Book Title: Shodshak Prakaran
Author(s): Mitranandsuri, Bhavyadarshanvijay
Publisher: Padmavijay Ganivar Jain Granthmala

View full book text
Previous | Next

Page 18
________________ ષોડશક પ્રકરણ - ૧ आभ्यां बाह्यलिङ्गमसारं, स तु बालस्तदेव प्राधान्येन मन्यत इति ॥४॥ : योगदीपिका : बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वे हेतुमाह-बाह्यमित्यादि ।। बाह्यम्-बहिर्दृश्यं, लिङ्ग-वेषादिचिह्न असारं - अफलं, यतः तत् प्रतिबद्धा तदविनाभाविनी धर्मनिष्पत्तिास्ति । यस्माच्च कार्यवशतः-स्वप्रयोजनाभिलाषाद् विडम्बकोऽप्येतद् लिङ्गं धारयति ततो न तद्धारयितुः प्रणन्तु फलमित्युभयथाऽप्यसारमित्यर्थः ॥ ४ ॥ १. प्रणन्तुश्च फलदमित्युभयथा ..... । इति प्रत्यन्तरे । बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि। कञ्चकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥५॥ विवरणम् : ननु च बाह्यलिङ्गस्य कथमप्राधान्यं भवद्भिरुच्यते ? यतस्तत् परिग्रह-त्यागरूपमित्याशक्याऽऽह-बाह्येत्यादि । बाह्यग्रन्थत्यागाद्-धन-धान्य-स्वजनवस्त्रादित्यागाद् न चारु न शोभनं बाह्यलिङ्गं, ननु निश्चितमेतद् अत्र लोके तद बाह्यलिङ्गम् इतरस्यापि-प्राकृतस्यापि मनुष्यतिर्यक्प्रभृतेः सम्भवति, एनमेवार्थं प्रतिवस्तूपमया दर्शयति-कञ्चकमात्रत्यागाद् -उपरि-वर्ति-त्वङ्मात्र-परित्यागात् न हिनैव भुजगः - सरीसृपः कथञ्चिन् निर्विषो भवति ॥ ५ ॥ : योगदीपिका : त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशङ्क्याऽऽह-बाजेत्यादि । बाह्यग्रन्थस्य धनधान्यादेस्त्यागान् न चारु न शोभनं बाह्यलिङ्गं गुणशून्यं ननुनिश्चितम् अत्र-लोके । तद्बाह्यग्रन्थाभावलक्षणम् इतरस्य तिर्यगादेरपि सम्भवति । एतदेव માત્ર બાહ્યવેષ ધારણ કરનાર કે તેવાને વંદન કરનારને કોઈ ફળ મળતું ન હોવાથી બંનેને માટે બાહ્યવેષ અસાર છે. ધન-ધાન્ય-સ્વજન-વસ્ત્રાદિના ત્યાગરૂપ ગુણશૂન્ય-બાહ્યવેષ તો તિર્યંચાદિને પણ હોવાથી અશુભ છે. કહ્યું છે કે - કાંચળીનો ત્યાગ કરવા માત્રથી સર્પ જેમ નિર્વિષ બનતો નથી, તેમ માત્ર ગૃહસ્થવેષનો ત્યાગ કરવાથી અને માત્ર સાધુવેષ ધારણ કરવાથી મોહવિષથી રહિત બની શકાતું નથી. ૫

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 242