Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ द्वितीयं पर्व-तृतीयः सर्गः २७ कृतषष्ठतपाः केवलज्ञानं प्राप्य त्रिकालविषयान् त्रिलोकवतिनो भावान् हस्तामलकवद् ददर्श । ततः सर्वे शक्रा आसनकम्पतोऽवधि प्रयुज्य 'स्वामिनः केवलमुत्पन्न मिति ज्ञात्वा यथोचितोपचारेण पञ्चाङ्गस्पृष्टभूमयः प्रणम्य सिंहासनमधिष्ठाय समाहूताशेषपरिवारसमन्विताः क्षणाग्जिनेन्द्रमुपाययुः। तथा यथास्वं यथोचितं यथोपकरणं यथाविधि देवा भूमिमार्जनादिपूर्वकं भवत्रस्तैकशरणं निखिलापद्धरणं रौप्यादिप्राकारसमन्वितं समवसरणं विदधुः । ततो जयजयारावपूर्वकममरैः परिवारितः स्वर्णकमलेषु पदं न्यस्य प्रभुः पूर्वद्वारेण प्रविश्य यथोपचारं पूर्वमुखः सिंहासनमलञ्चकार । तदानीं व्यन्तरा अन्यास्वपि दिक्षु स्वामिबिम्बानि विचक्रुः । भामण्डलादयश्च यथास्थानं स्वयं प्रादुरासन् । यथाद्वारं च प्रविश्य प्रदक्षिणापूर्वकं प्रणम्य साधुसाध्वी-सुरा-ऽसुर-नर-तिर्यक्प्रभृतयो यथास्थानमुपविविशुः । ततः शक्रो रचिताञ्जलिर्भक्त्या भगवन्तं तुष्टाव। इतश्चोद्यानपालकादजितप्रभुं समवसृतं ज्ञात्वा तस्मै पारितोषिकं वितीर्य सगरः कृतस्नानाधुपचारः कुञ्जरमारुह्य साशेषसैन्यपरिवरो द्रुतं सहस्राम्रवणमाससाद । तत्र गजादवतीर्य राज्यचिहान्यपास्य पदातिरेव समवसरणमागत्य प्रभुं नत्वा स्तुत्वा च यथास्थानं समुपविवेश । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्राऽऽज्ञा नामाऽऽप्तवचनं, सा चाऽऽगम-हेतुवादभेदाभ्यां द्विधा। शब्दार्थप्रतिपत्तिकृदागमः। प्रमाणान्तरसंवादादर्थप्रतिपत्तिकृद्धेतुवादः । अदुष्टकारणारब्धं प्रमाणमिति लक्षणादेतद् द्वयमपि प्रमाणमेव । तत्र दोषासम्पृक्तत्वादहतो वचनमदुष्टकारणारब्धमिति प्रमाणम् । तद्धि नयप्रमाणसिद्ध पौर्वापर्याविरोधि शासनान्तरैरबाध्यमङ्गोपाङ्गप्रकीर्णादिबहुभेदं गणिपिटकाख्यम् । तामिमामाज्ञामालम्ब्य स्याद्वादन्याययोगाद् द्रव्य-पर्यायरूपेण नित्या-ऽनित्येषु स्व-पररूपाभ्यां सदसदात्मसु वस्तुषु स्थिरप्रत्यय आज्ञाविचयाख्यं ध्यानम् । ___ "अज्ञातजिनमार्गाणामनात्मज्ञानामविचारितोत्तरकालानां च सहस्रशोऽप्यपायाः स्युः । मायादिपरवशेन किं किं पापं न क्रियते ? कस्को वाऽपायो नाऽऽप्यते ? मया नरकादिषु सर्व दुःखं प्राप्तं, तद् ममैव प्रमादः। परमां बोधि प्राप्याऽपि मया कायादिदुश्चेष्टितैरशुभमुपार्जितम् । मोक्षे स्वाधीनेऽपि जीवो भवाय भ्रान्तवान्" । एवं प्रकारेण रागादिहेतुकापायाचिन्ताऽपायविचयाख्यं ध्यानम् । "कर्मणां शभा-ऽशभात्मकं फलं विपाकः । स च द्रव्यक्षेत्रादिवशाद् नानारूपः । तत्र स्रक्-चन्दनादिद्रव्योपभोगत: शुभो, विषा-ऽग्न्यादिद्रव्यतोऽशुभोऽनुभूयते । क्षेत्रतो विमानो-पवनादौ वासाच्छभः, श्मशानादावशुभः । कालतो वसन्तादौ रते: शुभः, ग्रीष्मादौ भ्रमणतोऽशुभः । भावतो मनःप्रसादादौ शुभः, क्रोधादावशुभः। तथा देवादिभवे शुभः, नारकादिष्वशुभः । किं च द्रव्यादितः कर्मणामुदय-क्षय-क्षयोपशमो-पशमा भवन्ति । एवं कर्माणि द्रव्यादिसामग्रीयोगाद् देहिनां स्वं स्वं फलं प्रयच्छन्ति ।। तानि कर्माणि चाऽष्टधा । पटेन चक्षुरिव येन ज्ञानमावियते तज्ज्ञानावरणम् । तच्च मत्यादिपञ्चज्ञानावरणात् पञ्चभेदम् । स्वामिदर्शननिरोधकद्वारपालसमं दर्शनचतुष्टयस्याऽऽवरणं पञ्च निद्राश्च ततो भगवान् योजनगामिन्या सर्वभाषामय्या गिरा धर्मदेशनां प्रारेभे-तथाहि मन्दबुद्धिभिरसावसारः संसारः काचो वैडूर्यबुद्ध्येव सारबुद्ध्या गृह्यते । संसारश्च प्राणिनां विविधकर्मभिः संवर्ध्यते । कर्माभावे च संसाराभावः । तस्मात् कर्मध्वंसाय सुधिया सदा यतितव्यम् । कर्मध्वंसश्च शुभध्यानाज्जायते । तच्च ध्यानमाज्ञाऽपाय-विपाक-संस्थानचिन्ताभेदैश्चतुर्विधम् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67