Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 02
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ द्वितीयं पर्व-प्रथमः सर्गः राज्यं त्यक्त्वा व्रतं जगृहुः । भवता च राज्यभारः स्वभुजबलेनैव धृतः । वयं तु तत्र शोभाभूता एव । कुलक्रमागतं भवतः साम्राज्यं पराक्रमार्जितम् । व्रतादानं च निदानरहितमेव। कुमारश्च राज्यभारं वोढुं भवानिव क्षमः । अतो भवान् मोक्षफलां दीक्षां गृह्णाति चेद् गृह्णातु । स्वामिन ऊर्ध्वगति त्यानामुत्सवायैव जायते । भवतेव नीतिमता वीर्यवता च कुमारेण पृथिवी नृपसनाथा भवतु"। ___तच्छ्रुत्वा मुदितो नृपः कुमारं द्वारपालेनाऽऽहूतवान् । कुमारोऽपि समुपेत्य नृपति भक्त्या प्रणम्य यथास्थानं रचिताञ्जलिरुपविष्टवान् । ततो नृपः कुमारं पश्यन् जगाद -"अस्मत्पूर्वजा अपि पृथिवीं पालयन्तो योग्येषु पुत्रेषु राज्यभारमारोप्यं व्रतं गृहीतवन्तः । इयत्कालं मदन्यः कोऽपि गृहवासे नाऽस्थात् । अतोऽधुना त्वमिमं राज्यभारं गृहाण । वयं व्रतं ग्रहीष्यामः'। तच्छ्रुत्वा म्लानवदनः साश्रुनेत्र: कुमारोऽब्रवीत् -"मय्याज्ञावशवर्त्तिनि कुतोऽयमनवसरेऽप्रसादः ? यदेवमादिशति भवान् । किं मम कोऽप्यपराधः? पृथिव्या वाऽपराधः कृतः, यच्चिरं रक्षिताऽप्यधुना त्यज्यते ? तातपादान् विना मम न राज्येन प्रयोजनम् । ममैषा मन्दभाग्यता, यद् मां त्यजन् तात एवमादिशति । नाऽहं राज्यं ग्रहीष्यामि, यद्येवं गुर्वादेशव्यतिक्रमस्तर्हि प्रायश्चित्तं चरिष्यामि"। ततो नृपः पुनरुवाच-"विवेक्यपि त्वं मम स्नेहादविचार्यैवं वदसि । गुरोराज्ञा हि युक्तायुक्तविचारं नाऽर्हति । पुत्रे भारक्षमे जाते पिता निश्चिन्तो भवति । त्वामप्यपृष्ट्वैवाऽहं मुमुक्षुव॑तं ग्रहीष्यामि । नाऽहं परतन्त्रः । ततश्च त्वमनाथां भुवं पालयिष्यस्येव । किन्तु गुर्वाज्ञालङ्घनदोषोऽतिरिच्यते । तस्माद् भक्तिमता त्वया मद्वचोऽनुष्ठेयम् । एतदेवोचितम्" । मन्त्रिणोऽप्यूचुः- "यद्यपि कुमारस्य वचो नाऽसमीचीनं, तथाऽपि गुर्वाज्ञापालनमावश्यकमिति यथा देव आदिशति तथाऽऽचरणीयम् । देवेनाऽपि पितृवचो गुर्वाज्ञेति स्वीकृतम्" । ततः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुमारोऽवनतमुखो देवादेशः प्रमाणमित्युवाच । तेन च नृपतिनितरां मुमुदे । ततश्च नृपः स्वयमेव पाणिना गृहीत्वाऽभिषेकासने कुमारमुपवेश्य वाद्यमानेषु मङ्गलवाद्येषु पवित्रैस्तीर्थाद्यानीतजलैरभिषिषिचे । तथाऽपरेऽपि राजानस्तमभिषिच्य नमश्चक्रुः । ततः स कुमारो नृपादेशेन शुभ्राण्यंशुकानि परिहितवान् । वारयोषितश्च तस्य गोशीर्षचन्दनैरङ्गरागं चक्रुः । ततश्च सर्वाङ्ग मुक्तामयभूषणभूषितस्य तस्य मूनि मुकुटं सितं छत्रं च नृपतिः स्वयं धारयामास । वारनारीभिश्चामरैर्वीजितस्य तस्य भाले च भूपतिः स्वयं तिलक चकार । एवं कुमारं राज्ये स्थापयित्वा प्रसन्नो नृपस्तमुपदिदेश-"त्वं क्षितेराधारः, त्वं च स्वयं निराधारः, तदात्मनैवाऽऽत्मानं धारयः, विषयातिप्रसङ्गेन निजात्मनः शैथिल्यं न कर्त्तव्यम् । यौवन-विभवरूप-स्वामित्वेषु प्रत्येकं प्रमादकारणं विद्धि । कुलक्रमागताऽपि लक्ष्मीनि:स्नेहा लब्धेऽवसरे निर्गच्छति । अतस्तस्या रक्षणे प्राहरिक इव नयेन विक्रमेण च सदा जागरूको भवेः । श्रियमिच्छताऽपि च त्वया निर्लोभेन पृथिवी पालनीया । दुःसहकरभाराक्रान्ताः प्रजा मा कृथाः । कृतान्यायं निजं जनमपि दण्डयेः । राज्ये च मृगया-द्यूतसुरापानादि वारयः । यत: प्रजानां पाप-धर्मयोपो भागी भवति । अन्तरङ्गशत्रुश्च सदा वशगान् कुर्याः । अन्यथा तदविजये बाह्या अपि शत्रवोऽविजिता एव स्युः । धर्मा-ऽर्थ-कामांश्च यथाकालं परस्परमबाधया सेवेथाः । समये च चतुर्थे पुरुषार्थेऽपि प्रयतेथाः"। एवमुपदिश्य विरते विमलवाहने कमारो बद्धाञ्जलिस्तथेति सर्वं प्रत्यपद्यत । ततो विनीत: स सिंहासनादुत्थाय व्रतार्थमुत्तिष्ठासोः पितुर्हस्तावलम्बं ददौ । ततो नृपः स्नानागारं गत्वा स्नात्वा दुकूलेनाऽङ्गं

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67