तुं कोऽपि नाऽलम् । अद्वितीये ऐश्वर्ये सत्यपि च स एकदाऽप्यभिमानं

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67