________________
ષોડશક પ્રકરણ - ૧ प्रतिवस्तूपमया दृढयति कंचुकमात्रस्य-उपरिवर्तित्वङ्मात्रस्य त्यागान् न हि - नैव भुजगः सर्पो निर्विषो भवति ॥ ५॥
मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥ ६ ॥
: विवरणम् : . प्रस्तुतमेवार्थं तन्त्रान्तरसंवादेनाह - मिथ्येत्यादि ।
मिथ्या-अलीको विशिष्ट-भाव-शून्य: आचारो मिथ्याचारस्तस्य फलं -कार्यम् इदं बाह्यलिङ्गं केवलमेव, हिः यस्माद् अपरैरपि तन्त्रान्तरीयैः गीतं-कथितम् अशुभभावस्य आन्तर-शुभ-भाव-रहितस्य पुंसः । मिथ्याचारस्वरूपं चेदं - .
"बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् ।। इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ।। (गीता ३.६)
जन्मान्तरोपार्जिताकुशल-कर्मविपाक एवैष यद्भोगोपभोगादि-रहितेन प्रेक्षावत्पुरुषपरिनिन्दनीयं क्लिष्टजीविकाप्रायं तथाविध-बाह्यलिङ्गधारणमिति, तन्त्रान्तरप्रसिद्धमिममर्थमङ्गीकृत्यापरैरपीत्युक्तम् । न केवलं तन्त्रान्तरेषु, सूत्रेऽपि-आगमेऽपि स्वकीये अविकलंपरिपूर्णम् एतद् बाह्यलिङ्ग स्वकीयमेव प्रोक्तं प्रतिपादितं ऐहभविक-पारभविकलिङ्गान्याश्रित्य अमेध्योत्करस्यापि - उच्चारनिकरकल्पस्यापि प्रवचनोदिताशेष-गुणशून्यस्येति यावद्, यत उक्तम् - "अणंतसो दव्वलिंगाई (उपदेशमालायाम्)
: योगदीपिका : उक्तार्थे तन्त्रान्तरसंवादमप्याह - मिथ्येत्यादि । हिर्यस्माद् अपरैरपि तन्त्रान्तरीयैरपि अशुभभावस्य पुस इदम् - केवलं बाह्यलिङ्गं मिथ्याचारस्य फलं गीतम् । मिथ्याचारस्वरूपं चेदम् -
"बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥" इति ।
આવા બાહ્યવેષધારીના ધર્મના આચારને જૈનેતરો પણ મિથ્યાચાર' કહે છે. કહ્યું છે કે – બહારથી ઇન્દ્રિયો (અને મન) ઉપર સંયમ મૂકી, અંતરથી વિષયોની ઝંખના કરનારો જીવ મિથ્યાચારી છે.
જૈનશાસ્ત્રો પણ કહે છે - માત્ર બાહ્યવેષ તો અશુચિના ઉકરડા જેવો છે. એને તો ગુણશૂન્ય અભવ્યાદિ જીવો પણ ધારણ કરી શકે છે. જીવે એવાં દ્રવ્યલિંગ (બાહ્યવેષ) અનંતીવાર ગ્રહણ કર્યા છે. ૬