Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ द्वितीयं पर्व-द्वितीयः सर्गः रत्नदर्पण-भृङ्गार-व्यजन-चामर-दीपिकापाणयः सर्वास्तादिकुमारिका मङ्गलानि गायन्त्यो यथास्थानं समुपविविशुः । अथ रुचकद्वीपमध्यस्थाः प्रत्येकं पूर्ववत् स्वपरिवारसहिता रूपाद्या दिक्कुमारिका विमानवरमारुह्य जिनजन्मगृहमागत्य विमानस्था एव त्रिः प्रदक्षिणीचक्रुः । ततस्ताः समुचितदेशे विमानानि स्थापयित्वा पादचारिण्यो जिन तन्मातरौ भक्त्या प्रदक्षिणीकृत्य नत्वा स्तुत्वा स्वं ज्ञापयित्वा च "जिनजन्मकृत्यकरणार्थं वयमागताः, तन्न भेतव्यमित्युक्त्वा जिनस्य चतुरङ्गुलवर्गं नाभिनालमकल्पयन् । विवरं खनित्वा तत्र नालं निधाय रत्नादिभिस्तत्पूरयित्वा तत्र सद्यः समुद्भूतदूर्वासहितं पीठं बद्ध्वा सूतिकागृहस्य तिसृषु दिक्षु श्रीगृहाण कदलीगृहाणि च विचक्रुः। प्रत्येकं तन्मध्ये चतुःशालं तन्मध्ये चैकैकं रत्नसिंहासनं च विकृत्य करतलेन तीर्थकरं तन्मातरं च भुजे गृहीत्वाऽपाच्यकदलीगृह उपनीयाऽन्तश्चतुःशालं रत्नसिंहासने जिन तन्मातरं च न्यवेशयन् । स्वयं दासीभूय शतपाकादितैलैरभ्यङ्गं विधाय गन्धद्रव्यैरुद्वर्त्य तौ पुनः पूर्वकदलीगृहे नीत्वोपवेश्याऽन्तश्चतुःशालरत्नसिंहासने गन्धोदकादिभिः स्नपयित्वा विचित्ररत्नालङ्कारादि पर्यधापयन् । ततस्तावादायोदीच्यकदलीगृहे समुपनीय सिंहासने समुपवेश्याऽऽभियोगिकैः क्षणाद् गोशीर्षचन्दनेन्धनाद्यानाय्याऽरणिदारुणी मथित्वाऽग्नि समुत्पाद्य गोशीर्षचन्दनानि समिधीकृत्य होमेन भूतिकर्म विधाय जिनस्य रक्षाग्रन्थि बबन्धुः । " पर्वतायुर्भवेत वदन्त्यो जिनकर्णयो रत्नगोलकावास्फाल्य पुनस्तावादाय सूतिकागृहे समुपनीय शय्यायामध्यारोप्य तयोर्गुणान् मञ्जु गायन्त्योऽनतिदूर एव तस्थुः । १५ इतश्च सौधर्मे परिवारपरिवेष्टितः शक्र आसनकम्पेनाऽवधिमुपयुज्य जिनजन्म ज्ञात्वा कृतोचितोपचारो जिनजन्मोत्सवार्थं सुघोषाघण्टानादे सर्वान् देवानाह्वाय्य पालकाख्यं दिव्यविमानमुत्तरवैक्रियेण त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः रूपेणाऽध्यारुह्य सपरिवारो नन्दीश्वरद्वीपमासाद्य विमानं समक्षिपत् । सूतिकागृहमागत्य कृतसकलोचितोपचारो जिनमातुरवस्वापनिकां दत्त्वा तत्पार्श्वे तीर्थकृद्रूपं विकृत्य निधाय च जिनमादाय मेरुशैलं सपरिवार आगत्य चूलादक्षिणतः स्थितायामतिपाण्डुकम्बलाख्यायां शिलायां स्वोत्सङ्गस्थापितजिनः पूर्वाभिमुख उपाविशत् । तथाऽन्येऽपि त्रिषष्टिरि न्द्राः स्वस्वघण्टावादनेन स्वस्वपरिवारानाह्वाय्य तैः सहिता जिनजन्मोत्सवार्थं मेरौ जिनमुपाजग्मुः । तत आभियोगिकदेवैरानीतैः स्नात्रोपकरणैरारणा - ऽच्युतेन्द्रो जिनं देवैः सहितो यथाविधि समहोत्सवं स्नपयित्वा 'जय जयेत्युदीर्याऽङ्गप्रमार्जनादि विधाय पूजयित्वा - ऽष्टमङ्गलीं लिखित्वाऽऽरात्रिकादि विधाय प्रणम्य स्तुत्वा किञ्चिदपक्रम्य कृताञ्जलिः शुश्रूषातत्परस्तस्थौ । आरणा ऽच्युतेन्द्रवच्चाऽन्येऽपि द्वाषष्टिरिन्द्राः सपरिच्छदा जिनस्य यथाविधि स्नात्रं विधाय यथोचितं तस्थुः | ततो द्वितीयस्वर्गाधिप आत्मानं पञ्चधा विकृत्य जिनं निजोत्सङ्ग आदायाऽऽदितीर्थ करतुल्योपचारेण सिंहासनमधिश्रितः । सौधर्मकल्पेन्द्रोऽपि प्रथमतीर्थकृत्तुल्योपचारेण स्नात्रादि विधाय शक्रस्तवेन वन्दित्वा प्रणम्याऽष्टोत्तरशतश्लोकैः स्तुत्वा पञ्चधाऽऽत्मानं विचकार । यथायथं जिनं छत्रादि च गृहीत्वा सपरिच्छदो विनीतायां सूतिकागृहमागत्य तीर्थकृत्प्रतिरूपं संवृत्य तत्र जिनं निधायाऽलङ्करणादि दत्त्वा जिनमातुरवस्वापनिकामपहृतवान् सः । शक्रादिष्टकुबेरप्रेषिताश्च जृम्भका देवास्तत्राऽऽगत्य रत्न-वस्त्रादिवृष्टि कल्पद्रुवज्जितशत्रुनृपगृहे वितेनुः । सौधर्मेन्द्राज्ञया चाऽऽभियोगिका देवाः प्रथमतीर्थकृद्वज्जिनरक्षां घोषयामासुः । ततो मेरुशिखरात् सर्वे देवा:, जितशत्रुगृहात् सौधर्मेन्द्रश्च जिनं प्रणम्य नन्दीश्वरद्वीपेऽञ्जनाद्रावागत्याऽष्टाह्निकां व्यधुः । तल्लोकपालादयश्चाऽपि प्रथमजिनेन्द्रवद् यथायथं तत्तत्पर्व १६.

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67