Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 343
________________ शिखरिणी-वृत्ते-जगधन्द्रः सूरिविमलगुणधामोदयपुरे, प्रजापालात्तुष्टाव विरुदमिति लेभे गुरुतपाः। ततः स्वच्छो गच्छोऽभवदिह तदीयो बहुतपाः, तमेने संस्तौमि प्रयलबहुविचं युगवरम् ।। ७ ॥ इन्द्रवजा-इत्ते-प्रौढप्रतापी यशसा गरीयान्, सन्मार्गगामी श्रुतपारहवा । सौधर्मपटीयपरम्परासु, श्रीरत्नसूरिः समभून्महीयान् ।। ८ ।। शालिनी-वृत्ते-चित्रायल्ली सुप्रसन्ना सुरक्ता, पादग्राई संस्थिता येन मुक्ता । आचाम्लाख्या सत्तपस्याप्यकारि, स्तुत्यं तं वृद्धक्षमासूरिमोडे ॥९॥ नानाशास्त्रविचारदक्षमतिमान् वादीन्द्रजिष्णुर्महान, भूविख्यातयशस्करो युगवरः सत्यप्रतिज्ञाधरः। तस्पर्ट समलंकरिष्णुरभवद देवेन्द्रसूरीश्वरो, विद्याचुञ्चुममुं नमामि गणपं सोधिषीजप्रदम् ॥ १० ॥ इन्द्रवजा-वृत्ते- एतस्य पट्ट समलंकरोयः, कल्याणसूरिमहिमाम्बुराशिः। विद्र खनाग्रेसर उग्रतेजा स्तं सादरं प्राञ्जलिरामतोऽस्मि ।। ११ ।। तत्पधार्धेकदितं प्रमोद-सूरीश्वरचन्द्रमिवार्कभासम् । स्वाचारनिष्ठं सहकार्तिमन्त,-मन्वर्थनामानमभिष्टुवेऽहम् ॥ १२॥ मालिनी-वृत्ते-व्यराचि विशदराजेन्द्राभिधानः सुकोशः, शरयुगमितसूत्रप्रोक्ततत्त्वप्रकाशः। कतिपयजिनधर्मग्रन्थनिर्माणकर्ता, तमतुलमभिवन्दे श्रीलराजेन्द्रसूरिम् ।। १३ ॥

Loading...

Page Navigation
1 ... 341 342 343 344