Book Title: Suktmuktavali
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 301
________________ करणेन मम तु बहवः पुत्राः पुत्र्यश्व विलसन्ति । साम्मे मम मातोऽहं सत्यं वच्मि, यद्यावामेकदिने पुत्र प्रसोब्यावस्तर्हि ममतं चिरजीविनं पुत्रं ते दास्यामि त्वत्प्रसूतं मृर्त शिशुमहं ग्रहीष्यामि । आवामेवैतत्स्वरूपं वास्यावोऽन्यः कोऽपि न घोधिष्यति । केवलं सभाममात्रं मया धृवं त्वया व्याहार्य तदनु वे व्यवहारिखीचाण्डाल्यावेकस्मिमेव दिने सुतं सुषुवाये। जथ चाण्डालस्त्री युक्त्या प्रच्छमतया निजपुत्रं तस्या अदासदीयकं मृतं सुतं स्वयं जग्राह । अथ पुत्रजननमाकर्ण्य व्यवहारी महोसमकरोन्मेतार्थ इति नाम चक्रे, पंचमे वर्षे च लेखशालायां मैषीत् । यदा स सकल कलाकुशलोऽसदा द्वादशवार्षिकं त पुत्रमष्टाभिः स्वजातीयाभिः सुरूपाभिः सुकन्याभिः परिणाययितुं स्थिरीचक्रे । प्रवर्तितश्च तदर्थमुत्सवः स्त्रियश्च द्विसन्ध्यं धवलमङ्गलगीतं गातुं लग्नाः । अत्रावसरे पुराकृतसंकेतो देवस्तत्रागत्य दध्यौ-यद्यसौ एताः कन्याः परिणेष्यति तर्हि भवान्धेर्न तरियति । अतः प्रागेवासो मया प्रतिबोधनीय इति निश्चित्य प्रकटीभूय तं बहुधा प्रत्यबोधत, परन्तु तस्मै किमपि न रुरुचे । ततः स देवो मेतीशरीरे प्राविशत् । इतथ मेती चाण्डाली रोदितं लग्ना । अथ रुदती मेती चाण्डाली व्यवहारिगृहमागत्य मेतार्यपुत्रं निजगृहमानीतवती, भर्तारं चादव हे स्वामिन् ! एष मे पुत्रोऽस्ति अस्य लयं व्यवहारी कथं चिकीर्षति ! एतत्स्वरूप सर्वत्र पप्रथे । ततस्तासामष्टानां कुमारीणां पितरचापि चिन्वामापुः । पुनः प्रकटीभूय स देशे मेतार्थ रहसि जगाद -मो मेवार्य ! जातं ते लग्नं, किमभूत् १ मेतार्यस्तमाह-भो देव ! स्वयैतदयुक्तं कृतं तथाकरणेन ममाऽपकीर्तिः प्रसरति सर्वत्र । देव आहमदुक्तं कथं नाकृथाः १ मेतार्थोऽवक्-मोः ! तवादेशमवश्यं करिष्यामि परमिदानीं श्रेणिकराजस्य पुत्र्या सह यथा मे विवाहो जायेत तथा कुरुष्व, ततोऽहं चारित्रं ग्रहीष्यानि । तच्छ्रुत्वा स देवस्तस्मायेकमजमदाज्जगाद च मो मेवार्य ! एनं गृहाण, एष

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344