SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सम्मेतशिखरस्य मार्गे तिष्ठति । अहो ! स्कन्धकाचार्यस्य पंचशती शिष्यमण्डली क्षमया मोक्षमाप, स्वयन्तु तेषां गुरुत्वाऽपि क्षमात्यागान्महतीं दुःखसन्ततिमसइव | अतः सर्वैरपि श्रेयोऽर्थिभिः श्रमागुणः सादरं धार्थ एव । अथ क्षान्त्या मोक्षमधिगतस्य दृढप्रहारिणः २-कथा पुरा कस्यचिद् ब्राह्मणस्य पुत्रः सप्तव्यसनसमासको दृढप्रहारिनामा मातापितृभ्यां गृहाभिष्कासितोऽमवद । ततचौरग्राममागतस्तत्र चापुत्रश्रौरनायकस्तं योग्यं मत्वा पुत्रत्वेन स्वान्तिके स्थापयामास । अथ कतिपयसमयानन्तरं पितर्युपरते स एव सकलत कराऽऽधिपत्यं लेभे । स कठोरहृदयः क्रूरकर्मकारी च जन्मत एवासीत्, अतोऽनन्तजीवानप्यवधीत् । अथैकदा सपरिवारः स कुशस्थल पुरं लुण्टितमगात् । तत्पुरं लुष्टयित्वा कस्यचिद् ब्राह्मणस्य गृहं प्राविशत्तत्र च महता मनोरथेन क्षीरपाकं पक्वा चुल्ल्युपरि निधाय तत्पत्नी ब्राह्मणी पुत्रं लालयन्ती किश्चिद्दरमुपविष्टाऽऽसीत् । तत्रावसरे सा तद्भाण्डं स्प्रष्टुं यान्तं दृष्टप्रहारिणमबादीत - अरे ! कस्त्वं मदीयं पाकभाण्डं मा स्पृश, यदि स्प्रक्ष्यसि तर्हि ममोपयुक्तं न स्यात्तदाकर्ण्य कुपितः स तच्छिरोऽसिना चिच्छेद | तद्वीक्ष्य स्नानं विदधद् ब्राह्मणोऽखमादाय तं हन्तुमनुपदमेव दधाव, दृढप्रहारी तस्याऽपि शिरोऽच्छेत्सीत । पुनस्वतोऽपसरन्मार्गे गर्भवतीमेकां गामपि जिसि । तत्रावसरे गोरुदरती बहिर्भूतमविदीनं वत्समालोक्य तस्य हृदये दया प्रादुर्भूता तेन स भृशं पश्चात्तापमकरोचथाहि -धि मां धिङ् मां यददं ब्राह्मणो भूत्वाऽपीशं घोरकर्म कृतवान् ! हा! हा ! मम नरके कीटशी यातना सोढव्या भविष्यतीति ? आसाश्चतसृणां - - स्त्री-गो - बालहत्यानां किं फलं भोक्ष्ये ? अथवाऽसावेदनम J २४
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy