________________
三の
अथ क्षमागुणमाद्रियमाणजनतोपरि यथा
सुगति लहि क्षमाये खंधसूरीस सीसा, मुगति दृढप्रहारी कूरगण्डू मुनीसा । गजमुनिस स्वमाए मुक्तिपंथा अराधे, तिम सुगति खमाए साधु मेतार्य साधे ।। ७ ।।
पुरा कस्यचित्खन्धकसूरेः शिष्याणां पञ्चशती क्षमयैव मोक्षमाप्तवती । स्वयन्तु क्षमागुगं त्यजन् दुःखसन्ततिमगात पुनर्दृढ़अहारी कूरगडनामा मुनिश्र क्षान्त्यैव कैवल्यज्ञानमाप्य मुक्तावभूताम् । एवं गजसुकुमाल - मैतार्यमुनिवरौ क्षमागुणप्रयोगादन्तकृत्कैवयवन्तौ शिवसुखास्वादकावभवतां एतद्गजसुकुमालमुनेः कथा धर्मवर्गे त्रयोविंशतितमे प्रबन्धे दर्शिताऽस्ति शेषाश्व ताः कथा अत्रैव क्रमशः दन्ते
क्षमया मुक्तिमधिगतानां पञ्चशत शिष्याणामक्षमया दुःखपारंपर्यमा तस्य स्कन्धकसूरेश्व १ - कथा - पुरा कान्तिपुरनामनगरे जितशत्रोः क्षोणिपालस्य खन्धकाभिधः कुमारः पुरन्दरयशाभिघाना कन्यैका चासीन । राज्ञा सा पुत्री दण्डकेन तदनुरूपेण राज्ञा परिणायिता । अथैकदा दण्डकनृपेण कस्मैचित्कार्याय प्रेषितो महान्नास्तिकः पालकनामा मन्त्री जितशनृपस्य सभामागत्य राजानं प्राणमत् । तत्रावसरे प्रसंगवशात्प्रस्तुतायां धर्मचर्चाय खन्धकराजकुमारेण स पालको विजिग्ये तेन पालको मनसि नितान्तमखिद्यत, परं तदानीं किमपि प्रतिकर्तुं नाशक्नोत् । अथ राजकार्य संपाद्य स पालकः स्वनृपान्तिकमाययौ । ततः कतिपय समयानन्तरं तत्रोद्याने विंशतितमतीर्थकरो मुनिसुव्रतस्वामी समवससार । तदैवागत्य बनपालो राज्ञे गुर्वागमन र्धापनं