Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ द्वितीयं पर्व-तृतीयः सर्गः सुलेश्या: घण्टाकाराः सदा स्वयम्भूरमणाब्धिमवधीकृत्य योजनलक्षान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति । मध्यलोके च जम्बूद्वीप-लवणाद्या असङ्ख्याता द्वीप-सागरा द्विगुणद्विगुणाभोगा: पूर्वपूर्वद्वीप-समुद्रपरिगता वलयाकाराः सन्ति । तेषामन्ते च स्वयम्भूरमणो नाम महोदधिः । जम्बूद्वीपमध्ये च सुवर्णस्थालवर्तुलोऽधो महीतले योजनसहस्रमवगाढो, नवनवति योजनसहस्राणि समुच्छ्रितो, भूतले दशयोजनसहस्राणि विस्तृत, उपरिष्टाच्चैकं योजनसहस्रं विस्तृतस्त्रिकाण्डस्त्रिलोकविभक्ततनुमेंरुगिरिरस्ति । तस्याऽऽद्यं काण्डमेकं योजनसहस्रं शुद्धमृत्पाषाणादिमयं, द्वितीयं च काण्डं त्रिषष्टियोजनसहस्राणि स्वर्णस्फटिकादिमयं, तृतीयं तु काण्डं षट्त्रिंशद्योजनसहस्राणि जाम्बूनदशिलामयम् । तस्य चूलिका च वैडूर्यरत्नमयी । चूलिकायाः समुच्छ्रायश्चत्वारिंशद्योजनानि, मूलविष्कम्भमानं च द्वादश योजनानि, अष्टौ मध्ये उपरि विस्तारे च चत्वारि योजनानि । मेरोर्मूले च वलयाकृति भद्रशालाख्यं वनम् । तदुपरि पञ्चशतयोजन्यां मेखलायां पञ्चयोजनशतानि विस्तृतं नन्दनं वनम् । तदुपरि सार्धद्विषष्टिसहस्रयोजनान्यतीत्य द्वितीयमेखलायां सौमनसं वनम् । तदुपरि षट्त्रिंशद्योजनसहस्राण्यतीत्य तृतीयमेखलायां मेरोः शिरोभागे चतुर्नवत्यधिकचतुःशतयोजनविस्तृतं, वलयाकृति पाण्डुकमुद्यानम् । तथा जम्बूद्वीपे भारत-हैमवत-हरिवर्ष-विदेह-रम्यक-हैरण्यवतै-रावतानि सप्तवर्षाणि दक्षिणोत्तरं हिमवन्-महाहिमवन् निषधनील-रुक्मि-शिखरिनामभिर्वर्षधरपर्वतैर्मूलशिखरयोस्तुल्यविस्तारैः कृतविभागानि । तत्र हिममयो हिमवान् पञ्चविंशतियोजनी मह्यामवगाढ: शतयोजनीमुच्छ्रितः । तद्विगुणः सौवर्णो महाहिमवान्, तद्विगुणः सुवर्णमयो निषधाद्रिः । वैडूर्यमयो नीलो निषधतुल्य:, राजतो रुक्मी महाहिमवतस्तुल्यः । सौवर्ण: शिखरी हिमवतस्तुल्यः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सर्वे चाऽमी पार्श्वभागेषु विचित्रमणिमयाः । तथा क्षुद्रहिमवति सहस्रयोजनायामस्तदर्धेन विस्तृतः पद्मनामा महाहृदः । महाहिमवति च पद्महदतो द्विगुणायामविस्तृतो महापद्माभिधो हृदः । निषधे च महापद्मतो द्विगुणस्तिङ्गिच्छिर्नाम हृदः । तत्तुल्यश्च नीलाद्रौ केसरिनामा हृदः । रुक्मिणि च महापद्मतुल्यो महापुण्डरीको हृदः । शिखरिणि च पद्मतुल्य: पुण्डरीको हृदः । तेषु च हृदेषु जलान्तर्दशयोजनीमवगाढानि विकस्वराणि पद्मानि तिष्ठन्ति । तथाऽऽत्मरक्षानीकयुता: सामानिकपार्षद्यपरिवृताः पल्यायुषस्तेषु क्रमशः श्री-हीधृति-कीर्ति-बुद्धि-लक्ष्यो निवसन्ति । ___ तथा भरतक्षेत्रे गङ्गा-सिन्धू महानद्यौ, हैमवते रोहितारोहितांशे, हरिवर्षे हरिद्-हरिकान्ते, महाविदेहे शीता-शीतोदे, रम्यके नरकान्ता-नारीकान्ते, हैरण्यवते स्वर्णकूला-रूप्यकूले, ऐरवते रक्ता-रक्तोदे च महानद्यः सन्ति । तासु युग्मास्वाद्या: पूर्वाब्धिगामिन्यो द्वितीयाश्च पश्चिमाब्धिगाः । तथा गङ्गा-सिन्धू प्रत्येकमापगानां चतुर्दशसहस्रैः परिवारिते । ततः परे च द्वे द्वे अपि पूर्वद्विगुणद्विगुणनदीपरिवारिते। शीता-शीतोदाभ्यां पराश्च यथाक्रम गङ्गा-सिन्ध्वादितुल्याः । शीता-शीतोदे तु प्रत्येकं द्वात्रिंशत्सहस्राधिकैर्नदीपञ्चलक्षैर्वृते । भरतक्षेत्रस्य पृथुत्वमानं च योजनानां षड्विशत्यधिका पञ्चशती, एकोनविंशत्यंशस्य योजनस्य षडंशाश्च । ततो विदेहान्ता वर्षधराचलवर्षा यथोत्तरं द्विगुणद्विगुणविष्कम्भाः । तथोत्तरे वर्षधराचलवर्षा दक्षिणैस्तुल्याः । वर्षधराचलवर्षाणामिदमेव प्रमाणम् । निषधानेरुत्तरतो मेरोदक्षिणतश्च विद्युत्प्रभ-सौमनसौ पश्चिमपूर्वको पर्वतौ गजदन्ताकृतिशिखरौ स्तोकादस्पृष्टमेरुको । तयोरन्तरे भोगभूमयो देवकुरवः। तद्विष्कम्भमानं च योजनानामेकादशसहस्राणि द्विचत्वारिंशदधिकाऽष्टशती च । तत्र च शीतोदानद्याः पूर्वा

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67