________________
ષોડશક પ્રકરણ - ૧ आभ्यां बाह्यलिङ्गमसारं, स तु बालस्तदेव प्राधान्येन मन्यत इति ॥४॥
: योगदीपिका : बाह्यलिङ्गप्राधान्यदर्शिनो बालत्वे हेतुमाह-बाह्यमित्यादि ।।
बाह्यम्-बहिर्दृश्यं, लिङ्ग-वेषादिचिह्न असारं - अफलं, यतः तत् प्रतिबद्धा तदविनाभाविनी धर्मनिष्पत्तिास्ति । यस्माच्च कार्यवशतः-स्वप्रयोजनाभिलाषाद् विडम्बकोऽप्येतद् लिङ्गं धारयति ततो न तद्धारयितुः प्रणन्तु फलमित्युभयथाऽप्यसारमित्यर्थः ॥ ४ ॥ १. प्रणन्तुश्च फलदमित्युभयथा ..... । इति प्रत्यन्तरे ।
बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि। कञ्चकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥५॥
विवरणम् : ननु च बाह्यलिङ्गस्य कथमप्राधान्यं भवद्भिरुच्यते ? यतस्तत् परिग्रह-त्यागरूपमित्याशक्याऽऽह-बाह्येत्यादि । बाह्यग्रन्थत्यागाद्-धन-धान्य-स्वजनवस्त्रादित्यागाद् न चारु न शोभनं बाह्यलिङ्गं, ननु निश्चितमेतद् अत्र लोके तद बाह्यलिङ्गम् इतरस्यापि-प्राकृतस्यापि मनुष्यतिर्यक्प्रभृतेः सम्भवति, एनमेवार्थं प्रतिवस्तूपमया दर्शयति-कञ्चकमात्रत्यागाद् -उपरि-वर्ति-त्वङ्मात्र-परित्यागात् न हिनैव भुजगः - सरीसृपः कथञ्चिन् निर्विषो भवति ॥ ५ ॥
: योगदीपिका : त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशङ्क्याऽऽह-बाजेत्यादि ।
बाह्यग्रन्थस्य धनधान्यादेस्त्यागान् न चारु न शोभनं बाह्यलिङ्गं गुणशून्यं ननुनिश्चितम् अत्र-लोके । तद्बाह्यग्रन्थाभावलक्षणम् इतरस्य तिर्यगादेरपि सम्भवति । एतदेव
માત્ર બાહ્યવેષ ધારણ કરનાર કે તેવાને વંદન કરનારને કોઈ ફળ મળતું ન હોવાથી બંનેને માટે બાહ્યવેષ અસાર છે. ધન-ધાન્ય-સ્વજન-વસ્ત્રાદિના ત્યાગરૂપ ગુણશૂન્ય-બાહ્યવેષ તો તિર્યંચાદિને પણ હોવાથી અશુભ છે.
કહ્યું છે કે - કાંચળીનો ત્યાગ કરવા માત્રથી સર્પ જેમ નિર્વિષ બનતો નથી, તેમ માત્ર ગૃહસ્થવેષનો ત્યાગ કરવાથી અને માત્ર સાધુવેષ ધારણ કરવાથી મોહવિષથી રહિત બની શકાતું નથી. ૫