Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
।
रूपं वमपि ज्ञापय । यतो मानिनो नृपा मान प्राणतोऽप्यधिक मन्यन्ते । अथ तत उस्थाय सा नगरमागच्छन्ती सर्वैरमिवन्दिता, समुपलक्षिता सती चन्द्रयशसमवादीत-हे पुत्र ! पुराणमासमप्रसवा तब पितऍपरते काननमगाम् । तत्र में पुत्रो जाता, स एवायं नामिनामा राजाऽभूत् । अतस्तेन सहोदरेण सह वैरं त्यज भवतोः सोदर्ययोमिथो वैरमोचनायैवावागतास्मि । मथ तदैव समुत्थाय प्रेम्णा सह निजबन्धु मिलितु पचाल, तदुदन्तं निशम्य नमिरपि ज्येष्ठबन्धुं मत्वा ततोप्यधिकवेगेन तदमिमुखमागत्य चन्द्रयशसं राजानं प्राणमत, क्षमयामास च निजकृतागसम् । अथ तौ मिथो बन्धुभावमापो सुखिनावभूताम् । ततश्च सोत्सवं नमिराजानं स नगरं प्रावेशयत्, पुनस्तदानीमेव तं नमिनृप निजराज्यसिंहासने समारोप्य सर्व राज्यादिकमदात् । ततश्चन्द्रयशानृपस्त सहस्रकन्याः परिणाययाञ्चके । अथ कियत्समयानन्तरं नमिनृपस्य दाहज्वरः प्रादुरासीत् । तच्छान्त्यै कृतोपचारा: सर्वेऽपि भिषग्वरा विफला अभूवन् । ततस्ते मलयजवन्दनमुपचारितवन्तः। तदनु सहस्रस्त्रियस्तदर्थ चन्दनं बर्षितुमलगन् । परमासां | घर्षणकाले समुत्पभो यः कंकणध्वनिस्तेन विदूयमानो राजा ता अवोचत्-हे त्रिय ! भवत्यस्तु ममोपकाराय चेष्टन्ते, परमनेन कंकणरवेण केवलमुसाप एव मे जायते । तच्छ्रुत्वा ता बलयानि निरास्यन् । केवलमेकैकमेव वलयं दधानाचन्दनं जघृषुः । तत्रावसरे चलयध्वनिमशृण्वन पुनरूचे नमिः । हे स्त्रियः १ चन्दनं कुतो न घृष्यते ता ऊचिरे-हे नाथ ! वयन्तु घर्षाम एव । सोचक्
कंकणारवः किमिति न श्रयते? ता जगदः-नाथ तेन घनिना भवतः कुशमालोक्याऽस्माभिस्तदेकैकमेव त्रियते, इतराणि च बहिश्चक्रिरे । तदाकर्ण्य नमिरचिन्तयस-यदेकाक्येव सुखी भवति बहुत्वे तु नूनमुपाधिरेव जायते । इत्थमेकर्व विभावयतस्तस्प नमिराजस्य रोगो व्यलीयत। प्रभाते नदसु मंगलवायेषु सहर्ष चारित्रं गृहीत्वा नमिराजा काननमगात् । तत्र च सौधर्मेन्द्रो

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344