Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ द्वितीयं पर्व- तृतीयः सर्गः ४३ तिर्यगूर्ध्वभेदो लोकः । अस्य मध्यतश्चतुर्दशरज्जुप्रमाणा त्रसनाड्यस्ति । सा चोर्ध्वऽधोभागयो रज्जुप्रमाणायाम - विस्तृतिः । तत्राऽन्तस्त्रसाः स्थावराश्च सन्ति । तद्बहिस्तु स्थावरा एव । स चाऽयं लोको विस्तारेऽधः सप्तरज्जुर्मध्यत एकरज्जुर्ब्रह्मलोके पञ्च रज्जुः पर्यन्ते चैकरज्जुः सुप्रतिष्ठाकृतिः, न केनाऽपि कृतो धृतो वा । व्योम्नि निराधारः स्वयंसिद्धस्तिष्ठति । धीमानमुं लोकं समस्तं व्यस्तं वा शुभेतर ध्याननिवर्तकं चिन्तयेत् । धर्मध्याने क्षायोपशमिकादिको भावः, क्रमविशुद्धाः पीतादयो लेश्याश्च भवन्ति । अस्मिन् ध्याने च स्वसंवेद्यमतीन्द्रियं सौख्यं जायते । अनेन च ध्यानेन योगिनस्तनुं त्यक्त्वा ग्रैवेयकादिषु देवोत्तमा जायन्ते । तत्र निरन्तरायं निरुपमं सुखं चिरं लभन्ते । अन्ते च ततश्च्युत्वा महीतले दिव्यकुले समुत्पन्ना विविधान् भोगान् भुक्त्वा विरज्य ध्यानेन क्षीणकर्माणोऽव्ययं पदं प्रयान्ति " | तदेवं तीर्थकृन्निर्मितां धर्मदेशनां श्रुत्वा प्रतिबुद्धाः सहस्रशो नरा नार्यश्च दीक्षां जगृहु: । तदानीं च सुमित्रोऽपि पुरा भावयतिर्दीक्षामाददे । ततः प्रभुः पञ्चनवतेर्गणभृतां सिंहसेनप्रभृतीनामुत्पत्ति-विगम- ध्रौव्यरूपां त्रिपदीमूचे । ते च तत्रिपद्यनुसारेण सपूर्वां द्वादशाङ्गीमरचयन् । ततो वासवश्चूर्णपूर्णस्थालमादाय सुरगणावृतः प्रभोः पादपद्मान्ते तस्थौ । प्रभुश्चोत्थाय गणभृतां मूर्धसु चूर्णं निक्षिपन् क्रमेण सूत्राऽर्थादिभिरनुयोगानुज्ञां गणानुज्ञां च ददौ । देवादयश्चाऽपि गणभृतामुपरि दुन्दुभिध्वानपूर्वकं वासक्षेपं विदधुः । ततो गणधरा रचिताञ्जलयः स्वामिवाचं प्रतीच्छन्तस्तस्थुः । प्रभुश्च सिंहासनमधिष्ठाय पूर्वाभिमुखस्तेभ्योऽनुशासनात्मिकां देशनां विदधे । ततः प्रथमषौरुष्यां व्यतीतायां प्रभुर्धर्मदेशनां पारयामास । तदा विशालस्थालस्थचतुः प्रस्थप्रमाणात्मकः, सुगन्धिभिः शालिभिः पूर्णः, सगरराजेन कारितो, वरपुरुषैरुत्क्षिप्तो, दुन्दुभि त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः ध्वानसहितो, वधूजनैरनुगम्यमानः, पौरैः परिवृतो बलिः पूर्वद्वारेण समवसरणं प्राविशत् । ततः प्रभुं प्रदक्षिणीकृत्य तैः पुरः स चिक्षिपे, देवादिभिरामयनिवारकः स जगृहे च । ततः सिंहासनादुत्थायोत्तरद्वारेण प्रभुर्निर्गत्यैशान्यां देवच्छन्दे विशश्राम । ततः सगरेणोपनीते सिंहासने स्थितः सिंहसेनो गणधरो देशनां चकार । भगवत्स्थानमाहात्म्याच्च स लोकैः पृष्टान् असङ्ख्यातान् भवानाख्यत् । तत्र तदानीं तं केवलिनं विना कोऽपि छद्मस्थं नाऽज्ञासीत् । ततो द्वितीयस्यां पौरुष्यां व्यतीतायां गणधरे देशनातो विरते देवा: स्वस्वस्थानं प्रति प्रस्थिता नन्दीश्वरद्वीपमाप्याऽञ्जनादिषु पर्वतेषु शाश्वतार्हत्प्रतिमानामष्टाकोत्सवं विधाय यथागतं निजनिजस्थानं ययुः । सगरोऽपि च प्रभुं नमस्कृत्य साकेतं जगाम । ४४ ततस्तत्रैव तीर्थे समुत्पन्नश्चतुर्मुखः श्यामवर्णो गजवाहनश्चतुर्भिदक्षिणैर्हस्तैर्वरद मुद्गरा - ऽक्षसूत्र - पाशधरैर्वामैश्च बीजपूरा ऽभयाऽङ्कुश शक्तिधरैः शोभितो महायक्षाख्यो यक्षः प्रभोः पारिपार्श्वको ऽभूत् । तदोत्पन्ना सुवर्णकान्तिर्लोहासनस्था वरद-पाशधराभ्यां दक्षिणबाहुभ्यां बीजापूरा -ऽङ्कुशधराभ्यां वामबाहुभ्यां च शोभिताऽ जितबला शासनदेवता भर्तुः पार्श्वेऽस्थात् । 米米米 अथ चतुस्त्रिंशदतिशयो भगवानपि सिंहसेनादिपरिवृतो महीं विहरन् भव्यान् बोधयन् कौशाम्बीं प्राप्तस्तस्याः पूर्वोत्तरदिशि सुरैः कृते समवसरणेऽशोकतरुतले सिंहासनासीनो देशनां व्यधात् । तदान द्विजमिथुनमेत्य प्रभुं प्रदक्षिणीकृत्य नत्वा यथास्थानमुपविश्य कथाप्रस्तावे साञ्जलिः पप्रच्छ-'कथं नु भगवन्निति । ततः प्रभुः शशंस –“अयं सम्यक्त्वमहिमा, तद्धि सर्वानर्थनिवारणा-ऽर्थसिद्धिकरम्। तेन वैर-व्याधि-दुष्कर्माणि सूर्येण हिममिव नश्यन्ति । चिन्तामणिनेव तेन क्षणादेवाऽभीष्टं सिद्ध्यति । तथा तेन देवायु:कर्म बध्यते ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67