Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ द्वितीयं पर्व-तृतीयः सर्गः यतस्तत्कर्म दर्शनावरणीयं नवभेदं, येनाऽऽत्मा स्वं दिक्षुरपि न पश्यति । मधुलिप्तखड्गधारालेहनतुल्यं सुख-दु:खानुभवात्मकं वेद्यं कर्म द्विविधम् । सुरापानवत् कृत्या-ऽकृत्यविमोहकारि मोहनीयं कर्माऽष्टाविंशतिभेदम् । तत्र मिथ्यादृष्टिस्वभावं दृष्टिमोहाख्यं, वैराग्यप्रतिषेधस्वभावं चारित्रमोहनीयाख्यं कीर्तितम् । कारागारमिव जन्तूनां स्वस्वजन्मनि धारकं नरादिभेदादायुष्कर्म चतुर्विधम् । चित्रकारोपमं गति-जात्यादिवैचित्र्यकृद् नामकर्म त्र्यधिकशतभेदम् । अस्य विपाकश्च देहिनां देहेषु भवति । क्षीर-सुरादिभाण्डकृत् कुलालकल्पमुच्चैर्नीचगोत्रकृद् गोत्राख्यं कर्म द्विभेदम् । येन बाधिता दानादिलब्धयो न फलन्ति , तद् भाण्डागारिकोपममन्तरायाख्यं कर्म पञ्चभेदम् । इत्येवं मूलप्रकृतीनां कर्मणां विपाकचिन्तया विपाकविचयाख्यं धर्मध्यानं कथ्यते । उत्पाद-व्यय-ध्रौव्यात्मकानाद्यनन्तलोकाकृतिचिन्तया संस्थानविचयाख्यं ध्यानं कथ्यते । कटिस्थकरस्य वैशाखस्थानकस्थितस्य नरस्याऽऽकृतिरिव लोकस्याऽऽकृतिः । स च लोक उत्पाद-व्ययधौ-व्यात्मकद्रव्यैः पूर्णः । अधस्ताद् वेत्रासनतुल्यो, मध्ये झल्लरीसन्निभोऽग्रे मरजाख्यवाद्यसदृश इत्येवंप्रकाराकतिर्लोकः । स च त्रिजगत्सु व्याप्तः । तत्र सप्तभुवो घनाम्भोधि-घनवात-तनुवातैर्वेष्टिताः। रुचकापेक्षयाऽधस्तिर्यगूर्बभेदात् त्रीणि जगन्ति भवन्ति । मेरोरन्तर्गोस्तनाकारचतुर्कोमप्रदेशोऽध ऊर्ध्वं चेत्येवमष्टप्रदेशो रुचकः । रुचकस्योपरिष्टादधस्ताच्च योजनानां नव नव शतानि तिर्यग्लोकः । तिर्यग्लोकस्याऽधस्ताच्चाऽधोलोको नवयोजनशतोनसप्तरज्जुप्रमाणः प्रतिष्ठितः । तत्राऽधोभागमासाद्य सप्तभूमयोऽधोऽधस्थाः । यासु नारकाणां भीषणा निवासा: सन्ति । रत्न-शर्करा-वालुका-पङ्क-धूम-तमःप्रभा ३० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः महातमःप्रभाश्च क्रमशस्तन्नामानि । तासां च बाहल्ये लक्षयोजनं क्रमशोऽशीति-द्वात्रिंशद-ष्टाविंशति-विंशत्य-ष्टादश-षोडशा-ष्टसहस्रसहितं सप्तानामपि मानं विज्ञेयम् । रत्नप्रभाया अधोऽधस्ताः क्रमात् पृथुतराः । तत्र प्रथमनरकभूमौ नरकावासानां त्रिंशल्लक्षाणि, द्वितीयायां पञ्चविंशतिलक्षाणि, तृतीयस्यां पञ्चदशलक्षाणि, चतुर्थ्यां दशलक्षाणि, पञ्चम्यां त्रीणि लक्षाणि, षष्ट्यां पञ्चोनं लक्षमेकं सप्तम्यां च पञ्च नरकावासाः । रत्नप्रभादीनामधस्ताच्च घनाब्धयो मध्योत्सेधे योजनानां विंशतिसहस्राणि । ततोऽधस्ताद् घनवाता मध्योत्सेधे घनाब्धितो योजनानामसङ्ख्यानि सहस्राणि । घनवाततश्च तनुवाता असङ्ख्यानि सहस्राणि । तनुवाततश्चाऽऽकाशमसङ्ख्येयानि सहस्राणि । मध्योत्सेधाच्च क्रमेण हीयमाना घनाब्ध्यादयः प्रान्ते वलयाकारधारिणः। रत्नप्रभायाः परिधिस्थितस्य घनाब्धिवलयस्य विष्कम्भः षड़ योजनानि, घनवातस्य च वलयविष्कम्भे सार्धानि चत्वारि योजनानि, तनुवातस्य वलयविष्कम्भे च साधू योजनम् । शर्कराप्रभाया घनाब्धौ च पूर्वोक्तवलयमानाद् योजनस्य त्रिभागः, महावाते गव्यूतमेकं, तनुवाते च गव्यूततृतीयांशोऽधिकः । एवं सप्तमी भूमिं यावत् पूर्वपूर्ववलयमानादेवमेवाऽधिकं वलयमानं वेदितव्यम् । सर्वत्र च घनाध्यादिवलयानि स्वस्वपृथिवीगतोत्सेधतुल्योत्सेधानि । आस्वेव घनाब्यादिधारितासु सप्तसु भूमिषु कुकर्मणां भोगस्थानं नरकावासाः । आसु भूमिष्वधोऽधो यातनादिवृद्धिर्जेया । अथ रत्नप्रभाया बाहल्येऽध ऊर्ध्वं चैकैकसहस्रयोजनं त्यक्त्वा तदन्तर्भवनपतीनां भवनानि सन्ति । ते च भवनपतयो दक्षिणोतरयोर्दिशोः श्रेणिद्वयेन तिष्ठन्ति । तेषु भवनाधिपेष्वसुराश्चूडामणिचिह्नाः, नागाः फणालाञ्छनाः, विद्युतो वज्रलाञ्छनाः, सुपर्णा गरुडचिह्नाः, वह्नयो घटचिह्नाः, वायवोऽश्वलाञ्छनाः, स्तनिता वर्धमानचिह्वाः,

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67