Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
सम्मेतशिखरस्य मार्गे तिष्ठति । अहो ! स्कन्धकाचार्यस्य पंचशती शिष्यमण्डली क्षमया मोक्षमाप, स्वयन्तु तेषां गुरुत्वाऽपि क्षमात्यागान्महतीं दुःखसन्ततिमसइव | अतः सर्वैरपि श्रेयोऽर्थिभिः श्रमागुणः सादरं धार्थ एव ।
अथ क्षान्त्या मोक्षमधिगतस्य दृढप्रहारिणः २-कथा
पुरा कस्यचिद् ब्राह्मणस्य पुत्रः सप्तव्यसनसमासको दृढप्रहारिनामा मातापितृभ्यां गृहाभिष्कासितोऽमवद । ततचौरग्राममागतस्तत्र चापुत्रश्रौरनायकस्तं योग्यं मत्वा पुत्रत्वेन स्वान्तिके स्थापयामास । अथ कतिपयसमयानन्तरं पितर्युपरते स एव सकलत कराऽऽधिपत्यं लेभे । स कठोरहृदयः क्रूरकर्मकारी च जन्मत एवासीत्, अतोऽनन्तजीवानप्यवधीत् । अथैकदा सपरिवारः स कुशस्थल पुरं लुण्टितमगात् । तत्पुरं लुष्टयित्वा कस्यचिद् ब्राह्मणस्य गृहं प्राविशत्तत्र च महता मनोरथेन क्षीरपाकं पक्वा चुल्ल्युपरि निधाय तत्पत्नी ब्राह्मणी पुत्रं लालयन्ती किश्चिद्दरमुपविष्टाऽऽसीत् । तत्रावसरे सा तद्भाण्डं स्प्रष्टुं यान्तं दृष्टप्रहारिणमबादीत - अरे ! कस्त्वं मदीयं पाकभाण्डं मा स्पृश, यदि स्प्रक्ष्यसि तर्हि ममोपयुक्तं न स्यात्तदाकर्ण्य कुपितः स तच्छिरोऽसिना चिच्छेद | तद्वीक्ष्य स्नानं विदधद् ब्राह्मणोऽखमादाय तं हन्तुमनुपदमेव दधाव, दृढप्रहारी तस्याऽपि शिरोऽच्छेत्सीत । पुनस्वतोऽपसरन्मार्गे गर्भवतीमेकां गामपि जिसि । तत्रावसरे गोरुदरती बहिर्भूतमविदीनं वत्समालोक्य तस्य हृदये दया प्रादुर्भूता तेन स भृशं पश्चात्तापमकरोचथाहि -धि मां धिङ् मां यददं ब्राह्मणो भूत्वाऽपीशं घोरकर्म कृतवान् ! हा! हा ! मम नरके कीटशी यातना सोढव्या भविष्यतीति ? आसाश्चतसृणां - - स्त्री-गो - बालहत्यानां किं फलं भोक्ष्ये ? अथवाऽसावेदनम
J
२४

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344