________________
दशमोऽध्यायः
४०५)
तदभिधानमिति न चोद्यं केवलस्योत्पादस्यात्मलाभलक्षणत्वात् । आत्मलाभस्यान्तर्म लक्षयहेतुकस्य मोक्षत्वव्यवस्थानान् जीवस्याज्ञानव्यवच्छेदात् सर्वथाप्यभावात् किंचित्करत्वव्यव च्छेदवत् । तथाचोक्तम्
आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्भलक्षयात् ॥ नाभावं नाप्यचैतन्यं न चैतन्यमनर्थकम् । इति
कि पुनः केवलमत्राभिप्रेतं ? निःशेष मोहक्षयादनंतप्रशमसुखं केवलं सांसारिकसुखेन दुःखानुषक्तेन रहितत्वात्, ज्ञानदर्शनावरणान्तरायक्षयाच्च अनन्तं ज्ञानदर्शनं वीर्य - मभयदानादि च केवलं क्षायोपशमिकाज्ञानादिविविक्तत्वात् न चैतद्विरुद्धं नवानां केवललब्धीनामुपदेशात् । मोहादिप्रक्षयः कुतः सिद्धः ? इति चेदुच्यते, -
मोहादिप्रक्षयः सिद्धः परमः क्वचिदात्मनि ॥ प्रकृष्यमाणरूपत्वान्माणिक्यादौ मलादिवत् ।
ततः प्रोक्तं केवलं सर्वार्थगोचरं किंचिद्दर्शनं ज्ञानं चेति । सूत्रे वृत्तिप्रसंगो लघ्वर्थमिति चेत्र, क्रमेण क्षयज्ञापनार्थत्वात् मोहादीनां तत्क्षयो हेतुः केवलोत्पत्तेरिति हेतुलक्षण विभक्तिनिर्देशः । एतदेवाह -
पूर्वं मोहक्षयो ज्ञानावरणादित्रयक्षयः तदनन्तरमित्येतद्वृत्य निर्देशतो मतं घातिसंघातनिर्घाता देवं केवलमात्मनः, स्वरूपं मुख्यमुद्भूतिस्तल्लब्धिर्मुक्तिरर्हतां ॥ इतरच केवलस्य प्राधान्यमित्याह,
तस्यां सत्यां मुमुक्षूणां मुक्तिमार्गोपदेशनात् । सिद्धयेदिति प्रधानत्वं केवलस्येति पूर्ववाक्
11
कुतः पुनः मोहादीनां क्षय इति चेदुच्यते " सजीवस्यात्मविशुद्धि विशेषात् । असंयत सम्यग्दृष्टचादिगुणस्थाने वेदकसम्यक्त्व क्षायिकदर्शनचारित्रपरिणामविशेषात् क्रमशोऽशुभेतर कर्मप्रकृतिक्षपणनिबन्धनादित्यर्थः ।
इन वार्त्तिकों और भाष्यका अर्थ यों है कि मोहके क्षयसे और ज्ञानावरण, दर्शनावरण, तथा अन्तराय कर्मोंके क्षयसे केवलज्ञान उपजता है । ऐसा सूत्रार्थ होनेपर