Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
APNA
संवरं भजमानस्य वनस्वामिनः १३-प्रयन्य:यथा-पाटलीपुरनगरे निवसतो धनावहमहेभ्यस्य महारूपवती रुक्मिणीनाम्नी कन्या वज्रस्वामिनो देशनामाकर्ण्य तद्रपेण विमोहिता निजसदनमागत्य मातापितरावेवमवादीत-हे पितरौ ! अहमनेन देहेन वज्रस्वामिनमेव वरिष्ये, नान्यं भर्तारं विधित्सामि । ताभ्यामुक्त-हे वत्से ! स त्यागी वर्तते तस्माचां न परिणेष्यति । अनेनाश्रवद्वार सकले प्रत्याख्यातमतः कोऽप्यन्यो गुणवान् वरो वरणीयः । इत्थं बहुधा प्रतिबोधिताऽपि यदा सा न बुबुधे तदा धनावहः श्रेष्ठी कोटिदीनारॉब्लात्वा रुक्मिणी पुरस्कृत्योपाश्रयमागत्य वज्रस्वामिनमवदत्-महाराज ! एतान् कोटिदीनारान गृहाण मम पुत्रीमिमां परिणीयाऽनुगृहाण चेत्युदीर्य कन्यां दीनारांश्च तत्रैव मुक्त्वा निजसदनमाययो । तदनु तथा कन्यया वनस्वामिनं चालयितुं कृतेष्वपि शतश उपायेषु मेरू शिखरमिवाऽचलमवगत्य प्रतियुद्धा सती पितदत्त दीनारादिसर्व सप्तक्षेत्रेषु विभज्य प्रव्रजिता सा कन्याऽऽत्मसाधनतत्परा जाता ।
अथ पुनः संचरद्वारमाद्रियमाणस्य पुण्डरीकस्य १४--प्रबन्धःपुरा संयममार्गात्परिभ्रष्टः कुण्डरीको मुनी रजोहरमुखवसनादि कुत्रचित्तरावाललम्बे । पुनः कुण्डरीके राज्यासनमाप पुण्डरीकस्तदा धर्मध्वजादि तदुपकरणमादाय गुर्वन्तिकं गत्वैव मयाऽनोदकं ग्राह्यमिति नियममङ्गीकृत्य ततश्चचाल मार्गे च पादचारिणस्तस्य कंटकादिविद्धाभ्यां पद्भ्यां स्क्ते निर्गच्छत्यपि मनागपि संबरमत्यजन्नने गच्छस्तृतीये दिवसे कालं कृत्वा सर्वार्थ| सिद्धविमाने त्रयस्त्रिंशत्सागरोपमायुष्को देवोऽभूत् । अतो पमि-संवरे महाँल्लाभोऽस्ति, अबोसौ सर्वैरादर्तव्यः ॥

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344