Book Title: Tattvarthshlokavartikalankar Part 7
Author(s): Vidyanandacharya, Vardhaman Parshwanath Shastri
Publisher: Vardhaman Parshwanath Shastri

View full book text
Previous | Next

Page 429
________________ ४०४) तत्त्वार्थश्लोकवातिकालंकारे प्रतिके लेखको मंगाया गया। वह इस प्रकार है- " मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" ॥१॥ निर्जरा पदार्थस्यैव संवरानन्तरनिर्देशभाजः प्रस्तुतत्वात् तन्निर्देश एव युक्तोऽधुना न पुनः केवलोत्पत्तेरिति कश्चित् तदसत् । मोक्षवचनादेव निर्जरास्वभाव सम्प्रत्ययान्मोक्षनिर्देशोपपत्तेस्तहि मोक्षसूत्रमेवारब्धव्यमिति चेत्, अत्रोच्यते-- अथ मोहक्षयाज्ज्ञानावरणादिक्षयाच्च नुः केवलं व्यक्तिमेतीति यन्मोक्षः प्रस्तुतादपि ॥ सूत्रकारोऽब्रवीन्नूनं तत्तत्प्राधान्यसिद्धये मुक्तस्याज्ञानरूपत्वव्युदासाय च कस्यचित् ।। सुखं केवलमत्रोक्तं दुःखेनापृक्तमुत्तमं, ज्ञानं प्रादेशिकनिदर्शनं दर्शनैस्तथा ।। वीयं च देशवीर्येण दानाद्यैस्तद्विपर्ययः मोहस्यात्यन्तिकध्वंसात्सुखमात्यन्तिकं भवेत् ॥ प्रशमात्मक मित्येतत्प्रतिक्षेपो न निर्वतौ ।। ज्ञान तथा विधं शुद्धं ज्ञानावरणसंक्षयात् ।। दर्शनावरणध्वंसाद्दर्शन चेति ततस्थितिः, वीयं च दानाद्यशेष स्वान्तरायक्षयादिति ।। नाकिंचित्कर चैतन्यमानं मुक्तावशक्तिकं । नन्विह दशमेऽध्याये कथं मोक्षस्य प्रस्तुतिरिति चेत् नवमाध्याये संवरस्य गुप्त्यादिसूत्रेण प्ररूपणात् । “ तपसानि नरा चे" ति सूत्रेण निर्जरायाः कथनात् " मार्गाच्यवननिर्जराथं परिषोढव्याः परीषहाः" इति चाविपाकनिर्जराप्रतिपत्तेः । “ ततश्च निजरे'त्यनेन विपाकनिर्जरायाः प्रतिपादनात् । नन्वेतदपि निराकारणकशनं न स्वरूपवचन मिति चेत् न निराशदनिरुक्त्यैवार्थाव्यभिचारिण्या निर्जरालक्षणस्याभिधानात् तदर्थ सूत्रान्तरानारम्भाभिप्रायात् । ततो मोक्षस्यैवेह प्रस्तुतिः । तस्यामपि केवलस्यैवोप. त्तिहेतुकथनं किमर्थमिति चेत् तस्य प्राधान्यसिद्धयर्थ मुक्तस्याज्ञानरूपव्यवच्छेदार्थ चेदं सूत्रकारोऽब्रवीदिति नो निश्चयः । द्विविधं हि निःश्रेयसं परापरभेदात् । तत्र केवलोत्पत्तिरपरामुक्तिः, कृत्स्न विप्रमोक्षः परा, यद्येवं न्यायप्राप्तमेव प्रथमं अपरमोक्षस्य केवलोत्पाद. लक्षणस्य वचनं तदनन्तरं परमोक्षवचनात् । तथा च कथं केवलस्य प्राधान्यसिद्धयर्थ

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498