Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ २० तृतीयः सर्गः अथ सुरपतिनियुक्ताभिः पञ्चभिर्धात्रीभिरजितो महीपतिनियुक्ताभिस्ताभिस्तावतीभि: सगरश्च पाल्यमानौ ववृधाते । तयोश्चाऽजितः सुरेन्द्रसङ्क्रमितस्वाङ्गुष्ठसुधां सगरश्च धात्रीस्तन्यं यथाकालमपिबताम्। वर्धमानौ च तौ क्रमेण युगपच्च नृपतेरुत्सङ्गमारुरुहतुः । तौ च कदाचिद् नितान्तमुग्धं सिष्मियाते, धात्रीभिर्धार्यमाणावप्युत्सङ्गे न तस्थतुः । स्वच्छन्दं विचरन्तावनुधाविनीर्धात्री: खेदयामासतुः, वेगाच्च क्रीडाशुकादीनाददाते । तयोश्च पादपद्मेषु झणज्झणितिकुर्वाणा दिव्यघर्घरका रेजुः । स्वर्णमाल्य-कुण्डलादिशोभितौ च तौ नृपेणोत्सङ्गे बाह्रोः स्कन्धदेशे च प्रीत्या समारोपयामासाते ।। एवं नृपेणाऽतिप्रीत्या लाल्यमानयोदिने दिने वर्धमानयोस्तयोरजितो जिनानां त्रिज्ञानत्वात् स्वयमेव सर्वकलाशास्त्रादि जज्ञे । सगरश्चोपाध्यायाच्छब्द-न्याय-साहित्यादिशास्त्राणि कतिपयैरेव दिवसैतिवान् । स च सगरः कर्णरसायनैः काव्यैर्वीतरागस्तवनैः स्वां वाचमकृतार्थयत् । स्याद्वादोपन्यासैश्च प्रतिवादिनो विजिग्ये । एवमर्थशास्त्रा-ऽऽयुर्वेद-वाद्यशास्त्र-गजाश्वादिलक्षण-धनुर्वेद-सङ्ग्रामकौशलाद्ययत्नसिद्धमाददे। तदेवं स भूषणाद्यैरिव गुणैर्विनयादिभिर्भूषितः सर्वकलापूर्णोऽभूत् । श्रीमानजितनाथोऽपि च शक्रः क्रीडादिभिरसेव्यत । शास्त्रं पठंश्च सगरः स्वसंशयानुपाध्यायेनाऽप्यच्छिन्नान् जिनं पृष्टवान् । जिनश्चाऽपि मति-श्रुता-ऽवधिज्ञानस्तान् संशयांश्चिच्छेद। शस्त्रप्रयोग-लक्ष्यवेधा-ऽश्वादिवाहनकौशल्यादि च सगरो जिनाय त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काले कालेऽदर्शयत । जिनश्च तं सम्भवन्तीं न्यूनतामशिषत् । एवमात्मानुरूपं चेष्टमानौ तौ प्रथमं वयो ललचाते । तथा समानचतुरस्रसंस्थानोपशोभितौ, वज्रर्षभनाराचसंहननौ, स्वर्णकान्ती, सार्धचतुर्धनु:शतसमुच्छ्यौ, श्रीवत्सलाञ्छितवक्षस्की, रुचिरोष्णीषशालिनौ शरीरलक्ष्मीविशेषकं यौवनमापतुः । तयोश्च कुटिलश्यामला: केशाः, उन्नते नासिके, शुभावतौ कर्णी, रेखात्रयाङ्कितौ कण्ठौ, गजकुम्भाविवोन्नतौ बाहुशिखरौ, पीनौ भुजौ, स्वर्णफलकतुल्ये उर:स्थले, गम्भीरौ नाभी, कृशौ मध्यदेशो, सरलकोमलौ करिकराकारावूरू, मृगीजङ्घातुल्ये जङ्घाकाण्डे, ऋजवोऽङ्गुलय: पादाश्चेत्येवं सर्वाणि सुलक्षणान्येवाऽऽसन् । तौ च निसर्गसुभगौ यौवनेन विशेषतो मधुनाऽऽरामाविव शुशुभाते । तदेवं सगरो रूपेण विक्रमादिगुणैश्च सर्वमर्येभ्य उत्कृष्टोऽभूत् । अजितस्वामी च देवेभ्यो मनुष्येभ्यश्च रूपादिभिरुत्कृष्टोऽभूत् । अथ जितशत्रुनृपेण विवाहार्थमुपरुद्धो नीरागोऽपि कर्मफलस्याऽवश्यमुपभोक्तव्यतयाऽजितस्वामी तद्वाचं तथेति प्रतिपद्य शतशः स्वयंवरा राजकन्याः परिणिन्ये । सगरोऽपि च देवकन्योपमा राजकन्या: परिणिन्ये । भोग्यं कर्म क्षपयितुं जितेन्द्रियोऽप्यजितप्रभुः सगरश्च ताभिः स्वभार्याभिर्नानाविधक्रीडाभिः करेणुभिः करीव रेमाते । अन्यदा भवोद्विग्नो भ्रात्रा समं जितशत्रुनृपः सम्पूर्णाष्टादशपूर्वलक्षावजित-सगराववदत्-"वत्सौ ! न: पूर्वेऽपि कतिपयपूर्व लक्षाणि पृथिवीं परिपाल्य पुत्रेषु राज्यमारोप्य निर्वाणसाधनं व्रतमाददिरे। तत्तथावंशक्रमादावामपि व्रतं ग्रहीष्यावः । ततोऽद्य प्रभृत्यावामिव वां राज-युवराजौ भवतम् । नौ प्रव्रज्यायै चाऽनुजानीतमद्य" । तच्छ्रुत्वाऽजितस्वाम्युवाच-"युक्तमिदं वः। ममाऽपि तदेव युज्यते ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67