________________
४०४)
तत्त्वार्थश्लोकवातिकालंकारे
प्रतिके लेखको मंगाया गया। वह इस प्रकार है- " मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्" ॥१॥ निर्जरा पदार्थस्यैव संवरानन्तरनिर्देशभाजः प्रस्तुतत्वात् तन्निर्देश एव युक्तोऽधुना न पुनः केवलोत्पत्तेरिति कश्चित् तदसत् । मोक्षवचनादेव निर्जरास्वभाव सम्प्रत्ययान्मोक्षनिर्देशोपपत्तेस्तहि मोक्षसूत्रमेवारब्धव्यमिति चेत्, अत्रोच्यते--
अथ मोहक्षयाज्ज्ञानावरणादिक्षयाच्च नुः केवलं व्यक्तिमेतीति यन्मोक्षः प्रस्तुतादपि ॥ सूत्रकारोऽब्रवीन्नूनं तत्तत्प्राधान्यसिद्धये मुक्तस्याज्ञानरूपत्वव्युदासाय च कस्यचित् ।। सुखं केवलमत्रोक्तं दुःखेनापृक्तमुत्तमं, ज्ञानं प्रादेशिकनिदर्शनं दर्शनैस्तथा ।। वीयं च देशवीर्येण दानाद्यैस्तद्विपर्ययः मोहस्यात्यन्तिकध्वंसात्सुखमात्यन्तिकं भवेत् ॥ प्रशमात्मक मित्येतत्प्रतिक्षेपो न निर्वतौ ।। ज्ञान तथा विधं शुद्धं ज्ञानावरणसंक्षयात् ।। दर्शनावरणध्वंसाद्दर्शन चेति ततस्थितिः, वीयं च दानाद्यशेष स्वान्तरायक्षयादिति ।।
नाकिंचित्कर चैतन्यमानं मुक्तावशक्तिकं । नन्विह दशमेऽध्याये कथं मोक्षस्य प्रस्तुतिरिति चेत् नवमाध्याये संवरस्य गुप्त्यादिसूत्रेण प्ररूपणात् । “ तपसानि नरा चे" ति सूत्रेण निर्जरायाः कथनात् " मार्गाच्यवननिर्जराथं परिषोढव्याः परीषहाः" इति चाविपाकनिर्जराप्रतिपत्तेः । “ ततश्च निजरे'त्यनेन विपाकनिर्जरायाः प्रतिपादनात् । नन्वेतदपि निराकारणकशनं न स्वरूपवचन मिति चेत् न निराशदनिरुक्त्यैवार्थाव्यभिचारिण्या निर्जरालक्षणस्याभिधानात् तदर्थ सूत्रान्तरानारम्भाभिप्रायात् । ततो मोक्षस्यैवेह प्रस्तुतिः । तस्यामपि केवलस्यैवोप. त्तिहेतुकथनं किमर्थमिति चेत् तस्य प्राधान्यसिद्धयर्थ मुक्तस्याज्ञानरूपव्यवच्छेदार्थ चेदं सूत्रकारोऽब्रवीदिति नो निश्चयः । द्विविधं हि निःश्रेयसं परापरभेदात् । तत्र केवलोत्पत्तिरपरामुक्तिः, कृत्स्न विप्रमोक्षः परा, यद्येवं न्यायप्राप्तमेव प्रथमं अपरमोक्षस्य केवलोत्पाद. लक्षणस्य वचनं तदनन्तरं परमोक्षवचनात् । तथा च कथं केवलस्य प्राधान्यसिद्धयर्थ