Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 294
________________ 三の अथ क्षमागुणमाद्रियमाणजनतोपरि यथा सुगति लहि क्षमाये खंधसूरीस सीसा, मुगति दृढप्रहारी कूरगण्डू मुनीसा । गजमुनिस स्वमाए मुक्तिपंथा अराधे, तिम सुगति खमाए साधु मेतार्य साधे ।। ७ ।। पुरा कस्यचित्खन्धकसूरेः शिष्याणां पञ्चशती क्षमयैव मोक्षमाप्तवती । स्वयन्तु क्षमागुगं त्यजन् दुःखसन्ततिमगात पुनर्दृढ़अहारी कूरगडनामा मुनिश्र क्षान्त्यैव कैवल्यज्ञानमाप्य मुक्तावभूताम् । एवं गजसुकुमाल - मैतार्यमुनिवरौ क्षमागुणप्रयोगादन्तकृत्कैवयवन्तौ शिवसुखास्वादकावभवतां एतद्गजसुकुमालमुनेः कथा धर्मवर्गे त्रयोविंशतितमे प्रबन्धे दर्शिताऽस्ति शेषाश्व ताः कथा अत्रैव क्रमशः दन्ते क्षमया मुक्तिमधिगतानां पञ्चशत शिष्याणामक्षमया दुःखपारंपर्यमा तस्य स्कन्धकसूरेश्व १ - कथा - पुरा कान्तिपुरनामनगरे जितशत्रोः क्षोणिपालस्य खन्धकाभिधः कुमारः पुरन्दरयशाभिघाना कन्यैका चासीन । राज्ञा सा पुत्री दण्डकेन तदनुरूपेण राज्ञा परिणायिता । अथैकदा दण्डकनृपेण कस्मैचित्कार्याय प्रेषितो महान्नास्तिकः पालकनामा मन्त्री जितशनृपस्य सभामागत्य राजानं प्राणमत् । तत्रावसरे प्रसंगवशात्प्रस्तुतायां धर्मचर्चाय खन्धकराजकुमारेण स पालको विजिग्ये तेन पालको मनसि नितान्तमखिद्यत, परं तदानीं किमपि प्रतिकर्तुं नाशक्नोत् । अथ राजकार्य संपाद्य स पालकः स्वनृपान्तिकमाययौ । ततः कतिपय समयानन्तरं तत्रोद्याने विंशतितमतीर्थकरो मुनिसुव्रतस्वामी समवससार । तदैवागत्य बनपालो राज्ञे गुर्वागमन र्धापनं

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344