Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ द्वितीयं पर्व तृतीयः सर्गः ३१ उदधयो मकरचिह्नाः, द्वीपाः केसरिचिह्नाः, दिक्कुमाराश्च सर्वे गजचिह्ना: सन्ति । तत्राऽसुराणां चमरो बलिश्च द्वौ, नागानां धरणो भूतानन्दश्च द्वौ, विद्युतां हरि-हरिसहौ, सुपर्णानां वेणुदेव- वेणुदारिणौ, वह्नीनामग्निशिखाऽग्निमाणवौ, वायूनां वेलम्ब - प्रभञ्जनौ, स्तनितानां सुघोष- महाघोषौ, उदधीनां जलकान्त - जलप्रभौ, द्वीपानां पूर्ण वशिष्ठौ दिक्कुमाराणाममिता - ऽमितवाहनौ चेन्द्राः । रत्नप्रभाया उपरि च योजनानां सहस्रं यावदूर्ध्वमधश्चैकैकां शतयोजनीं त्यक्त्वाऽष्टसु योजनशतेषु दक्षिणोत्तरयोः श्रेण्योरष्टविधा व्यन्तरनिकायाः सन्ति । तेषु पिशाचाः कदम्बतरुचिह्नाः, भूताः सुलसवृक्षाङ्काः, यक्षा वटलाञ्छनाः, राक्षसाः खट्वाङ्गाङ्काः, किन्नरा अशोकाङ्काः, किंपुरुषाश्चम्पकाङ्काः, महोरगाः नागद्रुमाङ्काः, गन्धर्वास्तुम्बुरुद्रुमलाञ्छनाः । तथा तेषां काल-महाकालौ पिशाचानां, सुरूपोऽप्रतिरूपश्च भूतानां यक्षाणां पूर्णभद्र - माणिभद्रौ, राक्षसानां भीम - महाभीमौ, किन्नराणां किन्नर - किंपुरुषौ, किंपुरुषाणां सत्पुरुष - महापुरुषौ महोरगाणामतिकाय महाकायौ, गन्धर्वाणां गीतरति - गीतयशसौ चेत्येवं षोडशेन्द्राः सन्ति । तथा रत्नप्रभायाः प्रथमे योजनशते ऊर्ध्वमधश्च दश दश योजनानि परित्यज्याऽशीतौ योजनेष्वष्टौ व्यन्तरनिकाया अप्रज्ञप्तिकपञ्चप्रज्ञप्ति-ऋषिवादित भूतवादित क्रन्दित- महाक्रन्दितकूष्माण्ड-पवकेत्याख्याः सन्ति । तेषु प्रत्येकं द्वौ द्वाविन्द्रौ क्रमशः सन्निहित-समानौ, धातृ-विधातृकौ, ऋषि ऋषिपालौ, ईश्वरमहेश्वरी, सुवत्सक - विशालौ, हास-हासरती, श्वेत- महाश्वेतौ, पवक- पवकाधिपौ च ज्ञेयाः । रत्नप्रभातलादूर्ध्वमष्टासु योजनशतेषु दशहीनेषु ज्योतिष्काणामधस्तलम् । तदूर्ध्वं दशयोजन्यां सूर्यः, तदुपर्यशीतियोजन्यां चन्द्रः, ३२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो विंशतियोजन्याः प्रान्ते तारा ग्रहाश्च । ज्योतिर्लोकं च बाहल्ये दशोत्तरं योजनशतं, जम्बूद्वीपस्य मेरुपर्वतमसंस्पृशदेकविंशाधिकैकादशशतयोजनैर्मण्डलिकया स्थितं ज्योतिश्चक्रं सर्वासु दिक्षु सर्वदा बम्भ्रमीति । ध्रुव एवैको निश्चलः । तद्धि योजनानामेकादशाधिकैरेकादशशतैर्लोकान्तमस्पृशन्मण्डलेनाऽवतिष्ठते । तत्र सर्वत उपरि स्वातिः, सर्वतोऽधश्च भरणी, मूलः सर्वेभ्यो दक्षिणोऽभिजिच्च सर्वेभ्य उत्तरः । तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यौ च, लवणोदे प्रत्येकं चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे चन्द्राः सूर्याश्च प्रत्येकं द्वादश, कालोदे च चन्द्राः सूर्याश्च प्रत्येकं द्विचत्वारिंशत् । पुष्करार्धे च चन्द्राः सूर्याश्च प्रत्येकं द्वासप्ततिः, एवं मिलिताः सूर्याश्चन्द्राश्च प्रत्येकं द्वात्रिंशदधिकं शतम् । तथा प्रत्येकं चन्द्रस्य परिवारोऽष्टाशीतिर्ग्रहा अष्टाविंशतिर्नक्षत्राणि च। तारकाणां च कोटिकोटीनां षट्षष्टिसहस्राणि नव शतानि पञ्चसप्ततिश्च । चन्द्रस्य विमानं च विष्कम्भाऽऽ यामयोर्योजनस्यैकषष्ट्यंशीकृतस्य षट्पञ्चाशदंशाः । सूर्यस्य विमाने चाऽष्टचत्वारिंशदंशाः, ग्रहाणां योजनार्थं, नक्षत्राणां गव्यूतमेकम् । तथा सर्वोत्कृष्टायुषस्तारकायाः क्रोशार्धं, सर्वजघन्यायुष्कायाश्च पञ्चधनुः शतानि । स्थूलता च सर्वत्र दैर्ध्यार्धम् । ते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मर्त्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पूर्वतः सिंहा, दक्षिणतो गजाः, पश्चिमतो वृषाः उत्तरतश्चाऽश्वाः । चन्द्र-सूर्ययोश्चाऽऽभियोगिकास्ते सिंहादयः षोडशसहस्राणि ग्रहनक्षत्र - ताराणां च क्रमशोऽष्टौ चत्वारि द्वे च सहस्राणि । ते चाऽऽभियोगिकाः स्वतो गतिमतां चन्द्रादीनां वाहनत्वेनाऽऽभियोग्येन कर्मणा तिष्ठन्ति । मानुषोत्तरात् परतश्च योजनानां पञ्चाशता सहस्त्रैश्चन्द्राः सूर्याश्च मिथोऽन्तरितास्तिष्ठन्ति । ते च मनुष्यक्षेत्रचन्द्रार्कमानादर्धप्रमाणकाः क्रमशः क्षेत्रपरिवृद्धया वर्धमानसङ्ख्या ग्रहादिपरिवारिताः

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67