________________
२...
SCE
राजा तमेवमवादीन-एतद्विषये यथेच्छसि, तथा कुरु मो मा पृच्छ । ततो मुदित: स दुष्टस्तदैव तत्रागत्य पीलनयन्त्रमानाय्य - सर्वान साधूस्तत्राकार्य क्रमश एकैकं तत्र यन्त्रे नवनवस्यधिकचतुःशतमुनीनपिनट् । सर्वेऽभी सुनयश्चतुर्विधमाहारं प्रत्याख्याय ! समाधिना शान्ति वहन्तोऽन्तकृत्केवलिनो भवन्सो मोक्षमीयुः । यदा स पापीयान् जीव एकमेवाऽवशिष्ट लघुसाधु पीलितुमच्छत्तदा खन्धको मुनिः शान्तिमत्यजत्कथितश्च-रे पापिष्ठ ! प्रथम भामेच यन्त्रेन निष्पीलय पश्चात्स्वेच्छानुकूलं विधातव्यम् । वेनोक्तं नहि नहि प्रथममेनमेव क्षुल्लक निष्पील्य पश्चाचा पीलयिष्यामि | तदा त क्षुल्लकमुनि पील्यमानमालोक्य सर्वथा क्षमा त्यजन स्कन्धकसरिगुरूदितं वचः स्त्रभवितव्यञ्च सत्यतां नयनह मृत्वा दण्डकदेशदाही स्यामिति निदानमकरोत् । पीलनसमये लघुरपि साधुः क्षमयानकुत्केवलीभूतोऽक्षयं शिवसुखमाप्तवान, कृतनिदानः खन्धकाचार्योऽपि क्षमात्यागतः पालकेन यन्त्रे पीलितो दुर्ध्यानेन मृत्वाग्निकुमारोऽभवत् । अत्रान्तरे पलनान्त्या शोणिताऽर्द्रग्जोहरणमादाय गृध्र उदडीयत । तथाकस्मात्पुरन्दरयशाराश्या अग्रेउपतत् । तदालोक्य सा राजानमपृच्छत् हे नाथ ! ईदृशो मरणान्तोपसर्गः साधूनां केन पापिना कृतः परं राजा किमपि नोवाच । ततः पौरजनमुखात्पालकेन पापीयसा पञ्चशतमुनिमंडलसहितः खन्धकाचार्यो यन्त्रे पिष्ट इति ज्ञात्वा भृशं शोचन्ती सा राशी दण्डकनृपमत्रोचत्-मोः पापिष्ठ ! येन त्वया पञ्चशतमुनिघातः कारितस्तेन संजातमहापापस्य तब मुखावलोकनमपि न युज्यते । ततः संसारमसारं जानाना पुरन्दरयशामहिपी चारित्रमादाय समधीत्व ततो विजहे । कृतनिदानस्कन्धकाचार्यजीवोऽमिकमारो भृत्वाऽवधिना समुद्भूतमत्सरस्तदैव दण्डकनृपतिदेशं समस्तं भस्मसाबके । यदद्यापि दण्डकारण्यमित्युच्यते लोकैः । एतद वनं