Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ द्वितीयं पर्व-द्वितीयः सर्गः ततश्च शक्रः विनीतायां जितशत्रुगृहं जगाम । तथाऽऽसनकम्पतोऽवधिज्ञानेन जिनस्य गर्भावतारं ज्ञात्वाऽन्येऽपि शक्रास्तत्र समाययुः। तत्र च मनोरमे हंसतूलगर्भशयने स्वामिनी विजयां दृष्ट्वा स्वं ज्ञापयित्वा नत्वा च तस्यै तीर्थकृज्जन्मरूपं स्वप्नफलं वर्णयामासुः। अनन्तरं शक्रः कुबेरमादिशत्-"ऋषभस्वामिराज्यादौ रत्नाद्यैस्त्वया पूरितेयं नगरी नूतनगृहादिभिर्नवीकृत्य रत्नादिभिः पुनः पूर्यताम्" । ततश्चेन्द्राः सम्पादिततदादेशः कुबेरश्च स्वं स्वं स्थानं ययुः । तदानीं च कुबेरकृतप्रतियत्ना सा नगरी द्वितीयाऽलकेव बभौ ।। अथ तस्यां रात्रौ सुमित्रस्याऽपि भार्या यशोमत्यपराऽभिधा वैजयन्ती तानेव स्वप्नान् ददर्श । ततश्च ते विजया-वैजयन्त्यौ तद्रात्रिशेष जाग्रत्यावेव गमयामासतुः । प्रातश्च तान् स्वप्नान् विजया जितशत्रवे, वैजयन्ती च सुमित्रविजयाय कथयामासतुः । ततश्च विजयादेव्यै "एतत्स्वप्नानुसारेण भुवनत्रयोत्तमस्तव पुत्रो भविष्यती"ति कथयति नृपे द्वारपालनिवेदितः सुमित्रविजयस्तत्राऽऽ जगाम । प्रणम्य च यथास्थानमुपविश्य क्षणं स्थित्वा रचिताञ्जलिः पुनर्नत्वा राजे निवेदयामास-"अद्य रात्रेरन्तिमे प्रहरे वैजयन्त्या मुखकमलप्रवेशिनः ख्याता दिग्गजादयश्चतुर्दश महास्वप्ना अवलोकिताः । एषां फलं च देव एव जानाति । तत्फलभाक् च देव एव" । तच्छ्रुत्वा राजोवाच-"विजययाऽपीमे एव स्वप्ना दृष्टाः, यद्यप्येते महास्वप्ना महाफलाः, तथाऽपि विशेषतः फलं ज्ञातुं तज्ज्ञाः प्रष्टव्याः"। ततः कुमारेण तथेत्युक्ते राज्ञाऽऽदिष्टो द्वारपाल: सादरं स्वप्नशास्त्रज्ञानाजुहाव । ते च कृतस्नाना, अमला धौतश्वेतवासोवसानाः, शिरोन्यस्तदूर्वाङ्कुराः, सपुष्पकेशा, भालस्थले गोरोचनाकृततिलका, अनाल्पमण्डनमण्डिता नैमित्तिकाः साक्षाद् ज्ञानशास्त्ररहस्यानीव समाययुः । राज्ञः पुर आशीर्वादात्मकानार्यवेदोक्तान् मन्त्रान् प्रत्येक युगपच्च पठित्वा माङ्गलिकं दूर्वाक्षतादिकं राज्ञो मूनि प्रक्षिप्य त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः द्वारपालदर्शितेषु भद्रासनेषु समुपाविशन् ते । ततो राजा जायां वधू च यवनिकान्तरे समुपवेश्याऽञ्जलौ पुष्प-फले समादाय तेषां ताभ्यां दृष्टान् महास्वप्नानकथयत् । ततस्ते रहसि स्वप्नशास्त्रानुसारत: परस्परं पर्यालोच्य स्वप्नार्थं कथयामासुः-"देव ! स्वप्नशास्त्रे द्वासप्ततिः स्वप्ना उक्ताः, तेषु त्रिंशदुत्कृष्टाः, तेषु मध्ये तज्ज्ञैरेते चतुर्दश महास्वप्नाः कथ्यन्ते । तीर्थकरे चक्रिणि च गर्भस्थे सति तन्माता रात्रेश्चरमयामे क्रमश एतान् स्वप्नान् पश्यति। तथैषां स्वप्नानां मध्ये वासुदेवस्य माता सप्त, बलदेवस्य माता चतुरः, मण्डलेशस्य माता चैकं पश्यति" । तथा युगपद् द्वावर्हन्तौ न भवतः, द्वौ चक्रिणौ च युगपद् न भवतः । तथैकस्या एव तीर्थकृच्चक्री च द्वावपि न भवतः। ऋषभे भरतश्चक्री, सौमित्रिः सगरोऽजिते तीर्थकरे सति चक्रीत्यर्हदागमाद् विजयादेव्याः पुत्रस्तीर्थकरः, वैजयन्त्याश्च पुत्रश्चक्री भवितेति ज्ञातव्यः । तच्छ्रुत्वा परितुष्टेन नृपेण वितीर्णं दौस्थ्यापहारकं ग्राम-वस्त्रा-ऽलङ्कारादिकं पारितोषिकमादाय राजाज्ञया ते स्वं स्वं स्थानं जग्मुः । विजयावैजयन्त्यौ च मुदिते स्वं स्वं वासागारं जग्मतुः । ततः शक्राज्ञया देवा-ऽसुरस्त्रियो विजयादेवीं सेवितुं प्रवृत्ताः। तत्र वायुकुमारस्त्रियो नित्यं पांसु-तृण-काष्ठादि स्वामिनीगृहादपनिन्युः। मेघकुमारस्त्रियश्च गन्धोदकेन गृहाङ्गणभूमि सिषिचुः । ऋतुदेवताश्च नित्यं पञ्चवर्णानि पुष्पाणि समाजहुः । ज्योतिष्कदेव्यश्च यथाकालं यथासुखं प्रकाशं विदधुः । वनदेव्यश्च दास्य इव तोरणादिकं चक्रुः। ताश्च सर्वा मागधस्त्रिय इवाऽहरहस्तुष्टुवुः । विजया-वैजयन्त्यौ च निसर्गेणाऽपि राजन्त्यौ गर्भप्रभावेण विशेषतो रेजतुः । तयोः स्वर्णगौरं वदनं पाण्डिमानं दधौ । स्वभावादपि दीर्घ लोचने शरत्कमलवदधिकं सविकासे अजायेताम्।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67